________________
८६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अङ्के पर्यस्तिकां मूनि जटामुकुटमुत्कटम् । स करेण व्यरचयत् पाशर्वे क्रीडंस्तपस्विनाम् ॥३३५।। कलशैः सिषिचुर्वृक्षांस्तापसास्तान्निरीक्ष्य च । सिषेच सोऽपि पयसाऽऽपूर्याऽऽपूर्य निजं करम् ॥३३६।। एवं चाऽऽश्रमजान् वृक्षान् सिञ्चतः प्रतिवासरम् । चक्रुः सेचनक इति नाम तस्य तपस्विनः ॥३३७|| करसक्तोन्नतदन्तो मधुपिङ्गललोचनः । भूमिस्पृक्पुष्करकरः पूर्वासनसमुन्नतः ॥३३८|| उच्चैःकुम्भो लघुग्रीवः क्रमावनतवेणुकः । शुण्डेषदूनलाङ्गलो विंशत्या शोभितो नखैः ॥३३९।।
अपरादेशयोर्नीचैरुच्चकैर्गात्रदेशयोः । स सर्वलक्षणैर्व्यक्तः क्रमान्मदमुखोऽभवत् ॥३४०।। (त्रिभिर्विशेषकम्) पातेनाऽन्यदा पयः पातुं नदीतीरे प्रसर्पता । स पिता यूथपो दृष्टः कृत्वा युद्धममार्यत ॥३४१।। स्वयं यूथपतिर्जज्ञे चिन्तयामास चेतसि । अमुष्मिन्नाश्रमे मात्रा छद्मना ह्यस्मि रक्षितः ॥३४२॥ रक्षितेन मयाऽकारि यत्पितुस्तन्ममापि हि । मा कार्षीदाश्रमेऽमुष्मिजातत्रातोऽपरो गजः ॥३४३।। इति संचिन्त्य निःशेषं भङ्क्त्वा तं तापसाश्रमम् । अकृताऽलक्ष्यसंस्थानं स नद्योघ इव स्थलम् ॥३४४|| दास्यते नाऽऽश्रमे सौख्यं दुरात्मेति तपस्विनः । तं गजं श्रेणिकायाऽऽख्यन् राजार्हं सर्वलक्षणैः ॥३४५।। श्रेणिकोऽपि द्रुतं गत्वा तं बद्ध्वा करिकुञ्जरम् । समानयत् कौतुकिनः सेनाङ्गेषु हि भूभुजः ॥३४६।। प्रसह्याऽसह्यस्थामाऽपि स्तम्भेऽबध्यत स द्विपः । किमसाध्यं मनुष्याणामभेद्यमिव पाथसाम् ? ॥३४७|| नि:स्पन्दकरलाङ्गलकर्णतालः क्रुधा च सः । तस्थावालिखित इव त्रिपदीवर्जितोऽपि सन् ॥३४८।। दिष्ट्याऽभदाश्रमक्षेममिति ते प्रीतचेतसः । तापसा एत्य तं नागमालानितमतर्जयन ॥३४९।। लालितः पालितोऽस्माभिः पोषितो वर्धितोऽसि च । स्वस्थानघातको रे ! त्वमा श्रयाश इवाऽभवः ॥३५०।। अस्मत्कवलदुर्मत्तेनाऽऽश्रमोऽभञ्जि यत्त्वया । तत्कर्मणः फलमिदं प्राप्तोऽस्यालानसौहृदम् ॥३५१।। गजोऽपि चिन्तयामास नूनमेभिस्तपस्विभिः । उपायरचनां कृत्वा प्रापितोऽहमिमां दशाम् ॥३५२।। अभाङक्षीन्मङश्वर्थ क्रद्धः स्तम्भं कदलिकाण्डवत । अत्रोटयच्च त्रटिति बन्धनं बिसतन्तवत ॥३५३।। सोऽभ्यरण्यं दधावेऽर्थीऽऽध्मातताम्रारुणाननः । विक्षिपन्नतिदूरेण तापसान्व॑मथूनिव ॥३५४|| पाश्रेणिकोऽपि तमानेतुं हयारूढैः सुतैरगात् । मृगयाप्राप्तमृगवत् परिवेष्टयति स्म च ॥३५५।। प्रलोभनां तर्जनां वा सादिनां स मतङ्गजः । बलवद्व्यन्तरग्रस्त इव मेने न किञ्चन ॥३५६।। नन्दिषेणस्य तु वचो निशम्य तमुदीक्ष्य च । स शान्तोऽभूदवधिना जानन् प्राग्जन्म तत्तथा ॥३५७।। नन्दिषेणोऽपि सपदि कक्षामालम्ब्य तं गजम् । अपरायां दत्तपादोऽध्यारोहन्मुष्टिभिस्त्रिभिः ॥३५८।। नन्दिषेणस्य वचसा दन्तघातादिकाः क्रियाः । स कुर्वन् शिक्षित इवाऽऽलानगोचरतां ययौ ॥३५९।। पढें विश्राणयामास श्रेणिकस्तस्य हस्तिनः । प्रसादपात्रीचक्रे च युवराजमिवाऽथ तम् ॥३६०॥
अपरेऽपि हि कालाद्याः पुत्राः प्रथितविक्रमाः । अभूवन् कुलपत्नीषु श्रेणिकस्य महीपतेः ॥३६१।। पाइतश्च विरहन् भव्यावबोधाय जगद्गुरुः । सुरासुरपरीवारो ययौ राजगृहं पुरम् ॥३६२।।
१. 'पलांठी' इति भाषायाम् । २. शुण्डाम् । ३. भूमिं स्पृशन् कर(शुण्डा)कमलः । ४. पूर्वासन्न० खं. ४ । ५. पूर्वासनः सूर्यः । वेणुकं पृष्ठभागः । ६. अपराग्दे० मु., नूतन मु. । ७. ०ष्मिन् जनित्रातो० खं. १-२ । जातमात्र एव यस्त्रातः सः । ८. नद्याः पूरः यथा स्थलं अलक्ष्यं कुरुते तथा । ९. “गात्रयोर्बन्धः" इति खं. ३ टि. । १०. अग्निः । ११. अस्माकं बलदु० मु. । १२. ०मंक्षु स मु., नूतन मु.। १३. दधावे च ध्मात० खं. ४ । १४. मधुपानिव मु. । वमथुः करसीकरः, शुण्डानिर्गतबिन्दुः, "श्रलेष्मा" इति खं. ३ टि. ।