________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
यच्छुद्धमुद्गमोत्पादैषणाभिर्गुणसंयुतम् । गृहीतं संदहिंसायै तद्धि ग्राह्यं विवेकिनो ॥८७॥ ज्ञान-दर्शन-चारित्राऽऽचारशक्तिसमन्वितः । आद्यन्तमध्येष्वमूढः समयार्थं हि साधयेत् ॥८८॥ ज्ञानाऽवलोकहीनो यस्त्वभिमानधनः पुमान् । अस्मिन् परिग्रहाऽऽशङ्कां कुरुते स हि हिंसकः ॥८९॥ परिग्रहधियं धत्ते धर्मोपकरणेऽपि यः । बालानविदिततत्त्वान् स रञ्जयितुमिच्छति ॥९०॥ जल-ज्वलन-वायू-र्वी-तरु - त्रसतया बहून् । जीवांस्त्रातुं कथमलं धर्मोपकरणं विना ? ॥९१॥ गृहीतोपकरणोऽपि करणत्रयदूषितः । असन्तुष्टः स्वैमात्मानं प्रतारयति केवलम् ॥९२॥ इन्द्रभूतिर्विभाव्यैवं शिष्याणां पञ्चभिः शतैः । समं जग्राह धर्मोपकरणं त्रिदशार्पितम् ॥९३॥ प[तं च श्रुत्वा प्रव्रजितमग्निभूतिरचिन्तयत् । तेनेन्द्रजालिकेनेन्द्रभूतिर्नूनं प्रतारितः ॥९४॥ गत्वा जयाम्यसर्वज्ञमपि सर्वज्ञमानिनम् । आनयामि भ्रातरं स्वं माययैव पराजितम् ॥९५॥ सर्वशास्त्ररहस्यज्ञमिन्द्रभूतिं महामतिम् । कोऽलं जेतुं विना मायां ? माया जैत्री त्वा ॥९६॥ स चेन्मे संशयं ज्ञाता छेत्ता च हृदयस्थितम् । तदाऽहमपि तच्छिष्यः सशिष्योऽपीन्द्रभूतिवत् ॥९७॥ अग्निभूतिर्विमृश्यैवं पञ्चशिष्यशताऽऽवृतः । ययौ समवसरणे तस्थौ चोपजिनेश्वरम् ॥९८॥ q[तमालपत् प्रभुर्विप्राऽग्निभूते ! गोतमान्वय ! । अस्ति वा नास्ति किं कर्मेत्येष ते संशयो हृदि ? ||९९|| प्रत्यक्षादिप्रमाणानामगम्यं कर्म मूर्तिमत् । कथङ्कारं स बध्नीयाज्जीवो मूर्तत्ववर्जितः ? ॥१००॥ उपघाताऽनुग्रहाश्च कथं मूर्तेन कर्मणा । जीवस्य स्युरमूर्तस्येत्याशङ्का हि मुधैव ते ॥ १०१ ॥ प्रत्यक्षं कर्माऽतिशयज्ञानिनां त्वादृशां पुनः । अनुमानाभिगम्यं तज्जीववैचित्र्यदर्शनात् ॥१०२॥ कर्मणामेव वैचित्र्याद्भवन्ति च शरीरिणाम् । सुखदुःखादयो भावास्तत्कर्माऽस्तीति निश्चिनु ॥१०३॥ तथाहि स्युर्नृपाः केऽपि हस्त्यश्वरवाहनाः । केचित्त्वत्र भवे पादचारिणो निरुपानहः ||१०४|| सहस्रकुक्षिम्भरयो भवन्त्येके महर्द्धयः । भिक्षया स्वोदरमपि पूरयन्त्यपरे पुनः ॥१०५॥ देशकालादितुल्यत्वेऽप्येकस्य व्यवहारिणः । भूयिष्ठो जायते लाभो मूलनाशोऽपरस्य तु ॥ १०६ ॥ एवंविधानां कार्याणां ज्ञेयं कर्मैव कारणम् । न विना कारणं कार्यवैचित्र्यमुपजायते ॥१०७॥ मूर्तानां कर्मणां जीवेनाऽमूर्तेन च सङ्गमः । समीचीनः सोऽपि नूनमाकाश - घटयोरिव ॥ १०८ ॥ उपघाताऽनुग्रहाश्च नानाविधसुरौषधैः । अमूर्तेऽपि भवन्तीति निरवद्यमंदोऽपि हि ॥१०९ ॥ एवं च स्वामिना च्छिन्नसंशयस्त्यक्तमत्सरः । अग्निभूतिः प्रवव्राज शिष्यपञ्चशतीयुतः ॥ ११० ॥ [[तस्मिन्नपि प्रव्रजिते वायुभूतिर्व्यचिन्तयत् । जितौ मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः ॥१११॥ तदेतस्य भगवतोऽभ्यर्हणा - वन्दनादिभिः । धौतकल्मषकालुष्यः स्यां छिनद्मि च संशयम् ॥ ११२ ॥ एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च । स्वाम्यप्युवाच जीवः स तद्वपुश्चेति ते भ्रमः ॥११३॥ प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि । जलबुद्बुदवत् सोऽङ्गे मूर्च्छतीति तवाऽऽशयः ॥११४॥
७०
[ दशमं पर्व
१. तदहिं० मु. । २. विवेकिनः मु. । ३. ०ष्वमूढसम० मु., नू. मु. । ४. मनो-वचन-कायाः करणत्रयम् । ५. स आत्मानं मु. । ६. मूर्तित्व० खं. १ । ७. केचितत्र मु., नू. मु. । ८. ० गौषधैः खं. १-२ । ९. ०मतोऽपि खं. १-२ ।