________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व कीलद्वयं सरुधिरं निर्ययौ कर्णरन्ध्रयोः । अवशिष्टं वेदनीयं कर्म साक्षादिव प्रभोः ॥६४३|| तथाऽभूद्वेदना कीलकर्षणेन यथा प्रभुः । ररास भैरवारावं वज्राहत इवाऽचलः ॥६४४।। नाऽस्फुटत् स्वामिमाहात्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः ॥६४५।। संरोहण्या रोहयित्वा कर्णौ नाथं प्रणम्य च । क्षमयित्वा च सिद्धार्थ-खरको गृहमीयतुः ॥६४६॥ वेदनामपि तौ भर्तुः कृतवन्तौ शुभाशयौ । बभूवतुः सुरलोकश्रीभाजनमुभावपि ॥६४७|| दुष्टाशयस्तु गोपालो विधाय स्वामिवेदनाम् । सप्तमावनिदुःखानां भाजनं समजायत ॥६४८॥ स्वामिनो भैरवारावान्महाभैरवमित्यभूत् । तदुद्यानं तत्र देवकुलं च विदधे जनैः ॥६४९।। पाएवं श्रीवीरनाथस्योपसर्गेष्वखिलेष्वपि । जघन्येषूत्कृष्टं कटपूतनाशीतमुत्कटम् ॥६५०॥
कालचक्रं मध्यमेषूत्कृष्टेषूद्धरणं त्विदम् । गोपारब्धा उपसर्गा गोपेनैव च निष्ठिताः ॥६५१॥ (युग्मम्) पाचतुर्मासक्षपणानि नव द्विमासिकानि षट् । मासिकानि द्वादशाऽर्धमासिकानि द्विसप्ततिः ॥६५२।। एकं पाण्मासिकं द्वे त्रिमासे द्वे सार्धमासिके । सार्धद्विमासिके द्वे च भद्रादिप्रतिमात्रयम् ॥६५३।। महानगर्यां कौशाम्ब्यामभिग्रहसमन्वितम् । अहोभिः पञ्चभियूँनमेकं षाण्मासिकं तथा ॥६५४॥ प्रतिमाश्चैकरात्रिक्यो द्वादशाष्टमभक्ततः । चरमायां विभावाँ कायोत्सर्गसमन्विताः ॥६५५।। एकोनत्रिंशदधिके द्वे च षष्ठशते प्रभोः । नित्यभक्तं चतुर्थं च बभूव न कदाचन ॥६५६॥ प्रभोरेकोनपञ्चाशं पारणाहशतत्रयम् । व्रताहश्चेत्यभूत् सार्धा द्वादशाब्दी सपक्षिका ॥६५७।। कृत्वा तपो जलविहीनमशेषमित्थं
छद्मस्थ एव विहरन् विजितोपसर्गः । स्वामी जगाम ऋजुपालिकया महत्या
नद्या सनाथमथ जृम्भकसन्निवेशम् ॥६५८॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि
श्रीमहावीरद्वितीयसाग्रषड्वार्षिकछद्मस्थविहारवर्णनो नाम चतुर्थः सर्गः ॥
Kvk
१. व्रताहाच्चेत्य० मु., नू. मु. । २. सर्गः समाप्तः खं. १ ।