________________
पञ्चमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । ॥ अथ पञ्चमः सर्गः ॥
जगन्नाथोऽथ तत्रर्जुपालिकोत्तररोधसि । श्यामाकनाम्नो गृहिणः क्षेत्रे सालतरोस्तले ॥१॥ अव्यक्तचैत्यस्याऽऽसन्ने षष्ठेनोत्कटिकासनी । मुहूर्ते विजये स्वामी तस्थावातापनापरः ॥२॥ (युग्मम्) शुक्लध्यानान्तरस्थस्य क्षपकश्रेणिवर्तिनः । स्वामिनो घातिकर्माणि तुत्रुटुर्जीर्णरज्जुवत् ॥३॥
वैशाखश्वेतदशम्यां चन्द्रे हस्तोत्तरागते । यामे चतुर्थेऽह्रो भर्तुरुदपद्यत केवलम् ||४|| पाविज्ञायाऽऽसनकम्पेन केवलज्ञानमीशितुः । इन्द्राः सह सुरैस्तत्र समाजग्मुः प्रमोदिनः ॥५॥ केऽप्युत्पेतुः केऽपि पेतुर्ननृतुः केऽपि केऽपि च । जहसुः केऽपि च जगु—च्चक्रुः केऽपि सिंहवत् ॥६।। केऽप्यश्ववदहेषन्त बबूंहुः केऽपि हस्तिवत् । रथवत् केऽपि चीच्चक्रुः पूच्चक्रुः केऽपि नागवत् ॥७॥ स्वामिनः केवलोत्पत्त्या हृष्टात्मानोऽपरेऽपि हि । चतुर्विधा दिविषदो विविधं विचिचेष्टिरे ॥८॥ प्रतिवप्रं चतुरं वप्रत्रितयभूषितम् । चक्रुः समवसरणं यथाविधि दिवौकसः ॥९॥ न सर्वविरतेरर्हः कोऽप्योति विदन्नपि । कल्प इत्यकरोत्तत्र निषण्णो देशनां विभुः ॥१०॥ पातत्तीर्थजन्मा मातङ्गो यक्षः करिरथोऽसितः । बीजपूरं भुजे वामे दक्षिणे नकुलं दधत् ॥११॥ सिद्धायिका तथोत्पन्ना सिंहयाना हरिच्छविः । समातुलिङ्गवल्लक्यौ वामबाहू च बिभ्रती ॥१२॥ पुस्तकाऽभयदौ चोभौ दधाना दक्षिणौ भुजौ । अभूतां ते प्रभोनित्याऽऽसन्ने शासनदेवते ॥१३।। (त्रिभिर्विशेषकम्) पाउपकारार्हलोकानामभावात्तत्र च प्रभः । परोपकारैकपर: प्रक्षीणप्रेमबन्धनः ॥१४॥ तीर्थकृन्नामगोत्राऽऽख्यं कर्म वेद्यं महन्मया । भव्यजन्तुप्रबोधेनाऽनुभाव्यमिति भावयन् ॥१५॥ धुसन्निकायकोटीभिरसंख्याताभिरावृतः । सुरैः संचार्यमाणेषु स्वर्णाब्जेषु दधत् क्रमौ ॥१६।। स्फुटे मार्गे दिन इव देवोद्योतेन निश्यपि । द्वादशयोजनावानं भव्यसत्त्वैरलङ्कृताम् ॥१७||
गौतमाद्यैः प्रबोधाभूरिशिष्यसमावृत्तैः । यज्ञाय मिलितैर्जुष्टमपापामगमत् पुरीम् ॥१८॥ (पञ्चभिः कुलकम्) पातस्या अदूरे पुर्याश्च महासेनवनाभिधे । उद्याने चारुसमवसरणं विबुधा व्यधुः ॥१९॥ सञ्जातसर्वातिशयः स्तूयमानः सुरासुरैः । पूर्वद्वारेण समवसरणं प्राविशत् प्रभुः ॥२०॥ द्वात्रिंशद्धनुरुत्तुङ्गं रत्नच्छन्दच्छदिर्निभम् । ततः प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः ॥२१॥ नमस्तीर्थायेत्युदित्वा पालयन्नार्हतीं स्थितम् । सपादपीठे न्यषदत् पूर्वसिंहासने प्रभुः ॥२२।। स्वामिनः प्रतिरू पाणि तन्महिम्नैव नाकिनः । विचक्रिरे भक्तिमन्तस्तिसृष्वन्यासु दिक्ष्वपि ॥२३॥ यथाद्वारं प्रविश्याऽथ यथास्थित्यवतस्थिरे । पश्यन्तः स्वामिवदनं सर्वे सुरनरादयः ॥२४॥ नमस्कृत्य जगन्नाथं घुसन्नाथः कृताञ्जलिः । रोमाञ्चितवपुर्भक्त्या स्तोतुमेवं प्रचक्रमे ॥२५॥ पा“लावण्यपुण्यवपुषि त्वयि नेत्राऽमृताञ्जने । माध्यस्थ्यमपि दौस्थ्याय किं पुनर्वृषविप्लव: ? ॥२६॥ तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्याऽपि किं जीवन्ति विवेकिनः ? ॥२७॥ विपक्षस्ते विरक्तश्चेत् स त्वमेवाऽथ रागवान् । न विपक्षो, विपक्षः किं खद्योतो द्युतिमालिनः ? ॥२८॥
१. शाल० खं. १-२ विना, मु., नू. मु. । २. चैत्यस्थितो देवो न व्यक्तः । ३. विदन्निति खं. ४ । ४. हरित् छविर्यस्याः सा । ५. 'बाहौ' खं. ४ टि. । ६. ०नाध्वानां मु., नू. मु. । ७. गोतमा० खं. २-३-४ । ८. ०च्छविनिभम् मु. । ०च्छविर्निभम् नू. मु. ।