________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व ॥ अथ सप्तमः सर्गः ॥ अथाऽक्रीडज्जलक्रीडादिभिश्चेल्लणया सह । श्रेणिकः प्रेमसूत्रेण मिथः स्यूतमना इव ॥१॥ श्रेणिकश्चेल्लणादेव्या रहसि प्रतिवासरम् । स्वौ करौ कङ्कतीकृत्य केशपाशममार्जयत् ॥२॥ स्वहस्तग्रथितैः सद्योऽनवद्यैः पुष्पदामभिः । तस्या बबन्ध धम्मिल्लं वालेबन्ध इव स्वयम् ॥३॥ स्वयं घृष्टमृगमदद्रव्यस्तस्याः कपोलयोः । लिलेख चित्रकृदिव विचित्राः पत्रवल्लरीः ||४||
आसने शयने याने भोजनेऽन्यत्र वा नृपः । तत्पाशर्वं नात्यजज्जातु सौविदल्ल इव स्वयम् ॥५॥ पाएकदा च प्रववृते शिशिरर्तुर्भयङ्करः । हिमवैवधिकोदीच्यपवनो वनदाहकः ॥६॥ सन्निधिस्थहसेन्तीकाः कश्मीरजविलेपनाः । श्रीमन्तो गर्भगेहस्थाः कालातिक्रमणं व्यधुः ॥७॥ गजर्दन्तीकृतकरा वेपमाना भयादिव । रोगर्भका गृहद्वारे दन्तवीणामवादयन् ॥८॥ पाणिपञ स्वभावोष्णप्रियावक्षसिँजान्निशि । सालाबुवीणादण्डाभं युवानो नाऽपसारयन् ॥९॥ तदा च समवासार्षीत्तत्र श्रीज्ञातनन्दनः । सर्वातिशयसम्पन्न: सेव्यमानः सुरासुरैः ॥१०॥ पादेव्या चेल्लणया सार्धमपराणेऽन्यदा नृपः । वीरं समवसरणस्थितं वन्दितुमभ्यगात् ॥११॥
वन्दित्वा श्रीमदर्हन्तं वलितौ तौ च दम्पती । जलोपान्ते ददृशतुः श्रमणं प्रतिमास्थितम् ॥१२॥ निरुत्तरीयं तं शीतपरीषहसहं मुनिम् । तौ दम्पती ववन्दाते सपद्युत्तीर्य वाहनात् ॥१३|| तं क्षमाश्रमणं भक्त्या सह पन्या महीपतिः । वन्दित्वा स्वं ययौ हऱ्या पुण्यवार्ताः प्रपञ्चयन् ॥१४॥ निर्दग्धागरुकर्पूरधूपधूमान्धकारिते । वासागारे ययौ राजा कृत्वा सायोचितां क्रियाम् ॥१५।। देव्या चेल्लणया गण्डोपधानीकृतदोर्लतः । तद्वक्षसि न्यस्तकरः सुष्वाप श्रेणिको निशि ॥१६।। वामनीकृतवक्षोजं गाढमालिङ्गितस्तया । राजा निद्रामुपेयाय राज्ञी निद्रायते च सा ॥१७॥ निद्राभरे चेल्लणायाः प्रच्छदात् पाणिपल्लवः । बहिर्बभूव निद्रा हि परिरम्भविघट्टनी ॥१८॥ शीतेन दुःसहेनाऽलिकण्टकेनेव तत्करः । स्पृष्टश्च तद्वेदनया प्राबुध्यत च चेल्लणा ॥१९॥ शीतार्तीकृतसीत्कारा सा पाणिकमलं निजम् । प्रच्छदान्तपहृदि निजं मन इव न्यधात् ॥२०॥ तदा निरुत्तरीयं तं महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते स कथं हा ! भविष्यति ? ॥२१॥ साऽऽससाद पुनर्निद्रां तथैव सरलाशया । दासीव वश्या प्रायेण निद्रा ह्यक्षुद्रचेतसाम् ॥२२॥ तस्याः सीत्कारमात्रेणाऽल्पनिद्रः पार्थिवोऽपि हि । प्रबुद्धस्तद्वचः श्रुत्वा चिन्तयामास चेतसि ॥२३।। नूनमस्या मनस्यन्यः प्रेयानस्ति रिरंसितः । शीताऽऽर्तिसम्भावनया यमेवमनुशोचति ॥२४||
स ताम्यन्नीीया चैवं तां निशां जाग्रदत्यगात् । प्रियजानिरकुहनो न कदाऽपि सचेतनः ॥२५॥ पाअन्तरन्तःपुरं गन्तुं प्रातरादिश्य चेल्लणाम् । आहूयाऽभयमित्यूचे श्रेणिकश्चण्डशासनः ॥२६।। १. कङ्कपत्रीकृत्य, 'कांसकी' इति भाषायाम् । २. केशसंवारक: सेवकः । ३. कञ्चुकी । ४. शीतवाहक-उत्तरदिक्पवनः । ५. हसन्तीअङ्गारशकटी 'सगडी' इति भाषायाम् । ६. गजदन्ताविव बाढं वलिनौ करौ येषां ते । ७. दरिद्रबालाः । ८. वक्षसिजः-स्तनः । ९. ०मपराह्न खं. १-३-४ । १०. ०वार्ता मु. । ११. शीतार्तकृत० मु. । शीतार्ता कृत० नू. मु. । १२. शीत्कार० खं. ३ । १३. प्रिया पत्नी यस्यैतादृशो बुद्धिमान् नरः न कदापि अनीर्घ्य: स्यात् । १४. गत्वा खं. ३. ।