________________
७८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व सर्वे कुमारा हस्त्यादि समादाय यथारुचि । निर्ययुः श्रेणिक स्त्वेकां भम्भामादाय निर्ययौ ॥१०९॥ किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्न भम्भेयं प्रथमं पृथिवीभुजाम् ॥११०॥ अस्याः शब्देन भूपानां दिग्यात्रामङ्गलं महत् । रक्षणीया क्षमापालैः स्वामिस्तदियमेव हि ॥१११।। ततश्चैवं महेच्छत्वप्रसन्नः पृथिवीपतिः । श्रेणिकस्य ददौ भम्भासार इत्यपराभिधाम् ॥११२॥ पाइदं च न विसस्मार तदा राजा प्रसेनजित् । उत्तिष्ठेद्यद्गृहादग्निः स पुरे ने वसेदिति ॥११३।।
ततश्चाचिन्तयन्नाऽहमात्मानमनशास्मि चेत् । सर्वथा तर्हि पर्याप्तं परेषामनुशासनम् ॥११४॥ इति तत्याज नगरं तद्राजा सपरिच्छदः । क्रोशेनैकेन च ततः शिबिरं संन्यवेशयत् ॥११५।। सञ्चरन्तस्तदा चैवं वदन्ति स्म मिथो जनाः । क्व नु यास्यथ ? यास्यामो वयं राजगृहं प्रति ॥११६।। ततो राजगृहं नाम तत्रैव नगरं नृपः । चकार परिखा-वप्र-चैत्य-सौधा-ऽट्टबन्धुरम् ॥११७|| पाराज्याहमानिनो मैनं राज्याहँ सूनवोऽपरे । ज्ञासिषुरित्यवाऽज्ञासीच्छ्रेणिकं पृथिवीपतिः ॥११८||
पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किञ्चिच्छ्रेणिकस्याऽस्तु राज्यमस्यायताविति ॥११९।। पाततोऽभिमानी स्वपुरात् कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छद् वेण्णांतटपुरं क्रमात् ॥१२०॥ तत्र च प्रविशन् भद्राऽभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मृर्तमिवोपाविशदापणे ॥१२१॥ तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुकूलाङ्गरागपौराऽऽकुलोऽभवत् ॥१२२॥ प्रभूतक्रायकै रासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयद् बद्ध्वा तत्पुटापुटिकादिकम् ॥१२३।। द्रव्यं कुमारमाहात्म्याच्छ्रेष्ठी भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः ॥१२४|| अद्याऽवितथपुण्यस्य कस्याऽतिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥१२५।। नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ॥१२६।। सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम । असावलसमध्येन ननु गङ्गा समागता ॥१२७|| संवृत्याऽटुं ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥१२८।। पाएवं च तिष्ठस्तद्गेहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दां नाम्नेत्ययाच्यत ॥१२९।। ममाऽज्ञातकुलस्यापि कथं दत्से सुतामिति ? । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ॥१३०।। ततस्तस्योपरोधेनोदधेरिव सुतां हरिः । श्रेणिकः पर्यणैषीत्तां भवद्धवलमङ्गलम् ॥१३१।। भुञ्जानो विविधान् भोगान् सह वल्लभया तया । अतिष्ठच्छ्रेणिकस्तत्र निकुञ्ज इव कुञ्जरः ॥१३२।। पाश्रेणिकस्य स्वरू पं तद्विवेदाऽऽशु प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः ॥१३३।। उग्रं प्रसेनजिद् रोगं प्रापाऽथाऽन्तं विदन्निजम् । ततः श्रेणिकमानेतुं शीघ्रमादिक्षदौष्ट्रिकान् ॥१३४॥ औष्ट्रिकेभ्यो ज्ञातयाऽऽतः पितुरत्यर्तिवार्तया । नन्दा सम्बोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥१३५।। वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वानमन्त्रप्रतिमान्यक्षराणीति चार्पयत् ॥१३६।। माऽन्या तातस्य रोगार्तेर्मदतिर्भूदिति द्रुतम् । उष्ट्रीं श्रेणिक आरुह्य ययौ राजगृहं पुरम् ॥१३७||
१. मा खं. १-२ । २. स न्यवे० मु. नूतन मु. । ३. आगामिनि समये । ४. वेन्ना० खं. ३ । वेणा० मु. । ५. 'पडीकां, पुडी' इति भाषायाम् । ६. प्रापाऽथ तं खं. १-२ । ७. ज्ञातवार्तः मु., नूतन मु. ।