________________
षष्ठः सर्ग:]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । बलादपि विकारेषु भवत्स्विन्द्रियरोषण
द्धं समारेभे प्रव्रज्याभङ्गकातरः ॥४१८॥ बन्धच्छेदं चकाराऽस्य देवता व्रतवारणी । स्वमाघ्नानस्य शस्त्रेण शस्त्रं कुण्ठीचकार च ॥४१९।। विषं मुमूर्षोरदतस्तस्याऽवीर्यं चकार सा । वह्नौ च विशतो वह्निमह्नायाऽकृत शीतलम् ॥४२०॥ आत्मानं सोऽथ शैलाग्रादपातयदथाऽन्तरे । तं धृत्वा देवतोवाच न किं स्मरसि मद्वचः ? ॥४२१॥ नाऽलं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अपि । तत्प्रतीपं मुधैव त्वमेवमुत्तिष्ठसेऽन्वहम् ॥४२२।। इत्युक्तः स तयैकाकिविहारपरिकर्मभृत् । भिक्षार्थं निर्जगामैकश्चिकीर्षुः षष्ठपारणम् ॥४२३|| q[अथाऽनाभोगदोषेण वेश्यावेश्म विवेश सः । धर्मलाभ इति वाचमुवाच च महामुनिः ॥४२४॥ न नोऽर्थो धर्मलाभेन द्रम्मलाभोऽस्तु केवलम् । इति वेश्या सोपहासं विकारात् प्रत्युवाच तम् ॥४२५।। असौ वराकी हसति किं मामिति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् ॥४२६।। द्रम्मलाभोऽयमित्युक्त्वा स तस्मान्निर्ययौ गृहात् । ससंभ्रमा साऽपि वेश्याऽनुधाव्येति तमभ्यधात् ॥४२७।। तपो दुष्करमुज्झेदं भोगान् भुक्ष्व मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाऽहमन्यथा ॥४२८॥ भूयो भूयस्तयेत्युक्तो भोगान् दु:खान् विदन्नपि । भोग्यकर्मवशात्तस्याः प्रत्यपादि वचोऽथ सः ॥४२९।। दशाधिकान् चाऽनुदिनं बोधयिष्यामि नो यदि । तदाऽऽदास्ये पुनर्दीक्षां प्रतिज्ञामिति चाऽकृत ॥४३०।। पात्यक्तर्षिलिङ्गः सोऽवात्सीत् तद्गृहे चिन्तयन् सदा । दीक्षानिषेधिकां वाचं देवताया जिनस्य च ॥४३१।। भोगान् सह तयाऽभुङ्क्त सोऽन्वहं च जनान् दश । प्रबोध्य भव्यान् दीक्षार्थं प्रैषीदुपजिनेशवरम् ॥४३२।। क्षीणेऽन्यदा भोगफले तस्य बोधयतः सतः । नवाऽबुधञ्जनाष्टक्वजातीयो दशमो न तु ॥४३३॥ तस्मिन्नबुध्यमाने सा वेश्या रसवती कृताम् । आचख्यौ नन्दिषेणाय समयज्ञा मुहुर्मुहुः ॥४३४|| सोऽपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किं तु सादरम् । तं टक्वं बोधयन्नस्थाद् गीभिविविधभङ्गिभिः ॥४३५।। तदा चोवाच तं वेश्या प्राक्सिद्धान्नं विरस्यभूत् । भूयो निष्पन्नमस्त्यन्नं किं विलम्बयसि प्रभो !? ॥४३६।। नन्दिषेणोऽप्यवोचत्तां बोधितो दशमो न हि । अहमेवाद्य दशमः प्रव्रजिष्यामि तत्पुनः ॥४३७।। इत्युक्त्वा तां नन्दिषेणो भुक्तं भोग्यफलं विदन् । निर्गत्य स्वामिनः पाशर्वे प्रव्रज्यां पुनराददे ॥४३८।।
आलोच्य तद् दुश्चरितं महात्मा । समं जिनेन्द्रेण स नन्दिषेणः ।। कुर्वन्विहारं निशितं व्रतं च ।
प्रपालयन् देवभुवं जगाम ॥४३९।। ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिपष्टिशलाकापुस्षचरिते महाकाव्ये दशर्मपर्वणि श्रेणिकसम्यक्त्वलाभ
मेघकुमारनन्दिषेणप्रव्रज्यावर्णनो नाम षष्ठः सर्गः ॥
-Kvk१. स्वमुद्बद्धं मु., नू. मु. । समु० खं. १-४ । स्वं बन्धनग्रस्तं कर्तुं अथवा गलपाशं बद्ध्वा मर्तुम् इत्याशयः । २. व्रतचारिणी खं. १-२ । व्रतग्रहणवेलायां निषेधक/ देवता । ३. समा० मु. । शस्त्रेण स्वं घ्नन्तः नन्दिषेणस्य शस्त्रं सा देवता कुण्ठं चकारेत्यर्थः । ४. कर्मणः प्रतिकूलम् । ५. ०हासविकारा नू. मु. । ६. उटजस्य तृणमयछदिप्रदेशात् तृणं कृष्ट्वा । ७. दोषान् मु. । ८. वाऽनु० मु., नू. मु. । ९. दिनान् मु. । १०. ष्टङ्क मु. । ११. टंकं मु. । टत्कं खं. १-४ । टक्क: वाहीकदेशीयो जनः । १२. अविरसं विरसमभूत् । १३. दशमे मु.।