________________
पञ्चमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । वत्सदेशे तुङ्गिकाऽऽख्ये सन्निवेशे द्विजन्मनः । दत्तस्य सूनुर्मेतार्यो वसणाकुक्षिभूरभूत् ॥५८।। तथा पुरे राजगृहे बलनाम्नो द्विजन्मनः । प्रभासो नाम पुत्रोऽभूदतिभद्रोदरोद्भवः ॥५९।। एकादशापि तेऽभूवंश्चतुर्वेदाब्धिपारगाः । गौतमाद्या उपाध्यायाः पृथक् शिष्यशतैर्वृताः ॥६०॥ विप्रः पुर्यामपापायां यष्टुमाढ्योऽथ सोमिलः । आनिनाय श्रद्धया तान् यज्ञकर्मविचक्षणान् ॥६१।। पातदा च तत्र समवसृतं वीरं विवन्दिषून् । सुरानापततः प्रेक्ष्य बभाषे गौतमो द्विजान् ॥६२।। मन्त्रेणाऽस्माभिराहूताः प्रत्यक्षा नन्वमी सुराः । इह यज्ञे समायान्ति प्रभावं पश्यत क्रतोः ॥६३|| त्यक्त्वा चण्डालवेश्मेव यज्ञवाट सुरेषु तु । प्रति समवसरणं यात्सु लोकोऽब्रवीदिति ॥६४॥ उद्याने समवसृतः सर्वज्ञोऽतिशयान्वितः । तं वन्दितुं सुराः यान्ति पौराश्चाऽमी प्रमोदिनः ॥६५।। सर्वज्ञ इत्यक्षराणि श्रुत्वाऽऽक्रोशमिवोच्चकैः । इन्द्रभूतिः प्रकुपितः स्वानेवमवदज्जनान् ॥६६।। मां त्यक्त्वा किममी यान्ति पाखण्डिनममुं जनाः ? । त्यक्त्वा चूतमिवाऽविज्ञाः करीरं मरुमानुषाः ॥६७|| ममाऽपि पुरतोऽत्राऽस्ति सर्वज्ञ इति कोऽपि किम् ? । पञ्चाननस्य न ह्यग्रे भवत्यन्यः पराक्रमी ॥६८॥ मनुष्या यद्यमी मूर्खा यान्त्येनं यान्तु तन्ननु । देवाः कथममी यान्ति दभ्भः कोऽप्यस्य तन्महान् ॥६९।। यादृशो वैष सर्वज्ञो देवा अपि हि तादृशाः । यदि वा यादृशो यक्षो जायते तादृशो बलिः ॥७०॥
अस्य सर्वज्ञतादर्पमसावपहराम्यहम् । देवानां मानवानां च पश्यतामेव संप्रति ॥७१।। पासोऽहंकारादुदीर्यैवं शिष्यपञ्चशतीवृतः । ययौ समवसरणे वीरं सुरनरावृतम् ।।७२॥ तत्रद्धि स्वामिनः प्रेक्ष्य रूपं तेजश्च तादृशम् । किमेतदिति साश्चर्य इन्द्रभूतिरवास्थितः ॥७३|| भो गौतमेन्द्रभूते ! किं तव स्वागतमित्यथ । सुधामधुरया वाचा तं बभाषे जगद्गुरुः ॥७४।। गौतमोऽचिन्तयन्मेऽसौ गोत्रं नाम च वेत्ति किम् ? जगत्प्रसिद्धमथवा को जानाति न मामिह ? ॥७५॥ संशयं हृदयस्थं मे भाषते च छिनत्ति च । यद्यसौ ज्ञानसम्पत्त्या तदाऽऽश्चर्यकरः खलु ॥७६।। इत्यन्त:संशयधरं तमूचे परमेश्वरः । अस्ति जीवो न वेत्युच्चैर्विद्यते तव संशयः ? ||७|| अस्त्येव जीवः स पुनर्जेयो गौतम ! लक्षणैः । चित्त-चैतन्य-विज्ञान-संज्ञाप्रभृतिभिः खलु ॥७८।। न जीवोऽवस्थितश्चेत्स्याद्भाजनं पुण्यपापयोः । यागदानादिकं तर्हि किंनिमित्तं तवाप्यहो ! ? ॥७९।। पाइति स्वामिवचः श्रुत्वा मिथ्यात्वेन सहैव सः । उज्झाञ्चकार सन्देहं स्वामिनं प्रणनाम च ॥८०॥ ऊचे च त्वत्परीक्षार्थं दुर्बुद्धिरहमागमम् । उत्तुङ्गवृक्षमुटुक्तः प्रमातुमिव वामनः ॥८१॥ बोधितोऽस्मि त्वया साधु दुष्टोऽप्येषोऽहमद्य तत् । भवाद्विरक्तं प्रव्रज्यादानेनाऽनुगृहाण माम् ॥८२।।
आद्यं गणधरं ज्ञात्वा भाविनं तं जगद्गुरुः । स्वयं प्रव्राजयामास पञ्चशिष्यशतीयुतम् ॥८३।। पाउपनीतं कुबेरेण धर्मोपकरणं ततः । त्यक्तसङ्गोऽप्याददानो गौतमोऽथेत्यचिन्तयत् ॥८४॥ निरवद्यव्रतत्राणे यदेतदुपयुज्यते । वस्त्रपात्रादिकं ग्राह्यं धर्मोपकरणं हि तत् ॥८५।। छद्मस्थैरिह षड्जीवनिकाययतनापरैः । सम्यक् प्राणिदयां कर्तुं शक्येत कथमन्यथा ? ॥८६।।
१. गोतमा० खं. ४ । २. यष्टुकामो० मु. । ३. धिगमी मु. । ४. मानुषा मु. । ५. स्थित मु., नू. मु. ।