________________
षष्ठः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
[[तं दृष्ट्वा मुदितो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्चद्विमलैः सुवर्णकलशाम्बुभिः ॥१३८॥ राजाऽपि संस्मरन् पार्श्वं जिनं पञ्चनमस्क्रियाम् । चतुः शरणमापन्नो विपद्य त्रिदिवं ययौ ॥१३९॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन गर्भवती मुक्ता गर्भं नन्दापि दुर्वहम् ॥ १४०॥ [[तस्या दोहद इत्यासीद् गजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ॥ १४१ ॥ विज्ञपय्याऽथ राजानं तत्पित्राऽपूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवाऽर्भकम् ॥१४२॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराऽभयकुमार इति मातामहोऽभिधाम् ॥१४३॥ [स क्रमाद्ववृधे विद्या निरवद्या: पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च ॥१४४॥ सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याऽहो पितापि ज्ञायते न हि ? ॥१४५॥ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ॥१४६॥ नन्दां प्रत्यभयोऽप्यूचे मातः को मे पितेत्यथ ? | अयं तव पिता भद्रश्रेष्ठी नन्देत्यचीकथत् ॥१४७॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ॥१४८॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमापुः केचिदौष्ट्रिकाः ॥१४९॥ रहः स किञ्चिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥१५०॥ स यन् किञ्चिज्जजल्प त्वामिति पृष्टाऽभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ॥१५१॥ तद्विभाव्याऽभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगृहे तत्र गच्छामो ननु संप्रति ॥ १५२ ॥ आपृच्छ्य श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया सार्धं ययौ राजगृहं पुरम् ॥१५३॥ मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाऽभयः पुरे ॥१५४॥ पाइतश्च मेलितान्यासंस्तदा श्रेणिक भूभुजा । शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥१५५॥ मन्त्रिपञ्चशतीं पूर्णां कर्तुं नरपतिस्ततः । लोके गवेषयामास कञ्चिदुत्कृष्टपूरुषम् ॥१५६॥ ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिर्लोकानित्यादिदेश च ॥१५७॥ आदास्यते करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीती मदीयाँ मन्त्रिधुर्यता ||१५८॥। तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । ताराः करेण यः कर्षेत् स इमामूर्मिकापि ॥१५९॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा किमेतदपि दुष्करम् ? ॥१६०|| तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् ॥१६१॥ ऊचुस्ते तं गृहाणेमामूर्मिकां तत्पणीकृताम् । अर्धराज्यश्रियं पुत्रीं धुर्यतां चैषु मन्त्रिषु ॥१६२ || [[ततोऽभयकुमारोऽपि मुद्रिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेन निजघानोपरिस्थितः ॥१६३॥ प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥१६४॥ नन्दाया नन्दनः शीघ्रं कारयित्वाऽथ सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् ॥१६५॥ तद् गोमयं श्रेणिकसूः करेण तरेदाददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ॥१६६॥ तस्मिन् स्वरूपे चाऽऽरक्षैर्विज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावाऽऽत्मसन्निधौ ॥१६७॥
१. गच्छन् । २. मन्त्रेषु-राज्यकार्येषु दक्षाणाम् । ३. धीकौशलेन क्रीता । ४. मदीये खं. १-२ । ५. तू प्लवनतरणयोः ।
७९