________________
पञ्चमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
मिथ्या तद् देशप्रत्यक्षो जीवः सर्वशरीरिणाम् । तद्गुणानामीहादीनां प्रत्यक्षत्वात् स्वसंविदा ॥११५॥ देहेन्द्रियातिरिक्तः स इन्द्रियाऽपगमेऽपि यत् । इन्द्रियार्थान् संस्मरति मरणं च प्रपद्यते ॥११६॥ इति स्वामिगिरा च्छिन्नसंशयो विमुखो भवात् । पर्यव्राजीद्वायुभूतिः शिष्यपञ्चशतीयुतः ॥११७॥ [[व्यक्तोऽप्यचिन्तयद्व्यक्तं सर्वज्ञो भगवानयम् । इन्द्रभूत्यादयो येन जिता वेदा इव त्रयः ॥११८॥ ममापि संशयं छेत्ता निश्चितं भगवानयम् । ततः शिष्यीभविष्यामि ध्यात्वैवं सोऽप्यगात् प्रभुम् ॥ ११९ ॥ ( युग्मम् ) तमप्युवाच भगवान् भो व्यक्त ! तव चेतसि । नहि भूतानि विद्यन्ते पृथ्व्यादीनीति संशयः ॥ १२०॥ तेषां तु प्रतिपत्तिर्या सा भ्रमाज्जलचन्द्रवत् । सर्वशून्यत्वमेवेदर्मिति ते दृढ आशयः ॥१२१॥ तन्मिथ्या सर्वशून्यत्वपक्षे भुवनविश्रुताः । स्युः स्वप्नाऽस्वप्न - गन्धर्वपुरेतरभिदा न हि ॥१२२॥ इत्थं च च्छिन्नसन्देहो व्यक्तोऽपि व्यक्तवासनः । परिवव्राज शिष्याणां शतैः पञ्चभिरन्वितः ॥१२३॥ [उपाध्यायः सुधर्माऽपि संशयच्छेदवाञ्छया । समाययौ महावीरमतुच्छालोकभास्करम् ॥१२४॥ तमप्यजल्पद्भगवान् सुधर्मंस्तव धीरियम् । यादृगत्र भवे देही तादृक् परभवेऽपि हि ॥ १२५ ॥ कार्यं हि कारणस्याऽनुरूपं भवति संसृतौ । न ह्युप्ते कलमबीजे प्ररोहति यवाङ्कुरः ॥१२६॥ तन्न युक्तं यद्भवेऽस्मिन् यो मृदुत्वाऽऽर्जवादिभिः । नरः कर्म नरायुष्कं बध्नाति स पुनर्नरः ॥१२७॥ मायादियुक् पशुर्यस्तु स प्रेत्याऽपि पशुः खलु । कर्माधीना समुत्पत्तिस्तन्नानात्वं च॑ जन्मिनाम् ॥१२८॥ सदृशं कारणस्यैव कार्यमित्यप्यसङ्गतम् । शृङ्गप्रभृतिकेभ्योऽपि शरादीनां प्ररोहणात् ॥१२९॥ इत्याकर्ण्य सुधर्माऽपि पञ्चशिष्यशतीयुतः । प्रव्रज्यामाददे पाभर्वे स्वामिपादारविन्दयोः ॥१३०॥ [मण्डिकोऽपि जगामाऽथ स्वामिनं संशयच्छिदे । स्वाम्यप्युवाच तं बन्धमोक्षयोस्तव संशयः ॥१३१॥ तदसद् बन्धमोक्षौ हि प्रसिद्धौ तत्र चाऽऽत्मनः । मिथ्यात्वादिकृतः कर्मसम्बन्धो बन्ध उच्यते ॥ १३२॥ रज्जुबद्ध इव श्वभ्र-तिर्यग् - नृ - सुरभूमिषु । दुःखं तेनाऽनुभवति प्राणी परमदारुणम् ॥१३३॥ ज्ञान-दर्शन-चारित्र-प्रमुखैर्हेतुभिस्तु यः । वियोगः कर्मणां ज्ञेयः स मोक्षोऽनन्तशर्मदः ॥१३४॥ अप्यनादिमिथः सिद्धयोगानां जीव - कर्मणाम् । ज्ञानादिना स्याद्वियोगोऽग्निना स्वर्णा - ऽश्मनामिव ॥ १३५ ॥ इति स्वामिगिरा च्छिन्नसंशयो मण्डिकोऽपि हि । सार्धत्रिशत्या शिष्याणां सहितो व्रतमाददे ॥१३६॥ [[मौर्यपुत्रोऽपि सन्देहच्छिदे स्वामिनमाययौ । स्वाम्यप्यूचे मौर्यपुत्र ! तव देवेषु संशयः ॥१३७॥
स मिथ्या, पश्य नन्वेतान् प्रत्यक्षमपि नाकिनः । अस्मिन् समवसरणे शक्रादीन् स्वयमागतान् ॥१३८॥ सङ्गीतकादिवैयग्र्यान्मर्त्यगन्धाच्च दुःसहात् । नाऽऽयान्ति शेषकालेऽमी तदभावो न तावता ॥१३९॥ अर्हज्जन्माभिषेकादावायान्ति यदमी भुवि । प्रभावः कारणं तत्र गरीयान् श्रीमदर्हताम् ॥ १४०|| इति स्वामिगिरा बुद्धो मौर्यपुत्रोऽपि तत्क्षणम् । परिवव्राज शिष्याणां सार्धं साधैः शतैस्त्रिभिः ॥१४१॥ यावकम्पितोऽपीशमीशोऽवोचदकम्पितं । । न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः ॥ १४२ ॥
७१
१. ०मेवैव० मु., नू. मु. । २. ०पक्षे च भुवि वि० खं. ४ । ३. हि खं. ४ । ४. शरो घासविशेषः । ५. मण्डको० खं. ४ । ६. मण्डको० खं. १-२-४ । ७. ०मीशं जिनोऽवो० खं. ४ । ८. दकम्पितम् खं. १-२ ।