________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व विसृज्य तापसी तस्थौ कथञ्चिदथ पार्थिवः । पक्षौ विधाय वैशाल्यां यियासुरिव तां स्मरन् ॥२२२।। पासुज्येष्ठाप्रार्थने दत्त्वा शिक्षा राजगृहेश्वरः । अन्येषुः प्रेषयामास दूतं चेटक भूपतेः ॥२२३। दूतोऽपि सद्यो वैशाल्यां गत्वा नत्वा च चेटकम् । उवाच वाचिकपटुर्न यच्चटु न वा कटु ॥२२४।। सज्येष्ठां याचते त्वत्तो मत्स्वामी मगधाधिपः । न कन्याप्रार्थनं जातु लज्जायै महतामपि ॥२२५।। चेटकोऽप्यब्रवीदेवमनात्मज्ञस्तव प्रभुः । वाहीककुलजो वाञ्छन् कन्यां हैहयवंशजाम् ॥२२६॥ समानकुलयोरेव विवाहो हन्त नाऽन्ययोः । तत्कन्यां न हि दास्यामि श्रेणिकाय प्रयाहि भोः ! ॥२२७|| दूतेन चाऽऽगत्य तथाऽऽख्याते श्रेणिकभूपतिः । खेदमासादयामास जितो भट इवाऽरिभिः ॥२२८।। अभयोऽपि हि तत्रस्थः पितृपादाब्जषट्पदः । उवाच तात ! मा शोची: करिष्ये वः समीहितम् ॥२२९।। कलाकलापपाथोधिकुम्भजन्माऽभयोऽपि हि । गृहे गत्वाऽलिखद्रूपं फलके मगधेशितुः ॥२३०॥ ततो गटिकया वर्ण-स्वरभेदं विधाय सः । वणिग्वेशं गृहीत्वा च वैशाली नगरी ययौ ॥२३॥ उपचेटकराजान्तःपुरं चाऽऽपणमग्रहीत् । तत्राऽन्तःपुरचेटीनां क्रेतव्यमधिकं ददौ ॥२३२।। अभयश्चाऽर्चयन्नित्यं श्रेणिकं लिखितं पटे । दासीपृष्टश्चाऽऽख्यदयं देवो मे श्रेणिको नृपः ॥२३३।। दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रूपं तादृग्यथादृष्टं श्रेणिकस्याऽतिदैवतम् ॥२३४॥ सुज्येष्ठाऽथ सखीप्रायां ज्येष्ठदासी समादिशत् । द्रुतमानय तद्रूपं महत् कौतूहलं मम ||२३५।। अभयादुपरोधेन तदुपादाय दास्यपि । स्वामिन्यै दर्शयामास रूपं श्रेणिकभूपतेः ॥२३६।। रूपमत्यन्तसुभगं सुज्येष्ठा तु विलोक्य तत् । निष्पन्दनेत्रनलिना योगिनीव लयं ययौ ॥२३७॥ जगाद च क्षणं स्थित्वा गत्वा रहसि सत्वरम् । गूढाभिप्रायसर्वस्वनिधानवसुधां सखीम् ॥२३८|| यस्येदं फलके रूपं धीमतीच्छामि तं पतिम् । तदेनं संघटयितुं
ऽस्तु कः? ॥२३९|| यद्ययं मे पतिर्न स्यात्तदानी हृदयं मम । पचेलिममिवैर्वारुं द्विधा भावि न संशयः ॥२४॥ तद्भद्रे ! क इहोपाय उपायो यदि वाऽस्त्ययम् । शरणं वणिगेवैष य एतद्रूपमर्चति ॥२४१।। तं प्रसादय मत्कार्यधुर्ये ! तद्वाचिकं च मे । तूर्णमागत्य कथयेः स्वस्ति तुभ्यं यशस्विनि ! ॥२४२।। पागत्वा दास्या तयाऽत्यन्तमभयोऽभ्यर्थितोऽवदत् । पूरयिष्यामि नचिरात् त्वत्स्वामिन्या मनोरथम् ॥२४३।।
सुरङ्गां खानयिष्यामि तमानेष्ये सुरङ्गया । तत्कालमेवाऽधिष्ठेयस्त्वत्स्वामिन्याऽपि तद्रथः ॥२४४|| त्वत्स्वामिनी च तत्कालं दृष्ट्वा श्रेणिकमागतम् । आलेख्यदृष्टतद्रूपसंवादान्मुदमेष्यति ॥२४५।। स्थानेऽमुष्मिन् दिनेऽमुष्मिन् क्षणेऽमुष्मिन् सुरङ्गया । राजैष्यतीति संकेतं तन्मुखेनाऽभयो ददौ ॥२४६।। दासी तस्यै तदाख्यायाऽऽगत्य चाभयमब्रवीत् । प्रमाणं त्वद्वच इति पुनश्चाऽन्तःपुरं ययौ ॥२४७।। अभयोऽपि हि संकेतकथाख्यापनपूर्वकम् । पितृप्रयोजनप्रह्व आह्वत् पितरमाश्वपि ॥२४८।।
सुज्येष्ठा तत्प्रभृत्येव स्मरन्ती श्रेणिकं नृपम् । प्रभूतां प्रापदरति रतिनाथवशंवदा ॥२४९॥ १. कलानां कलापस्तेषां पाथोधिः-समुद्रः, तस्य शोषणे-पाने कुम्भजन्मा अगस्त्यऋषिसमः । २. देवताभ्योऽप्यतिशयितम् । ३. विधाता कः स्यात् । ४. चिर्भटकम् । ५. वाचिकं सन्देशः । ६. इमां नेष्ये खं. ४ । ७. पितृप्रयोजनसिद्धौ तत्परः । ८. आख्यत् मु. ।