________________
६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व स्पृहयन्ति त्वद्योगाय यत्तेऽपि लर्वसत्तमाः । योगमुद्रादरिद्राणां परेषां तत्कथैव का ? ॥२९॥ त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः किमु कुर्महे ॥३०॥ स्वयं मलीमसाचारैः प्रतारणपरैः परैः । वञ्च्यते जगदप्येतत् कस्य पूत्कुर्महे पुरः ? ॥३१॥ नित्यमुक्ताञ्जगजज्जन्म-स्थेम-क्षयकृतोद्यमान् । वन्धास्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ? ॥३२॥ कृतार्था जठरोपस्थदुस्थितैरपि दैवतैः । भवादृशान्निह्नवते ह हा ! देवाऽऽस्तिकाः परे ॥३३॥ खपुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥३४|| कामराग-स्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥३५।। प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥३६॥ तिष्ठेद्वायुवेदद्रिलेज्जलमपि क्वचित् । तथापि ग्रस्तो रागाद्यैर्नाऽऽप्तो भवितुमर्हति ॥३७॥" इत्यभिष्टुत्य विरते बिडौजसि जगद्गुरुः । सर्वभाषाजुषा वाचा विदधे देशनामिति ॥३८॥ पाअहो ! अपारः संसार: सरस्वानिव दारुणः । कारणं तस्य कर्मैव हन्त बीजं तरोरिव ॥३९|| कर्मणा स्वकृतेनैव विवेकपरिवर्जितः । कूपकार इवाऽधस्ताद् गतिमाप्नोति देहभृत् ॥४०॥ अप्यूर्ध्वगतिमाप्नोति निजेनैव हि कर्मणा । प्रासादकारक इव शरीरी विशदाशयः ॥४१॥ प्राणातिपातं नो कुर्यात् कर्मबन्धनिबन्धनम् । स्वप्राणवत् परप्राणपरित्राणपरो भवेत् ॥४२।। न मृषा जातु भाषेत किं तु भाषेत सूनृतम् । परपीडां परिहरन्नात्मपीडामिवाङ्गवान् ॥४३।। अदत्तं नाऽऽददीतार्थं बाह्यप्राणोपमं नृणाम् । अर्थं हि हरता तेषां वध एव कृतो भवेत् ॥४४|| मैथुनं न विदध्याच्च बहुजीवोपमर्दकम् । ब्रह्मैव कुर्यात् तत् प्राज्ञः परब्रह्मनिबन्धनम् ॥४५॥ परिग्रहं न कु र्याच्च परिग्रहवशेन हि । गौरवाऽधिकभारेण विधुरो निपतत्यधः ॥४६।। एतान् प्राणातिपातादीन् सूक्ष्मांस्त्यक्तुं न चेत् क्षमाः । त्यजेयुर्बादरांस्तर्हि सूक्ष्मत्यागेऽनुरागिणः ॥४७|| इत्थं च देशनां भर्तुः शृण्वन्तोऽवहिता जनाः । तस्थुरानन्दनिस्पन्दा आलेख्यलिखिता इव ॥४८॥ पाइतश्च मगधदेशे गोवरग्रामनामनि । ग्रामे गोतमगोत्रोऽभूद्वसुभूतिरिति द्विजः ॥४९॥ तस्येन्द्रभूत्यग्निभूतिवायुभूत्यभिधाः सुताः । पन्यां पृथिव्यामभवंस्तेऽपि गोत्रेण गोतमाः ॥५०॥
कोल्लाकेऽभूद्धनमित्रो धम्मिल्लश्च द्विजस्तयोः । पुत्रौ व्यक्तः सुधर्मा च वासणी-भद्रिलाभवौ ॥५१॥ qाधनदेवश्च मौर्यश्च मौर्याख्ये सन्निवेशने । द्वावभूतां द्विजन्मानौ मातृष्वप्रेयको मिथः ॥५२॥ पन्यां विजयदेवायां धनदेवस्य नन्दनः । मण्डिकोऽभूत्तत्र जाते धनदेवो व्यपद्यत ॥५३।। लोकाचारो ह्यसौ तत्रेत्यभार्यो मौर्यकोऽकरोत् । भार्यां विजयदेवां तां देशाचारो हि न ह्रिये ॥५४॥ क्रमाद्विजयदेवायां मौर्यस्य तनयोऽभवत् । स च लोके मौर्यपुत्र इति नाम्नैव पप्रथे ॥५५।। तथैव मिथिलापुर्यां देवनाम्नो द्विजन्मनः । अभूदकम्पितो नाम जयन्तीकुक्षिजः सुतः ॥५६।। अभूच्च कोशलापुर्यां वसुनाम्नो द्विजन्मनः । सूनुर्नाम्नाऽचलभ्राता नन्दाकुक्षिसमुद्भवः ॥५७॥
१. अनुत्तरेत्यभिधदेवविमानवासिनो देवाः । २. किन्नु मु. नू. मु. । ३. बन्ध्यते खं. ४ । ४. समुद्रः । ५. निस्यन्दा मु. । ६. मगधे मु. नू. मु. । ७. गोर्वर० खं. १-२ । ८. गौतम० मु. । ९. गोत्रे० खं. ३ । १०. ०द्धनुर्मित्रो मु., नू. मु.। ११. मातृष्वसुः पुत्रौ । १२. मण्डको० मु. । १३. विमलापुर्यां मु. । १४. कौशला० खं. १ ।