________________
७२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व तदसन्नारकाः । कामं पारतन्त्र्यवशादिह । आगन्तुमक्षमा गन्तुं तत्र च त्वादृशा अपि ॥१४३।। प्रत्यक्षं नोपलभ्यास्ते युक्तिगम्या भवादृशाम् । प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः ॥१४४॥ क्षायिकज्ञानिनोऽप्यत्र नो सन्तीति स्म मा ब्रवीः । मयैव व्यभिचारोऽस्या आशङ्कायाः परिस्फुटः ॥१४५।। इति श्रुत्वा प्रतिबुद्धोऽकम्पितः स्वामिनोऽन्तिके । उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् ॥१४६।। पाअथाऽऽगादचलभ्राता प्रभुं प्रभुरपि स्फुटम् । ऊचे तवाऽचलभ्रातः ! सन्देहः पुण्य-पापयोः ? ॥१४७।। मा कृथाः संशयं तत्र यत् फलं पुण्य-पापयोः । प्रत्यक्षं दृश्यते लोके तथैव व्यवहारतः ॥१४८|| दीर्घमायुः श्रियो रूपमारोग्यं जन्म सत्कुले । इत्यादि पुण्यस्य फलं विपरीतं तु पाप्मनः ॥१४९।। इत्थं भगवता च्छिन्नसंशयः समुपाददे । प्रव्रज्यामचलभ्राता त्रिभिः शिष्यशतैः सह ॥१५०॥ पामेतार्यः स्वामिनमगात् स्वाम्यूचे तव धीरियम् । भवान्तरप्राप्तिरूप: परलोको न विद्यते ॥१५१॥
भूतसन्दोहरूपत्वाज्जीवस्येह चिदात्मनः । परलोकः कथं ? भूताऽभावे तस्याऽप्यभावतः ॥१५२।। तदसत् खलु जीवस्य भूतेभ्यो हि स्थिति: पृथक् । पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः ॥१५३।। भूतेभ्यश्चेतनाऽप्येवं जीवधर्मतया पृथक् । परलोकगतिस्तत् स्याज्जातिस्मृत्यादितोऽपि च ॥१५४|| इत्थं प्रबद्धो मेतार्यः समीपे स्वामिपादयोः । शिष्यत्रिशत्या सहितः परिव्रज्यामपाददे ॥१५५।। पाप्रभुमागात् प्रभासोऽपि तमूचे भगवानपि । निर्वाणमस्ति नो वेति प्रभास ! तव संशयः ॥१५६।। मा संशयिष्ठा निर्वाणं मोक्षः कर्मक्षयः स तु । वेदात् सिद्ध कर्म जीवाऽवस्थावैचित्र्यतोऽपि च ॥१५७|| क्षीयते कर्म शबैस्त ज्ञान-चारित्र-दर्शनैः । प्रत्यक्षोऽतिशयज्ञानभाजां मोक्षस्तदस्ति भोः ! ॥१५८।। प्रतिबुद्धः प्रभासोऽपि स्वाम्युपन्यस्तया गिरा । दीक्षामादत्त सहितः खण्डिकानां त्रिभिः शतैः ॥१५९|| महाकुला महाप्राज्ञाः संविग्ना विश्ववन्दिताः । एकादशाऽपि तेऽभूवन्मूलशिष्या जगद्गुरोः ॥१६०|| पाइतश्च चन्दना तत्र शतानीकगृहस्थिता । पश्यन्ती यान्तमायान्तं दिविषज्जनमम्बरे ॥१६१।। स्वामिनः केवलोत्पत्तिनिश्चयाद् व्रतकांक्षिणी । त्रिदशैरदवीयोभिनिन्ये श्रीवीरपर्षदि ॥१६२॥ सा त्रिः प्रदक्षिणीकृत्य नत्वा चोपास्थित प्रभुम् । प्रव्रज्यार्थं नृपाऽमात्यपुत्र्यो बढ्योऽपरा अपि ॥१६३||
चन्दनां धुरि कृत्वा ताः स्वयं प्राव्राजयत् प्रभुः । अस्थापयच्छ्रावकत्वे नृन्नारीश्च सहस्रशः ॥१६४|| पाजाते संघे चतुधैवं ध्रौव्योत्पादव्ययात्मिकाम् । इन्द्रभूतिप्रभृतीनां त्रिपदी व्याहरत् प्रभुः ॥१६५।।
आँचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथाऽपि च ॥१६६।। उपासकाऽन्तकृदनुत्तरौपपातिकाद्दशाः । प्रशनव्याकरणं चैव विपाकश्रुतमप्यथ ॥१६७।। दृष्टिवादश्चेत्यङ्गानि तत्रिपद्या कृतानि तैः । पूर्वाणि दृष्टिवादान्तः सूत्रितानि चतुर्दश ॥१६८।।
तत्रोत्पादोऽऽग्रायणीये वीर्यप्रवादमित्यपि । अस्तिनास्तिप्रवादं च ज्ञानप्रवादनाम च ॥१६९।। १. ०स्फुटम् मु. । २. शिष्याणाम् । ३. प्रज्ञाः० खं. १ । ४. स मु. । ५. ०स्थितः मु. । ६. सर्वं ध्रुवं, पुनः सर्वं उत्पादशीलं, पुनः सर्वं व्ययशीलं-नाशवत्, इत्यात्मिकां त्रिपदीम् । ७. आचाराङ्गत आरभ्य दृष्टिवादपर्यन्तं द्वादश-अङ्गसूत्रस्वरूप-जैनागमानां नामानि । त्रिपदीप्राप्त्यनन्तरं एकादशाभिरपि गणधरैः तानि सूत्राणि विरचितानि । ८. स्थानांकं - खं. १-२-३-४ । ९. ०त्तरोत्पाददशात्रयम् खं. ३. । १०. त्रिपद्यां खं. १ । ११. 'उत्पाद' इत्यारभ्य 'लोकबिन्दुसार' पर्यन्तं 'चतुदर्शपूर्व'नामकश्रुतग्रन्थानां नामानि ।