________________
षष्ठः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
कलाकलापकुशले श्रुतार्थोपनिषद्विदौ । मूर्ती इल सरस्वत्या रेमाते ते परस्परम् ॥ १९५॥ सममानर्चतुर्देवं धर्मं शुश्रुवतुः समम् । चक्रतुः सममन्यच्च ते द्वे एकात्मिक इव ॥१९६॥ [अपरेद्युश्च सुज्येष्ठा-चेल्लणाभ्यामलङ्कृतम् । कन्यान्तः पुरमभ्यागादेका स्थविरतापसी ॥१९७॥ सा च व्याख्यच्छौचमूलं धर्मं पापविनाशकम् । उत्फुल्लगल्लमज्ञानपर्षदीव तयोः पुरः ॥१९८॥ सुज्येष्ठाऽवोचदाः शौचमशुभाश्रवरूपकम् । अशुभश्चाश्रवः पापहेतुः पापच्छिदे कथम् ? ॥१९९॥ सुज्येष्ठैवं गुणज्येष्ठा तस्या धर्मं निराकरोत् । श्रुतकूपनिपानाभैर्वचोभिर्युक्तिवर्मितैः ॥२००॥ ततो निरुत्तरीभूतां तां मुद्रितमुखमिव । शुद्धान्तदास्यो जहसुर्मुखर्मर्कटिकादिभिः ॥२०१|| स्वस्वामिनीजयोन्मत्तास्तामन्तःपुरचेटिकाः । उत्तालतुमुलाः कण्ठे गृहीत्वा निरवासयन् ॥२०२॥ q[उपादातुं गता दातुं पतितेवाथ तापसी । पूजार्थिन्यागता सैवं प्रत्युताऽनर्थमासदत् ॥२०३॥ यान्ती च तापसी दध्याविमां वैदुष्यगर्विताम् । भूयसीषु सपत्नीषु दुःखपात्रीकरोम्यहम् ॥२०४॥ सुज्येष्ठारूपमथ सा पिण्डस्थध्यानलीलया । कृत्वा मनस्यालिलेख पटेऽखिलकलापटुः ॥२०५॥ लिखितं तच्च तद्रूपं त्वरिता क्रूरतापसी । गत्वा राजगृहे राज्ञेऽदर्शयच्छ्रेणिकाय सा ॥ २०६ ॥ तां दृष्ट्वा लिखितां नेत्रमृगैकमृगजालिकाम् । राजा राजगृहाऽधीशः सानुरागमवर्णयत् ॥२०७॥ यान्त्यस्याः केशदासत्वं ते कलापाः कलापिनाम् । मनोज्ञनयनं वक्त्रं निलीनालीव पङ्कजम् ॥२०८॥ पत्रावलम्बनं कॅम्बोः कुरुते कण्ठकन्दलः । क्रीडत्कोकं सर इव वक्षो वक्षोजभूषितम् ||२०९|| नितम्बः स्मरधानुष्कयोग्या भूरिव विस्तृतः । आलांनविभ्रमहरावूरू च क्रमवर्तुलौ ॥२१०॥ बिसकाण्डविडम्बिन्यौ जङ्घे सरलकोमले । पादौ च ऋजुजङ्घाकावुन्नालनलिनोपमौ ॥२११ ॥
अहो ! सौन्दर्यमद्वैतमहो ! लावण्यमुज्ज्वलम् । अहो ! अपरमप्यस्याः सर्वं रम्यं मृगीदृशः ॥२१२॥ [[अपृच्छच्च महाभागे ! किमियं स्त्रीमतल्लिका । अलेखि स्वप्रतिभया रूपदर्शनतोऽथवा ? ॥२१३॥ तापस्यूचे यथाशक्ति दृष्टं रूपमलेख्यदः । यादृक्तु वर्तते राजंस्तादृक् स्याद्दर्पणे यदि ॥२१४|| चित्रस्थामपि तां राजा प्रपश्यन् प्रेममोहितः । आलिलिङ्गिषुरिवाऽभूच्चुचुम्बिषुरिवाऽथवा ॥ २१५ ॥ ऊचे च मुक्तावलिवद्वंशे कस्मिन्नभूदियम् ? । दिवं मृगाङ्कलेखेव कां चालङ्कुरुते पुरीम् ? ॥२१६॥ धन्यस्य कस्य वा पुत्री लक्ष्मीः क्षीरोदधेरिव ? | यान्त्यस्याः कानि वा पुण्यान्यक्षराण्यभिधानताम् ? ॥२१७॥ सरस्वत्याऽनुजगृहे कलयेयं कया कया ? । अस्याः पुंस्पाणिना पाणिश्चुम्बितो यदि वा न वा ? ॥२१८॥ तापसी कथयामास वैशाल्यधिपतेः सुता । हैहयान्वयजातस्य चेटकस्य कुमार्यौ ॥ २१९ ॥ निधिः कलानां सर्वासां सुज्येष्ठा नामधेयतः । गुणरूपानुरूपेण तत्तामुद्वोढुमर्हसि ॥ २२० ॥ त्वयि सत्यपि चेदस्याः पतिरन्यो भविष्यति । तृतीयपुरुषार्थेन तर्हि त्वमसि वञ्चितः ॥२२१॥
८१
१. श्रुतज्ञानस्यार्थरहस्यवेदिन्यौ । २. ०मुखीमिव मु. । ३. ०मर्कटका० खं. ४ । ४. प्रतीते० मु. नूतन मु. । ग्रहीतुं प्राप्तुं वा गता, दत्त्वा निर्गतेतिभावः, 'लेवाना देवा पड्या' इति भाषायाम् । ५. वैदग्ध्य० मु., नूतन मु. । ६. ध्यानस्य चत्वारो भेदाः, तत्र प्रथमं पिण्डस्थं यत्राऽऽकृतिश्चिन्त्यते । ७. निलीना अलयो यत्र तत् । ८. शङ्खस्य । ९. आलानो गजबन्धनस्तम्भः । १०. ०वरू खं. १ । ११. स्त्रीषु श्रेष्ठा ।