________________
षष्ठः सर्ग:]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । तदा वनान्तस्त्यक्तस्याङ्गुलिस्तस्य कनिष्ठिका । अकाणि कुक्कुटीपिच्छेनाऽशोकदलकोमला ॥३०७॥ तदा रुदतस्तस्याङ्गुली पूतिमतीमपि । स्नेहान्मुखेऽक्षिपद् राजा स व्यरंसीच्च रोदनात् ॥३०८।। रूढव्रणाऽपि सा तस्य कूणिताभवदङ्गुलिः । ततः संपांशुरमणैः सोऽभ्यधीयत कूणिकः ॥३०९।। पाक्रमेण चेल्लणादेव्या हृदयाम्भोजभास्करौ । सुतौ हल्ल-विहल्लाख्यावभूतामपरावपि ॥३१०॥ ते त्रयश्चेल्लणापुत्रा नित्यं राज्ञोऽनुचेरतुः । प्रभुत्वमन्त्रोत्साहानां प्रत्यक्षा इव मूर्तयः ॥३११।। पितृद्विषे कूणिकायाऽम्बा प्रैषीद् गुडमोदकान् । मत्स्यण्डीमोदकान् हल्ल-विहल्लाभ्यां पुनः सदा ॥३१२।।
श्रेणिकः कारयत्येवमिति प्राक्कर्मदूषितः । कूणिको विमृशन्नित्यं प्रपेदे मध्यमं वयः ॥३१३।। पाश्रेणिकोऽपि स्नेहलात्मा महेन महताऽन्यदा । पद्मावतीं राजपुत्री कूणिके नोदवाहयत् ॥३१४|| श्रेणिकादथ धारिण्या सिन्धुरस्वप्नसूचितः । गर्भोऽभूज्जनयन्मेघवृष्टौ भ्रमणदोहदम् ॥३१५।। राजाऽऽदेशात्सोऽभयेनाऽपूर्यताऽऽराध्य देवताम् । ततो मेघकुमार इत्याख्ययाऽसूत सा सुतम् ॥३१६।। पाइतश्चैकः पुरा विप्रः प्रारेभे यष्टुमध्वरम् । तत्र दासं न्ययुङ्क्तैकं दासोऽप्येवं तमब्रवीत् ॥३१७।। ददासि यदि मे शेषं तदा स्थास्यामि नान्यथा । विप्रोऽपि तत् प्रपेदेऽथ दासोऽस्थाद् यज्ञवाटके ॥३१८॥ शेषं लब्धं स दासोऽपि साधुभ्यः प्रददौ सदा । तत्प्रभावेण देवायुर्बद्ध्वा मृत्वा दिवं ययौ ॥३१९।। दासजीवो दिवश्च्युत्वा श्रेणिकस्य सुतोऽभवत् । नन्दिषेणः स विप्रस्तु बभ्रामाऽनेकयोनिषु ॥३२०।। पाइतश्चैकस्मिन्नरण्ये हस्तियथे महीयसि । एकोऽभूद् यूथपः स्थाम्ना दिग्वारणकुमारवत् ॥३२१॥ मैष भूद्योवनेऽमुष्य वशायूथस्य कामुकः । इति बुद्ध्या स कलभं जातं जातममारयत् ॥३२२।। तद्यथगाया एकस्याः करिण्या उदरेऽन्यदा । स विप्रजीवोऽवातारीद गविणी साऽप्यचिन्तयत ॥३२३॥ पापेनाऽनेन मे पुत्रा बहवोऽपि विनाशिताः । पुत्रं केनाप्युपायेन रक्षिष्याम्यधुना पुनः ॥३२४॥ इति निश्चित्य सा वातभग्नपादेव हस्तिनी । बभूव मायया कुण्टा मन्दं मन्दं चचार च ॥३२५।। माऽन्ययूथपतेर्भोग्या भवत्वेषेति तां वशाम् । स्तोकं स्तोकं व्रजन् यूथनाथस्तां प्रत्यपालयत् ॥३२६॥ साऽतीव मन्दगा भूत्वा हस्तिनी तस्य हस्तिनः । अर्धयामेन यामेनाऽमिलदह्ना द्वयहेन वा ॥३२७।। अशक्तैव वराकीयं मिलत्येव चिरादपि । इति हस्ती विशश्रवास मायिभिः को न वञ्च्यते ? ॥३२८।। साऽन्यदा दूरगे तस्मिन् यूथनाथे मतङ्गजा । तृणपूलं मूनि कृत्वा प्रययौ तापसाश्रमम् ॥३२९॥ पादेषु निपतन्ती सा मस्तके न्य ।। अज्ञायि तापसैरेषा वराकी शरणार्थिनी ॥३३०।। विश्वस्ता भव वत्से ! त्वमिति तैरुदिते सति । तत्राऽऽश्रमे सुखं साऽस्थात् पितृधाम्नीव कन्यका ॥३३१|| पाअन्यदा जातपुत्रा सा पुत्रं तत्राऽऽश्रमेऽमुचत् । स्वयं त्वरण्ये यूथान्तर्विचचार तथैव हि ॥३३२।।
सा स्तन्यं कलभायाऽदादागत्याऽऽगत्य चाऽन्तरा । शनैश्चाश्रमशाखीव ववृधे कलभोऽपि सः ॥३३३।। पक्वनीवारकवलैः सल्लकीकवलैरपि । प्रेम्णा निजं पोतमिव तापसास्तमपोषयन् ॥३३४॥
१. कनिष्ठका - खं. १-२ । २. अविध्यत । ३. गलद्रुधिरामपि । ४. मित्रैः 'लंगोटिया मित्र' इति भाषायाम् । ५. राज्ञोऽन्वचारिषुः खं. १-३ । राज्ञोऽनुगा बभुः मु. । ६. न्ययुक्तैकं खं. ४ । ७. यज्ञभागं । ८. दिग्गजवत् । ९. हस्तिनी । १०. शरणागतिप्रकारः । पराजितो राजा तृणपूलं मुखे मूनि वा गृहीत्वा विजेतारं प्रति गत्वा शरणागति गृह्णाति । ११. ०पूलिका खं. ४ । १२. तृणधान्यानि नीवाराः ।