SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ८० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व पाअभयं श्रेणिकः पुत्रप्रतिपत्त्याऽथ सस्वजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः ॥१६८।। कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । आगतोऽस्मि पुराद्वेण्णातटादित्यभयोऽवदत् ॥१६९।। राजाऽपृच्छद्भद्रमुख ! किं भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति ? तस्यापि नन्दानाम्नी च नन्दना ? ॥१७०|| अस्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः । ऊचे नन्दोदरिण्यासीत् किमपत्यमजायत ? ॥१७१॥ अथाऽऽख्यत् कान्तदन्तांशुश्रेणिः श्रेणिक सूरिदम् । देवाऽभयकुमाराख्यं सा नन्दनमजीजनत् ॥१७२।। किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाहं स्वामिन्नस्मीति चिन्त्यताम् ॥१७३।। परिष्वज्याऽङ्कमारोप्य तमाघ्राय च मूर्धनि । स्नेहात् स्नपयितुमिव राजाऽसिञ्चद् दृगम्भसा ॥१७४|| कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोऽभयः ॥१७५।। अनुस्मरन्ती भृङ्गीव त्वत्पादाम्भोजसङ्गमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति ॥१७६।। पाततो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुङ्क्त सर्वसामग्रीमग्रेकृत्वा नृपोऽभयम् ॥१७७॥ ततः स्वयमपि प्राज्योत्कण्ठोल्लिखितमानसः । नन्दामभिययौ राजा राजहंस इवाऽब्जिनीम् ॥१७८|| शिथिलीभूतवलयां कपोललुलितालकाम् । अनञ्जनाक्षी कबरीधारिणी मलिनांशुकाम् ॥१७९।। तनोस्तनिम्ना दधतीं द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥१८०॥ सन्दानितकम् ॥ नन्दामानन्द्य नृपतिर्नीत्वा च स्वं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सीतामिव रघूद्वहः ॥१८१।। ततः स्वसुः सुसेनायाः पुत्री मन्त्रिषु धुर्यताम् । राज्यस्यार्धं चाऽभयाय नृपतिः श्रेणिको ददौ ॥१८२॥ भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसार्धान् भूभुजोऽभयः ॥१८३।। पाइतश्च वसुधावध्वा मौलिमाणिक्यसन्निभा । वैशालीति श्रीविशाला नगर्यस्ति गरीयसी ॥१८४|| आखण्डल इवाऽखण्डशासनः पृथिवीपतिः । चेटीकृतारिभूपालस्तत्र चेटक इत्यभूत् ॥१८५।। पृथग्राज्ञीभवास्तस्य बभूवुः सप्त कन्यकाः । सप्तानामपि तद्राज्याङ्गानां सप्तेव देवताः ॥१८६।। प्रभावती पद्मावती मृगावती शिवाऽपि च । ज्येष्ठा तथैव सुज्येष्ठा चेल्लणा चेति ताः क्रमात् ॥१८७।। चेटकस्तु श्रावकोऽन्यविवाहनियमं वहन् । ददौ कन्या न कस्मैचिदुदासीन इव स्थितः ॥१८८।। तन्मातर उदासीनमपि ह्यापृच्छ्य चेटकम् । वराणामनुरूपाणां प्रददुः पञ्च कन्यकाः ॥१८९॥ प्रभावती वीतभयेश्वरोदायनभूपतेः । पद्मावती तु चम्पेशदधिनाहनभूभुजः ॥१९०।। कौशाम्बीशशतानीकनृपस्य तु मृगावती । शिवा तूज्जयिनीशस्य प्रद्योतपृथिवीपतेः ॥१९१॥ कुण्डग्रामाधिनाथस्य नन्दिवर्धनभूभुजः । श्रीवीरनाथज्येष्ठस्य ज्येष्ठा दत्ता यथारुचि ॥१९२।। सुज्येष्ठा चेल्लणा चापि कु मार्यावेव तस्थतुः । रूपश्रियोपमाभूते ते द्वे एव परस्परम् ॥१९३।। ते दिव्याकारधारिण्यौ दिव्यवस्त्रविभूषणे । अवियुक्ते सदाऽभूतां तारे इव पुनर्वसू ॥१९४|| १. सुभद्र मु. । २. गर्भवती । ३. न्ययुक्त मु. । ४. ०स्तनिम्नां मु. । ५. श्रेणिकस्य भगिनी सुसेनाभिधाऽऽसीदिति ज्ञायते । ६. दुःसाध्यान् मु. । ७. नगर्यस्त्यग० मु., नूतन मु. । ८. चिल्लणा मु. । ९. ०दयन० । १०. तुज्जयनी० खं. । ११. विभूषणैः मु., नूतन मु. ।
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy