________________
७३
पञ्चमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । सत्यप्रवादमात्मप्रवादं कर्मप्रवादयुक् । प्रत्याख्यानं च विद्याप्रवाद-कल्याणके अपि ॥१७०॥ प्राणावायाऽभिधानं च क्रियाविशालमित्यपि । लोकबिन्दुसारमथ पूर्वाण्येवं चतुर्दश ॥१७१।। सूत्रितानि गणधरैरङ्गेभ्यः पूर्वमेव यत् । पूर्वाणीत्यभिधीयन्ते तेनैतानि चतुर्दश ॥१७२।। एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नास्तत्र वाचनाः ॥१७३।। अकम्पिता-ऽचलभ्रात्रोः श्रीमेतार्य-प्रभासयोः । परस्परमजायन्त सदृक्षा एव वाचनाः ॥१७४।। श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि । द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥१७५।। पासौगन्धिकरत्नचूर्णपूर्णमादाय भाजनम् । उत्थाय स्वामिपार्श्वेऽस्थात् समयज्ञोऽथ वज्रभृत् ॥१७६।। तेऽपीन्द्रभूतिप्रमुखाः परिपाट्याऽवतस्थिरे । प्रतीच्छवः स्वाम्यनुज्ञां किञ्चिन्नमितमौलयः ॥१७७|| द्रव्यैर्गुणैः पर्यायैश्चाऽनुज्ञातं तीर्थमित्यथ । जल्पन् स्वाम्यक्षिपत् पूर्वं चूर्णं गौतममूर्धनि ||१७८|| अप्यन्येषां क्रमात् स्वामी चूर्णं चिक्षेप मूर्धसु । पुष्पवर्षं चूर्णवर्षं प्रीता देवाश्च चक्रिरे ॥१७९।। चिरंजीवी चिरं धर्मं द्योतयिष्यत्यसाविति । धुरि कृत्वा सुधर्माणमन्वज्ञासीद् गणं प्रभुः ॥१८०॥ साध्वीनां संयमोद्योगघटनार्थं तदैव च । प्रवर्तिनीपदे स्वामी स्थापयामास चन्दनाम् ॥१८१॥ पापूर्णप्रथमपौरुष्यां देशनां व्यसृजत् प्रभुः । राजोपनीतस्तत्र प्राग्द्वारेण प्राविशद् बलिः ॥१८२।। उदस्तस्य बलेस्तस्य खेऽप्य) जगृहुः सुराः । अर्धस्य पतितस्याऽधू राजा शेषं पुनर्जनाः ॥१८३।। अथोत्थाय जगन्नाथो देवच्छन्द उपाविशत् । स्वाम्यंह्रिपीठे चाऽऽसीनो गौतमो देशनां व्यधात् ॥१८४|| द्वितीयस्यां तु पौरुष्यां पूर्णायां गौतमोऽपि हि । देशनाया विरराम वृष्टेरिव नवाम्बुदः ॥१८५।। तत्राऽतिगम्य कतिचिद्दिवसानि विश्व
विश्वोपकारनिरतः प्रतिबोध्य लोकम् । स्वामी सुरासरनरेश्वरसेव्यमान
पादारविन्दयुगलो विजहार पृथ्व्याम् ॥१८६।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि
श्रीमहावीरकेवलज्ञानचतुर्विधसंघोत्पत्तिवर्णनो
नाम पञ्चमः सर्गः ॥
-Kvk
१. चिरंजीवी मु., नू. मु., खं. २-३ ।