________________
८४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व जन्मिनां प्रकृतिम॒त्युविकृतिर्जीवितं पुनः । ततः स्वभावसिद्धेऽर्थे को विषादो विवेकिनौ ? ॥२७८॥
अभयेनेति दम्पत्योस्तयोर्बोधितयोः सतोः । कृत्वा सम्भाषमुचितं श्रेणिकः सदनं ययौ ॥२७९।। पाततश्च चेल्लणादेव्या समं मगधभूपतिः । निर्विघ्नं बुभुजे भोगान् पौलोम्येव पुरन्दरः ॥२८०।।
अतिवाह्य व्यन्तरायुरुष्ट्रिकाक्षपकोऽपि हि । पुत्रत्वेन चेल्लणायाः कु क्षाववततार सः ॥२८१॥ तस्य गर्भस्य दोषेण पतिमांसादनेऽभवत् । दुर्दोहदश्चेल्लणाया राक्षस्या अपि यो न हि ॥२८२।। पतिभक्ता चेल्लणा तं नाऽऽख्यत्कस्यापि दोहदम् । अपूर्णदोहदत्वाच्च क्षीयते स्म दिवेन्दुवत् ॥२८३।। स गर्भश्चेल्लणादेव्या दुर्दोहदविरक्तया । पापमप्युररीकृत्य पात्यमानोऽपि नाऽपतत् ॥२८४|| शुष्यदङ्गी च तां दृष्ट्वा वल्लीमसलिलामिव । पप्रच्छ कारणं राजा प्रेमबन्धुरया गिरा ॥२८५।। मया किमभिभूताऽसि? खण्डिताऽऽज्ञासि वा क्वचित् ? । दु:स्वप्नदृश्वरी वासि? भग्नकामाऽसि वा? प्रिये!? ॥२८६।। एवं राज्ञा सोपरोधं पृच्छ्यमाना कथञ्चन । तत्ताहगाख्यदापीतविषेव स्खलदक्षरम् ॥२८७|| दोहदं पूरयिष्यामीत्याश्वास्य नृपतिः प्रियाम् । कथं पूर्यो दोहदोऽयमित्यादिक्षदथाऽभयम् ॥२८८।। अभयोऽपि श्रेणिकस्योदरे शशकजङ्गलम् । तच्चर्माच्छादितं चक्रेऽथोत्तानं तमशाययत् ॥२८९।। श्रेणिकस्याऽनुज्ञया च ततो रहसि चेल्लणा । जघास मांसमव्यग्रा रक्षसामिव देवता ॥२९०॥ तस्यां च मांसं खादन्त्यामेवमेव महीपतिः । अधीती नटविद्यायामिवाऽमूर्च्छन्मुहुर्मुहुः ॥२९१॥ चिन्तयन्त्याः पतिं तस्याश्चकम्पे हृदयं क्षणात् । गर्भं पुनश्चिन्तयन्त्याः क्षणादुल्लसति स्म च ॥२९२।। एवं बुद्धिप्रयोगेण चेल्लणा पूर्णदोहदा । आः पतिघ्यस्मि पापाऽहमिति मोहमुपाययौ ॥२९३।। राजापि राज्यै तत्कालं स्वमक्षतमदर्शयत् । तदर्शनादहृष्यच्च पद्मिनीवाऽर्कदर्शनात् ।।२९४|| पागतेषु मासेषु नवस्वथ चेटकनन्दना । नन्दनं सा प्रसुषुवे मलयोर्वीव चन्दनम् ॥२९५।।
आदिदेशाथ सा दासी पितुर्वैर्येष दारकः । तत् क्वापि त्यजतां दूरे पापः पन्नगपोतवत् ॥२९६।। दास्याऽशोकवनं गत्वा परित्यक्तः स भव्यभात् । उपपादपदोत्पन्नगीर्वाण इव भासुरः ॥२९७|| तत्र तं बालकं त्यक्त्वा दास्यायान्ती महीभुजा । अप्रच्छि क्व गताऽसीति तागेव च साऽब्रवीत् ॥२९८।। अशोकवनिकां गत्वा राजाऽप्यालोक्य तं सुतम् । द्वाभ्यां जग्राह पाणिभ्यां प्रीतः स्वामिप्रसादवत् ॥२९९।। आगत्य चेल्लणां चोचे कुलोत्पन्ने ! विवेकिनि ! । किमकार्षीरकर्मेदमकृत्यं श्रवपचैरपि ? ॥३००|| अपि दुश्चारिणी या स्यादधर्मज्ञातिकर्कशा । पुत्रं कुण्डं गोलकं वा साऽपि न ह्येवमुज्झति ॥३०१।। चेल्लणा स्माऽऽह ते नाथ ! पुत्ररूपेण वैर्यसौ । यस्मिन् गर्भस्थितेऽप्यासीद्दोहदो नरकावहः ॥३०२।। जातोऽप्यत्याजि तेनायं कुलजानां हि योषिताम् । पत्युः क्षेमाकांक्षिणीनां किं पुत्रेणाऽपरेण वा ? ॥३०३।। श्रेणिकोऽथाऽन्वशाद् राज्ञी ज्येष्ठं त्यक्ष्यसि चेत्सुतम् । तदा तवान्ये पुत्राः स्युन स्थिरा बुबुदा इव ॥३०४|| एवं पत्यनिदेशेनाऽनिच्छन्त्यपि हि चेल्लणा । स्तन्यदानादहिमिव तं बालकमपालयत ॥३०५।। पाकान्त्या चन्द्र इवाऽशोकवनिकायामदीसौ । अशोकचन्द्र इत्याख्यामिति तस्याऽकरोन्नृपः ॥३०६।।
१. विवेकिनाम् खं. ३-४ । २. शशकमांसम् । ३. अभिनयकुशलः । ४. उपपातस्थाने उत्पन्नो देव इव । ५. पत्युर्मरणानन्तरं जारसङ्गमेन जातः पुत्रः कुण्ड इति, पत्यौ जीवति च जारजनितः पुत्रः गोलक इति कथ्यते ।