________________
षष्ठः सर्ग:]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पाअन्यदा त्वह्नि निर्णीते श्रेणिकः सुलसासुतैः । द्वात्रिंशता सार्धागात् सुरङ्गाद्वारसीमनि ॥२५०॥ रथस्थैः सुलसापुत्रैरन्वितोऽथ रथस्थितः । चक्रीव वैताढ्यगुहां सुरङ्गां श्रेणिकोऽविशत् ॥२५१।। सरङ्गानिर्गतं प्रेक्ष्य सज्येष्ठा मगधेश्वरम् । चित्रदृष्टानसाराच्चोपलक्ष्य ममदेतराम ॥२५२।। साऽऽख्याय सर्वं वृत्तान्तमापप्रच्छे च चेल्लणाम् । प्रत्यज्ञासीच्चेल्लणापि स्थास्यामि त्वदृते न हि ॥२५३|| रथमारोपयदथ सुज्येष्ठाऽऽदौ हि चेल्लणाम् । स्वयं त्वगात् समानेतुं द्रुतं रत्नकरण्डिकाम् ॥२५४|| ऊचुश्च सुलसापुत्रास्तदा श्रेणिकपार्थिवम् । स्वामिन्न युज्यते स्थातुं सुचिरं वैरिवेश्मनि ॥२५५।।
आदाय चेल्लणां राजा प्रेरितः सुलसासुतैः । सुरङ्गयैव व्याघुट्य यथाऽऽयातस्तथा गतः ॥२५६॥ पासुज्येष्ठाऽऽगादुपादाय यावद्रत्नकरण्डिकाम् । नाऽपश्यच्छ्रेणिकं तावदभ्रान्तर्भूतचन्द्रवत् ॥२५७|| तदा चाऽपूर्णकामत्वाद्भगिनीहरणादपि । ज्येष्ठाऽरटन्मुषिताऽस्मि ह्रियते हन्त चेल्लणा ॥२५८॥ द्राक् चेटकं संनयन्तं रथी वीरङ्गकस्तदा । उवाच कोऽयमाक्षेपो मयि सत्यपि नाथ ! ते ? ॥२५९।। पाततो वीरङ्गकः सज्जीभूय युद्धाय दुर्धरः । सुरङ्गाद्वारमभ्यागात् कन्याप्रत्याजिहीर्षया ॥२६०।। सुरङ्गया गच्छतश्च ततश्च सुलसासुतान् । वीरङ्गको महाबाहुरेकेनैवेषुणाऽवधीत् ।।२६१।। संकीर्णत्वात् सुरङ्गायाः स रथी तद्रथानथ । यावदाकर्षयत् तावद्दूरेऽगान्मगधाधिपः ॥२६२।। ततोऽर्धजरतीयेन कृताकृतसमीहितः । वीरङ्गकस्तदखिलं चेटकाय व्यजिज्ञपत् ॥२६३।। दुहितुर्हरणात्तेषां रथिकानां वधादपि । चेटको युगपद् रोष-तोषाभ्यामभ्यपूर्यत ॥२६४॥ सुज्येष्ठाऽचिन्तयदहो धिग्धिग्विषयगृध्नुता । सुखकांक्षिभिरीक्षा यदाप्यन्ते विडम्बनाः ॥२६५।। इत्थं विरक्ता सुज्येष्ठा स्वयमापृच्छ्य चेटकम् । समीपे चन्दनार्यायाः परिव्रज्यामुपाददे ॥२६६।। पाश्रेणिकोऽपि हि सुज्येष्ठे ! सुज्येष्ठे ! इति चेल्लणाम् । अभ्यालपदजानानश्चेल्लणां तत्र तस्थुषीम् ।।२६७।।
चेल्लणाऽकथयत्तस्मै सुज्येष्ठा न समागता । सुजेष्ठायाः कनिष्ठाऽहं चेल्लणेत्यमिधा मम ॥२६८॥ श्रेणिको व्याजहारैवं नाऽऽयासोऽभून्मुधा मम । सुभ्र ! त्वमपि सुज्येष्ठा तस्या न खलु हीयसे ॥२६९।। चेल्लणा पतिलाभेन भगिनीवञ्चनेन च । निकामं हर्ष-शोकाभ्यां समकालमलिप्यत ॥२७०।। श्रेणिकः पवनेनेव रथेनाऽसह्यरंहसा । शीघ्रमाप स्वनगरं पश्चात्तस्याऽभयोऽपि हि ॥२७॥ पागान्धर्वेण विवाहेन परिणीयाथ चेल्लणाम् । राजा नाग-सुलसयोर्गत्वाऽऽख्यत् तत्सुतान्मृतान् ॥२७२।।
तौ दम्पती नृपाच्छ्रुत्वा सुतोदन्तममङ्गलम् । मुक्तकण्ठं रुरुदतुर्विलापं चेति चक्रतुः ॥२७३॥ रे कृतान्त ! कृतान्तोऽसि पुत्राणां युगपत् कथम् । किमेकशृङ्खलत्वेन तवाऽभूवन् कदाप्यमी ? ॥२७४।। पक्षिणामप्यपत्यानि भूयास्यपि भवन्ति हि । क्रमेण तु विपद्यन्ते न ह्येवं युगपत् क्वचित् ॥२७५।। स्नेहादेकतया किं नु मृताः स्थ युगपत् सुताः ? । ज्ञातौ किमावां नि:स्नेहौ वञ्चितौ सहमृत्युना ? ॥२७६।। इति तारं रुदन्तौ तावाचार्य इव तत्त्ववित् । अभयो बोधयामास श्रेणिकेन सहागतः ॥२७७।।
१. ०मागात् मु., नूतन मु. । २. सर्ववृ० खं. १-२ । ३. निवृत्त्य । ४. ०भिधानतः मु. । ५. अमी एकशृङ्खलीभूय-सामूहिकरूपेण किं तव [अन्तकारिणो हानिकारिणो वा] अभूवन् ? इत्थमर्थसङ्गतिः कल्प्यते । विद्वद्भिरन्यथा वा कर्तव्या ।