________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
सोऽथ दध्यौ निर्विभवं पादैर्मां घट्टयन्त्यमी । सर्वत्र विभवाः पूज्याः प्रातस्त्यक्ष्यामि तद् व्रतम् ॥३९०॥ एवं विचिन्तयन् रात्रिं कथञ्चन निनाय सः । त्यक्तुकामो व्रतं प्रातर्जगाम स्वामिसन्निधौ ॥३९१॥ तद्भावं केवलाज्ज्ञात्वा सर्वज्ञोऽभिदधेऽथ तम् । भग्नः संयमभारात् किं ? स्मरसि प्राग्भवान्न किम् ? ॥३९२॥ []इतो भवे तृतीये त्वं हस्ती वैताढ्यभुव्यभूः । मेस्प्रभाख्यो दावार्तः पयः पातुं सरस्यगाः ॥३९३॥ तत्पङ्कमग्नो निःस्थामा प्रतीभेन हतस्ततः । सप्ताहान्ते मृतो विन्ध्ये गजोऽभूराख्यया तया ॥३९४|| दृष्ट्वा देवानलं जातिं स्मृत्वोन्मूल्य द्रुमादिकम् । नद्यां स्वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् ॥३९५॥ अन्येद्युर्ज्वलिते दावे धावंस्त्वं स्थण्डिलान्यभि । तत्र द्वे स्थण्डिले पूर्णे पूर्वायातैर्मृगादिभिः ॥३९६॥ ते व्यतीत्य तृतीयेऽयाः स्थण्डिले तत्र च स्थितः । गात्रकण्डूयनकृते चरणं समुदक्षिणः || ३९७| अन्योऽन्यसत्त्वसंमर्दपर्यस्तस्तावकस्य तु । समुत्क्षिप्तस्य तस्यांहेरधस्ताच्छशकोऽपतत् ॥३९८॥ तथास्थं शशकं दृष्ट्वा करुणापूर्णमानसः । उत्क्षिप्तपाद एवाऽस्थास्त्रिपदीभृन्मदादिव ॥ ३९९ ॥ सार्धद्वैयहाद्दवे शान्ते जीवा जग्मुः शशादयः । त्वमपि क्षुत्तृषाऽऽक्रान्तः पानीयाय प्रधावितः ||४००|| चिरोद्धरणखिन्नैकांह्रित्वाच्च न्यपतः क्षितौ । क्षुत्तृष्णाक्लेशविवशस्त्र्यहान्मृत्युं त्वमासदः ||४०१|| शशानुकम्पापुण्येनाऽधुना राजसुतोऽभवः । लब्धं कथञ्चिन्मानुष्यमिदं नयसि किं मुधा ? ||४०२॥ अप्येकं शशकं त्रातुं कष्टमस्थास्तथा तदा । साध्वंहिघट्टनात् कष्टात् प्रणष्टोऽस्यधुना कथम् ? ||४०३॥ एकजीवाभयदानफलमीदृक्षमासदः । सर्वजीवाभयदानं प्रतिपन्नोऽसि साधु तत् ॥४०४|| पालय प्रतिपन्नं स्वं भवाम्भोधि समुत्तर । मानुष्यं दुर्लभं हीदं तत्समुत्तारणक्षमम् ॥४०५॥ प[इति स्वामिगिरा मेघकुमारोऽभूद् व्रते स्थिरः । चक्रे मिथ्यादुष्कृतं च तेपे च विविधं तपः ॥४०६॥ पालयित्वा व्रतं सम्यग् मृत्वाऽभूद्विजये सुरः । ततश्रच्युत्वा विदेहेषूत्पद्य मोक्षं स यास्यति ||४०७|| [स्वामिदेशनयाऽन्येद्युर्बुद्धो व्रतजिघृक्षया । आपप्रच्छे नन्दिषेणः कथञ्चिच्छ्रेणिकं नृपम् ||४०८|| स पित्राऽनुमतोऽचालीद् व्रतादानाय वेश्मनः । ऊचे देवतया चैवमन्तरीक्षतलस्थया ||४०९|| किमुत्सुकायसे वत्स ! प्रव्रज्याग्रहणं प्रति ? | चारित्रावारकं भोगफलं कर्माऽस्ति यत्तव ॥४१०॥ कैञ्चित्कालं प्रतीक्षस्व गृहे तत्कर्मणः क्षये । प्रव्रज्यां प्रतिपद्येथा नाकाले फलति क्रिया ॥४११॥ चारित्रावारकं कर्म साधुसङ्गजुषो मम । करिष्यति किमित्युक्त्वा स ययौ स्वामिनोऽन्तिके ॥४१२॥ तथा निषिद्धो भैर्त्राऽपि रभसेन भृशायितः । प्रत्यपादि परिव्रज्यां तत्पादकमलान्तिके ॥४१३|| q[षष्ठाष्टमप्रभृतीनि तप्यमानस्तपांसि सः । व्यहार्षीत् प्रभुणा सार्धं ग्रामाकरपुरादिषु ॥ ४१४ ॥
स सूत्रमथ सूत्रार्थं नित्यमेव व्यभावयत् । निषण्णो गुरुपादान्ते सहमान: परीषहान् ॥४१५॥ भोग्यकर्मोदयाद्भोगेच्छां भवन्तीं बलादपि । रोद्धुं तपोभिः स्ववपुः क्रशयामास सोऽधिकम् ॥४१६॥
स इन्द्रियविकाराणां निकारायाऽनुवासरम् । चकाराऽऽतापनां घोरां श्मशानादिषु भूमिषु ||४१७ ||
८८
१५
१. प्रतिस्पर्धिना गजेन । २. दावा० खं. १ । ३. तृण - वनौषध्यादिरहितं भूभागत्रिकम् । ४. सार्धाद् द्वय० खं. ४, मु., नू. मु. । ५. क्षुत्तृषा० खं. १ । ६. साध्वंहिघटनाक० खं. ४ । ७. प्रनष्टो० खं. १-२-३-४ । ८. विजयनामके देवविमाने । ९. आपप्रच्छ खं. १-२ । १०. वेश्मत: मु., नू. मु. । ११. किञ्चित्० मु., नू. मु. । १२. वीरजिनेन । १३. वशा० खं. १ । १४. कृशीचकार ।
८. पराभवाय ।