________________
षष्ठः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । मन्त्रिसस्तापसश्चेति तमानर्च जनोऽखिलः । वैराग्यकारणं पृष्टः कथयामास चेति सः ॥२५॥ पासुमङ्गलकुमारेण रूपमेतदहासि मे । वैराग्यं तेन मे जातं सत्यङ्कारस्तप:श्रियः ॥२६।। तच्छ्रुत्वा तं नमस्कर्तुं सुमङ्गलम्रपोऽभ्यगात् । क्षमयित्वा पारणाय न्यमन्त्रयत चाऽऽदरात् ॥२७॥ सोऽपि राज्ञे प्रदत्ताशीरनुमेने तदर्थनाम् । कृतकृत्य इवाऽगाच्च राजाऽपि निजवेश्मनि ॥२८॥ पापूर्णेऽथ मासक्षपणे नृपतेः प्रार्थनां स्मरन् । शान्तात्मा राजभवनद्वारमाप स तापसः ॥२९॥ शरीराऽसौष्ठवमभूत्तदा च पृथिवीपतेः । द्वारं च पिदधे द्वा:स्थ: कस्तदा भिक्षुमीक्षते ? ॥३०॥ स्खलितो द्वारदानेन सेतुनेव जलप्लवः । पथा यथागतेनैव तपस्वी व्या घोट सः ॥३१॥ निश्चित्य मासक्षपणं ययौ च पुनष्ट्रिकाम् । नचाऽकुप्यत् तपोवृद्धौ हृष्यन्ति हि महर्षयः ॥३२॥ पास्वस्थीभूतो द्वितीयेऽह्नि भक्तो राजा तपस्विषु । गत्वा नत्वा क्षमयित्वा पुनरेवमुवाच तम् ॥३३॥ निमन्त्रितोऽसि पुण्याय मयाऽघं पुनरर्जितम् । प्रायः पापनिवासानां पापमेवाऽतिथीयते ॥३४|| तवाऽन्यत्रापि भगवन्निषिद्धं पारणं मया । अदातुर्हि प्रियालापोऽन्यत्र लाभान्तरायकृत् ॥३५।। तत् प्रसीद द्वितीयेऽपि मासक्षपणपारणे । मत्प्राङ्गणमलकुर्याः कल्पशाखीव नन्दनम् ॥३६।। तथेति प्रतिपेदाने तापसेऽगान्नृपो गृहम् । गणयन्नमुलीस्तस्थौ तत्पारणदिनाय च ॥३७॥ पापूर्णे च मासक्षपणे स तपस्वी नृपौकसि । ययौ दैवादभूद्राज्ञः प्राग्वद्वपुरपाटवम् ॥३८॥ तथैव पिहिते द्वारे व्याघुट्याऽगात् स उष्ट्रिकाम् । स्वस्थीभूतोऽथ तं राजा न्यमन्त्रयत पूर्ववत् ॥३९॥ पूर्णेऽथ मासक्षपणे तृतीयेऽपि स तापसः । तथैवाऽगात्तथैवाऽभूद्राज्ञः पुनरपाटवम् ॥४०॥ पाराजकीयैरचिन्त्येष तपस्व्येति यदा यदा । तदा तदा भवत्यस्मेत्स्वामिनोऽशिवमेव हि ॥४१॥ ते चाऽऽरक्षानथादिक्षस्तपस्वी मन्त्रिसूरपि । प्रविशन्नप्यसौ सर्प इव निर्वास्यतामहो ! ॥४२॥ कृते तथैवाऽऽरक्षैश्च निदानं तापसोऽकरोत् । भूयासमहमेतस्य वधाय नृपतेरिति ॥४३॥ मृत्वा च तापसो जज्ञे सोऽल्पद्धिानमन्तरः । राजाऽपि तापसो भूत्वा तामेव गतिमाप सः ॥४४॥ च्युत्वा सुमङ्गलः सोऽथ प्रसेनजिदिलापतेः । सुतोऽभूच्छेणिको नाम धारिणीकुक्षिसम्भवः ॥४५॥ पाइतश्च तत्रैव पुरे रथिको नाग इत्यभूत् । प्रसेनजिन्महीपालचरणाम्भोजषट्पदः ॥४६।। दयावानार्हतो दाता परनारीसहोदरः । वीरो धीरोऽधीतकलः स सर्वगुणभूरभूत् ॥४७|| नामधेयेन सुलसाऽनलसा पुण्यकर्मणि । बभूव गेहिनी तस्य पुण्यश्रीरिव देहिनी ॥४८॥ पतिव्रतात्व-सम्यक्त्वा-ऽऽर्जवप्रभृतयो गुणाः । तस्यां युगपदावात्सुः सपांशुक्रीडका इव ॥४९॥ पाएकदा नागरथिकोऽपुत्रोऽचिन्तयदुच्चकैः । सेनालनलिनाकारकरतल्पशयाननः ॥५०॥ पुत्रमुल्लापयिष्यामि लालयिष्यामि चेति मे । अपुत्रस्याऽवकेशीव निष्फलोऽभून्मनोरथः ॥५१॥ न बाल्याद् ब्रह्म विदधे पुत्रवक्त्रं च नैक्षि यैः । धिक् तेषां कामवैवश्यं लोकद्वितयवञ्चकम् ॥५२॥
१. न्यवर्तत । २. भवत्यस्मात् खं. १-२ । ३. दयादाना० मु. । ४. सह धूल्यां क्रीडाकारका:-बालमित्राणीत्यर्थः । ५. नालयुक्तंनलिनं तदाकारो यः करः, स एव तल्पं-शय्या, तत्र शेते इति शयं; एतादृशमाननं यस्य सः । ६. वन्ध्यः ।