________________
षष्ठः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
इत्थं विमृश्य स्वधिया सा प्रांश गुटिकाः समाः । तथाबुद्धिरियं जज्ञे नान्यथा भवितव्यता ॥८०॥ उत्पेदिरे तदुदरे गर्भा द्वात्रिंशदप्यथ । तैर्गर्भेरसहा साऽभूद्वल्लीव बहुभिः फलैः ॥८१॥
सा गर्भान् धर्तुमसहा वज्रसारान् कृशोदरी । कायोत्सर्गस्थिता देवं सस्मार पुनरेव तम् ॥८२॥ स्मृतमात्रोपस्थितेन सद्यस्तेनाऽमरेण सा । किं स्मृतोऽस्मीति पृष्टाऽऽख्यत्तां तथा गुटिकाकथाम् ॥८३॥ देवोऽवदत् किं गुटिका युगपद् भक्षितास्त्वया ? | अमोघाः खल्विमास्तेन गर्भास्तावन्त एव ते ॥८४॥ न साधु विदधे भद्रे ! त्वयेदमृजुचेतसा । पुत्रास्तुल्यायुषो ह्येवं द्वात्रिंशदपि भाविनः ॥८५॥ मा विषीद महाभागे ! बलिष्ठा भवितव्यता । गर्भपीडापहारं तु करिष्ये सुस्थिता भव ॥८६॥ सुलसाया गर्भपीडामपहृत्य स नाकसंत् । जगाम साऽभूत् स्वस्था च गूढगर्भा च भूरिव ॥८७॥ [पूर्णे काले च सुलसा शुभेऽहनि शुभे क्षणे । द्वात्रिंशल्लक्षणान् पुत्रान् द्वात्रिंशतमजीजनत् ॥८८॥ धात्रीभिर्लाल्यमानास्ते क्रमाद् ववृधिरे सुताः । कलभा इव विन्ध्याद्रावखण्डितसमीहिताः ॥८९॥ प्राङ्गणे ते रुरुचिरे रममाणाः कुमारकाः । गृहलक्ष्मीविहङ्गम्याः क्रीडाक्षितिरुहा इव ॥९०॥ उत्सङ्गे नागरथिको ग्राहं ग्राहं कु मारकान् । स्नेहादस्नपयदिवाऽऽनन्दजैर्बाष्पवारिभिः ॥९१॥ पादे क्रोडे शिरोदेशे लगमानैः कुमारकैः । विरेजे नागरथिकः सिंहपोतैरिवाऽचलः ॥९२॥ सर्वेऽपि नागरथिनः सूनवो वयसा समाः । ते श्रेणिककुमारस्य बभूवुरनुयायिनः ||१३|| [[अन्यदा च स्वपुत्राणां राज्यार्हत्वं परीक्षितुम् । एकत्र पायसस्थालान्यशनाय नृपोऽर्पयत् ॥९४॥ ततो भोक्तुं प्रवृत्तानां कु माराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ॥९५॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसुं । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥९६॥ सोऽन्यस्थालात् पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् ॥९७|| येन केनाप्युपायेन परानेष निरोत्स्यति । भोक्ष्यते च स्वयं पृथ्वीं राजा तेनेति रञ्जितः ॥९८॥ [राजा पुनः पुरीक्षार्थं सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥९९॥ इमां मुद्रामभञ्जन्तो भुञ्जीध्वं मोदकानमून् । पयः पिबत मा कृवं छिद्रमित्यादिशन्नृपः ॥१००॥ विना श्रेणिकमेतेषां कोऽपि नाऽर्भुक्त नाऽपिबत् । बुद्धिसाध्येषु कार्येषु कुर्युरूर्जस्विनोऽपि किम् ? ॥१०१॥ चलयित्वा चलयित्वा श्रेणिकस्तु करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥१०२॥ रूप्यशुक्त्या घटस्याधो गलद्वार्बिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाधं सुधियां धियः ? ॥१०३॥ एवं परीक्षानिर्व्यूढं श्रेणिकं बुद्धिसम्पदा । अमंस्त राज्यार्हतया कुशाग्रनगरेश्वरः ||१०४|| कुशाग्रे चाऽभवच्छीघ्रं शीघ्रमग्नेरुपद्रवः । ततश्चाऽऽघोषणां राजा प्रसेनजिदकारयत् ॥१०५॥ उत्थास्यति पुरे वह्निर्यस्य यस्य गृहादिह । स स निर्वासनीयोऽस्मात् पुरान्मयै इवाऽऽयी ॥१०६ ॥ सूपकारप्रमादेन राज्ञ एवाऽन्यदा गृहात् । उदस्थादग्निरग्निर्हि न स्वः कस्यापि विप्रवत् ॥१०७॥ तस्मिन् प्रदीपने वृद्धिमुपेयुषि महीपतिः । यो यद् गृह्णाति मद्गेहात् तत्तस्येत्यादिशत् सुतान् ॥१०८॥
७७
१. प्राथनाद् मु. । २. देवः । ३. गृहलक्ष्मीरेव विहङ्गमी - पक्षिणी - तस्याः । ४. पादक्रोडशिरोदेशे मु. । ५. श्वानेषु । ६. नाभुङ्क्तखं. ४ । ७. बलिनोऽपि । ८. ९. वल० मु. । १०. दुःसाध्यं मु., नूतन मु. । ११. उष्ट्रः । १२. रोगी । १३. यं मु. ।