SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व ॥ अथ षष्ठः सर्गः ॥ इतश्चाऽत्रैव भरते कुशाग्रपुरपत्तने । कुशाग्रीयमतिरभूत् प्रसेनजिदिलापतिः ॥१॥ अलङ्कताऽशेषदिक्कस्तस्याऽपारो यशोऽर्णवः । जग्रसे विद्विषां कीर्तिनिर्झरिणीः समन्ततः ॥२॥ तस्याऽभूत् केवलं राज्यशोभायै सैन्यसंग्रहः । यत् प्रतापाऽनलेनैव वैरिव्याघ्राननाशयत् ॥३॥ स्खल्योऽद्रिणा वायुरपि दम्भोलिरपि वाद्धिना । आज्ञा तस्य पुनः पृथ्व्यामस्खल्यत न केनचित् ॥४|| स प्रसारितपाणिभ्यो याचकेभ्यो ददवस । तेषामिव स्पर्धया स्वं न पाणि समकोचयत् ॥५॥ हित्वा स्वस्वपतीन् जातेऽन्धकारे रणरेणुभिः । तमालिलिङ्गुः सर्वाङ्गं जयलक्ष्म्योऽभिसारिकाः ॥६॥ शुद्ध मनसि तस्याभूत् सदाचारशिरोमणेः । जिनधर्मः स्थिरः सान्द्रे केशपाशेऽधिवासवत् ॥७॥ श्रीमत्पार्श्वजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणुव्रतधरोऽभवत् ॥८॥ राज्ञां कन्याभिरूढाभिस्तस्योर्वीशशिरोमणेः । अवरोधोऽभवद् भूयान् दिवीव दिविषत्पतेः ॥९॥ पाकशासनतुल्यस्य शासतस्तस्य मेदिनीम् । सूनवो बहवोऽभूवंस्तन्मूर्तय इवाऽपराः ॥१०॥ पाइतश्चात्रैव भरते वसन्तपुरपत्तने । यथार्थनामा समभूज्जितशत्रुर्महीपतिः ॥११॥ अमरीव भुवं प्राप्ता तस्य चाऽमरसुन्दरी । बभूव पट्टमहिषी गुणरत्नमहाखनिः ॥१२॥ तयोः सुमङ्गलो नाम मङ्गलानां निवासभूः । सुतोऽभूद्रूपकन्दर्पः कलानां निधिरिन्दुवत् ॥१३॥ सेनको नाम सवयास्तस्याऽभून्मन्त्रिपुत्रकः । अलक्षणानां सर्वेषामुदाहरणमादिमम् ॥१४॥ स पिङ्गकेशो दावाग्निदीप्तशृङ्ग इवाऽचलः । घूकवच्चिपिटघ्राणो मार्जार इव पिङ्गडक् ॥१५॥ उष्ट्रवल्लम्बकण्ठोष्ठ आखुवल्लघुकर्णकः । मुखकन्दाङ्कराकारबहिर्भूतरदावलिः ॥१६॥ जलोदरीवोदरिलो ह्रस्वोरुामकोलवत् । मण्डलस्थानकेनेव वक्रजङ्घोऽतिसूर्पपात् ॥१७॥ (त्रिभिर्विशेषकम्) संचचार दुराकारो वराको यत्र यत्र सः । जगाम तत्र तत्रापि हास्यमेकातपत्रताम् ॥१८॥ दूरतोऽपि तमायान्तं राजपुत्रः सुमङ्गलः । जहास विकृताऽऽकारं विलोक्येव विदूषकम् ।।१९।। एवं च राजपुत्रेण हस्यमानो दिवानिशम् । वैराग्यं सेनको भेजेऽपमानद्रुमहाफलम् ॥२०॥ अथ संजातवैराग्यो मन्दभाग्यस्ततः पुरात् । निरगाच्छून्यहृदय उन्मत्त इव सेनकः ॥२१॥ सुमङ्गलकुमारोऽपि मन्त्रिपुत्रे निरीयुषि । कालेन कियताऽप्यात्मराज्ये पित्रा न्यवेश्यत ॥२२॥ पासेनकोऽपि भ्रमन्नेकं, दृष्ट्वा कुलपतिं वने । तत्पार्श्वे तापसो भूत्वा गृह्णाति स्मोष्ट्रिकाव्रतम् ॥२३।। तीव्रण तपसा नित्यं स्वमत्यन्तं कदर्थयन् । वसन्तपुरमेवाऽऽगादपरेयुः स तापसः ॥२४॥ १. नृपतिः । २. वज्रम् । ३. समुद्रेण । ४. गाढे । ५. सुगन्धवत् । ६. अन्तःपुरम् । ७. मुखकुन्दा० खं. १, नू. मु. । ८. 'शूकर' खं. ४ टि. । ९. मण्डलस्थानकं-धनुर्धारिणो लक्ष्यवेधवेलायामासनम् । १०. शूर्प० मु., नू. मु. । ११. दुराचारो खं. ४ । १२. बालतपसा स्व० नू. मु. । १३. सतापसः ('गुरुसहितः' इति टि.) मु. ।
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy