________________
७६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व इति चिन्ताविवर्णास्यं पङ्कमग्नमिव द्विपम् । पति प्रोवाच सुलसा विनयाद् रचिताञ्जलिः ॥५३॥ हस्तशय्या मुखस्येयं चिन्तामाख्याति नाथ ! ते । किं चिन्तयस्यादिश मे मां चिन्ताभागिनीं कुरु ॥५४|| नागोऽप्याख्यदपुत्रोऽस्मि पुत्रकौतूहलं च मे । न किञ्चिदस्त्यौपयिकं पुत्रीयं पुत्रकाम्यतः ॥५५॥ सुलसोवाच कन्यास्त्वं बह्वीः परिणयाऽपराः । पुत्रप्रसविनी तासु किमेकापि न भाविनी ? ॥५६|| नागोऽप्यूचे त्वयैवाऽहं जायावानिह जन्मनि । जायाभिः कृतमन्याभिस्तत्पुत्राणां तु का कथा ? ||५७|| त्वदङ्गसम्भवं पुत्रमिच्छामि प्रियदर्शने ! । स आवयोः प्रीतिवल्ले: फलायेव चिरादपि ॥५८॥ त्वं प्राणास्त्वं प्रतिवपुस्त्वं मन्त्री त्वं च मे सखा । तद् यतस्व सुतार्थेऽस्मिन्नुपयाचितकादिभिः ॥५९।। सुलसोचे करिष्येऽहमर्हदाराधनां प्रिय ! । अर्हदाराधनैवैका सर्वकार्येषु कामधुक् ॥६०|| पाआचामाम्लादिभिरथ तपोभिरतिदुस्तपैः । आजन्मापि पवित्रं स्वं पावयन्ती विशेषतः ॥६१॥ मितमौक्तिकालङ्कारा नवोत्फुल्लेव मल्लिका । कौसुम्भवसना सन्ध्येवाऽरुणाभ्रा प्रगतनी ॥६२।। वीतरागार्चनपरा ब्रह्मचर्यपरायणा । समाहितमनाः साऽस्थात् पतिदुःखार्द्रमानसा ॥६३|| (त्रिभिर्विशेषकम्) पाइतश्च शक्रः सदसि प्रशंसामिति निर्ममे । श्राविका उपसुलसां साम्प्रतं भरतावनौ ॥६४|| एको देवस्तदाकर्ण्य विस्मयोत्कर्णिताननः । सुलसायाः श्राविकात्वं परीक्षितुमुपाययौ ॥६५।। देवार्चनप्रसक्तायाः सुलसायाः स वेश्मनि । प्राविशत् साधुरूपेण विरचय्य निषेधिकाम् ॥६६।। सुलसापि हि तं दृष्ट्वाऽनभ्रवृष्टिवदागतम् । भक्त्या ववन्देऽपृच्छच्च तदागमनकारणम् ॥६७|| स उवाच ममाऽऽख्यातं वैद्येन त्वद्गृहेऽस्ति यत् । लक्षपाकं महातैलं ग्लानार्थं तत् प्रदीयताम् ॥६८।। सफलस्तैलपाको यः साधावुपकरिष्यते । इत्युदीर्य मुदा तैलकुम्भमभ्यानिनाय सा ॥६९।। स तैलकुम्भो देवेन स्वशक्त्या पातितः करात् । द्राक् च त्रडिति पुस्फोट कुलायगलिताण्डवत् ॥७०।। तैलकुम्भो द्वितीयोऽपि तया पुनरढौक्यत । तथैव सोऽपि स्फुटितो न पुनर्विषसाद सा ॥७१॥
तैलकुम्भस्तृतीयोऽपि तयाऽऽनीतस्तथाऽस्फुटत् । सा दध्यौ चाल्पपुण्याऽस्मि मोघयाच्नेन साधुना ॥७२।। पादेवस्ततो निजं रूपं धृत्वेति निजगाद ताम् । भद्रे ! तव श्राविकात्वं प्रशशंस दिवस्पतिः ॥७३|| शक्र प्रशंसया चैष विस्मितः स्वर्गवास्यहम् । त्वत्परीक्षार्थमायातस्तुष्टोऽस्मि च वरं वृणु ॥७४|| सुलसा श्राविकाऽप्यूचे यदि तुष्टोऽसि तन्मम । देहि पुत्रमपुत्राया नाऽन्यदिष्टमतः परम् ॥७५।। द्वात्रिंशतं स गुटिका दत्त्वा देवोऽब्रवीदिदम् । क्रमेण भक्षयेरेतास्तावन्तः स्युः सुतास्तव ॥७६।।
पुनः प्रयोजनवशात् स्मर्तव्योऽहं त्वयाऽनघे ! । एष्यामि भूय इत्युक्त्वा त्रिदशः स तिरोदधे ॥७७|| qाअचिन्तयच्च सुलसा क्रमेण गुटिकाऽदनात् । बहूनां बालरूपाणां मर्दिष्यति हि कोऽशुचिम् ? ॥७८|| तस्मात् प्राशनाम्यहं सर्वा युगपद् गुटिका इमाः । यथैकोऽपि भवेत् पुत्रो द्वात्रिंशल्लक्षणान्वितः ॥७९॥
१. चिन्तया विवर्णं-मलिनमास्यं यस्य सः, तम् । २. पुत्रस्येदं-पुत्रीयम् । ३. पुत्रमिच्छतः । ४. फलायेत खं. १-२ विना, मु. । फलमिवाऽऽचरेत् । ५. उपयाचितकं-देव्यादीनां पाशर्वे याचना, 'मानता' इति भाषायाम् । ६. अर्हदाराधना चैका खं. ३-४ । ७. प्रातःकालिकी । ८. उपसुलसं ख. ३-४ । श्राविकासु सुलसा श्रेष्ठा इत्यर्थः । ९. पाकोऽयं मु. । १०. तु मु. । ११. टिति नूतन मु. । १२. नीडपतिताण्डवत् । १३. निष्फलयाचनेनेत्यर्थः । १४. चैव मु. । १५. सुता अपि खं. ४ ।।