________________
षष्ठः सर्ग:]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । तस्मिन् गुणशिले चैत्ये चैत्यवृक्षोपशोभितम् । सुरप्रक्लुप्तं समवसरणं शिश्रिये प्रभुः ॥३६३।। श्रुत्वा च समवसृतं श्रीवीरं श्रेणिको नृपः । ऋद्ध्या महत्या ससुतो वन्दितुं समुपाययौ ॥३६४|| प्रभुं प्रदक्षिणीकृत्य नत्वा च श्रेणिको नृपः । निषद्य च यथास्थानमिति तुष्टाव भक्तिमान् ॥३६५।। "जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवाऽऽसताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्त्रयी ॥३६६।। एवं च मेरुस्तुणतां नीतोऽब्धिर्गोष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोदितः ॥३६७|| च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वस्वमज्ञानात्मसात्कृतम् ॥३६८।। यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्याऽलमिदं हि वा ॥३६९।। त्वच्छासनस्य साम्यं चे मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥३७०॥ अनेडमूका भूयासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥३७१।। तेभ्यो नमोऽञ्जलिरयं तेषां तान् समुपास्महे । त्वच्छासनामृतरसैर्येरात्माऽसिच्यताऽन्वहम् ॥३७२॥ भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ? ॥३७३।। जन्मवानस्मि धन्योऽस्मि कतकत्योऽस्मि यन्महः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥३७४॥" पाइत्यभिष्टुत्य विरते श्रेणिके परमेश्वरः । पीयूषवृष्टिदेशीयां विदधे धर्मदेशनाम् ॥३७५।। श्रुत्वा तां देशनां भर्तुः सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे ॥३७६।। देशनान्ते जगन्नाथं प्रणम्य श्रेणिको नृपः । प्रीतः स्वामिगिरा प्रीतैः सुतैः सह ययौ गृहे ॥३७७।। श्रेणिकं धारिणी चाथ भक्त्या विरचिताञ्जलिः । कुमारो मेघकुमार उदारोक्तिय॑जिज्ञपत् ॥३७८|| पालितो लालितश्चाऽस्मि युवाभ्यां सुचिरं ह्यहम् । श्रमायैव ह्यभूवं वां प्रार्थये तु तथाऽप्यदः ॥३७९।। अनन्तदुःखसम्भारात् संसाराच्चकितोऽस्म्यहम् । संसारोत्तारकश्चाऽर्हन् स्वयमेवाऽत्र तिष्ठति ॥३८०॥ तन्मामद्याऽनुमन्येथां प्रव्रजामि यथाऽधुना । संसारभीरुशरणश्रीवीरचरणान्तिके ॥३८१|| तावप्येवं बभाषाते व्रतं नेषत्करं खलु । कुमार ! सुकुमारस्त्वं कथमेतच्चरिष्यसि ? ॥३८२।। मेघोऽप्यूचे भवाद्भीतः सुकुमारोऽप्यहं व्रतम् । करिष्ये दुष्करमपि तदिदानी प्रसीदतम् ॥३८३।। पित्रोरप्यङ्कतो मृत्युराच्छिनत्ति सुतादिकम् । स्वामिपादानुसरणात्तन्मृत्युं छलयाम्यहम् ॥३८४|| अथ तं श्रेणिकोऽवोचद्भवोद्विग्नोऽसि यद्यपि । तथाप्यादत्स्व मे राज्यं निर्वापय दृशौ मम ।३८५॥ एवमस्त्वित्युक्तवन्तं मेघं राज्ये न्यधान्नृपः । भूयस्ते किं करोमीति हर्षावेशादुवाच च ॥३८६।। मेघोऽभ्यधात्तर्हि ताताऽऽनीयतां कुत्रिकापणात् । रजोहरण-पात्रादि मह्यं दीक्षां जिघृक्षवे ॥३८७।।
राजापि स्ववचोबद्धस्तच्चक्रे विमना अपि । मेघोऽपि स्वामिपादान्ते गत्वा दीक्षामुपाददे ॥३८८।। पानक्तं मेघकुमारोऽथाऽनुज्येष्ठं न्यस्तसंस्तरे । प्रसुप्तो गच्छदागच्छन्मुनिपादैर्व्यघट्यत ॥३८९।।
१. जगत्त्रयम् मु. । २. मेस्स्तृणीकृतो मोहात् पयोधिर्गो० वीतरागस्तोत्रे १५ प्रकाशे । ३. ०मपोहितः मु., नू. मु. । ४. ष्टिगुल्मका० मु. । ५. अग्निः । ६. मूकबधिराः । ७. सिंच्यता० खं. ३ । ८. उदारोक्ति व्य० खं. १ । ९. मम दृशोः निर्वृति-सुखं देहि । १०. ०शादवोचत खं. ४ । ११. कुत्रिकं-लोकत्रयं, लोकत्रये विद्यमानं किमपि वस्तु यत्र विक्रीयते तादृशमापणं कुत्रिकापणम् । १२. जिघृक्षते खं. ३ । १३. साधुतल्पं संस्तरः ।