________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पाचतुर्मासात्यये स्वामी जृम्भकग्राममाययौ । तत्र नाट्यविधिं शक्रो दर्शयित्वाऽब्रवीदिति ॥६१४।। जगद्गुरो ! कतिपयैरद्यप्रभृति वासरैः । उत्पस्यतेऽत्र भवतः केवलज्ञानमुज्ज्वलम् ॥६१५।। इत्युदित्वा सुनासीरो वीरं नत्वा ययौ दिवम् । श्रीवीरोऽप्यगमद् ग्रामे मेंढकग्रामनामनि ॥६१६।। चमरेन्द्रस्तत्र चैत्य भगवन्तमवन्दत । पृष्ट्वा सुखविहारं च जगाम भवनं निजम् ॥६१७॥ ग्रामं षण्मानिनामानं जगाम भगवानपि । बहिश्च कायोत्सर्गेण तस्थौ ध्यानपरायणः ॥६१८|| पावेद्यं कर्म तदोदीर्णं प्रभोविष्णुभवाऽजितम् । शय्यापालश्रवःक्षिप्ततप्तत्रपुनिबन्धनम् ॥६१९॥ शय्यापालस्य जीवोऽपि गोपालस्तत्र सोऽभवत् । स्वाम्यन्तिके वृषान्मुक्त्वा गोदोहादिकृते ययौ ॥६२०|| चरन्तः स्वेच्छया ते च प्राविशन्नटवीं वृषाः । क्षणात् सोऽप्याययौ गोपोऽपश्यन्नुक्ष्णोऽवदत् प्रभुम् ॥६२१॥ देवार्य ! क्व ममोक्षाणः ? किं न ब्रूषे मुनिब्रुव ! ? । न शृणोषि वचः किं वा ? कर्णरन्ध्रे वृथैव तत् ॥६२२।। अवादिनि प्रभावेवमत्यन्तकु पितोऽथ सः । अक्षिपत् काशशलाके स्वामिनः कर्णरन्ध्रयोः ॥६२३।। शलाके ताडिते तेन तथा ते मिलिते मिथः । अखण्डैकशलाकत्वं बिभरांचक्रतुर्यथा ॥६२४॥ मा कृक्षत् कीलकावेतौ कोऽपीति स्वधिया कुधीः । तत्कीलकबहिर्भागं छित्त्वा गोपालको ययौ ॥६२५।। प्रनष्टमाया-मिथ्यादिशल्योऽपि श्रुतिशल्यभाक् । अकम्पितः शुभध्यानादपापां मध्यमां ययौ ॥६२६।। पापारणार्थं प्रभुस्तत्र सिद्धार्थवणिजो गृहे । जगाम भगवांस्तेन भक्त्या च प्रतिलाभितः ॥६२७|| पूर्वायातस्तत्र वैद्यः सिद्धार्थस्य सुहृत्प्रियः । खरकाख्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरब्रवीदिदम् ॥६२८॥ अहो भगवतो मूर्तिः सम्पूर्णा सर्वलक्षणैः । परं शल्यवती चेयं म्लानत्वेनोपलक्ष्यते ॥६२९॥ सिद्धार्थः संभ्रमादूचे यद्येवं तन्निरूपय । सम्यग्भगवतो देहे क्व शल्यं हन्त तिष्ठति ? ॥६३०॥ वैद्योऽपि निपुणं पश्यन्नखिलं स्वामिनो वपुः । ददर्श कर्णयोः कीलौ सिद्धार्थस्याऽप्यदर्शयत् ॥६३१॥ सिद्धार्थोऽथाऽवदत् केनाप्यपवादादभीरुणा । नरकादप्यभीतेन चक्रेऽद: कर्म दारुणम् ॥६३२।। कृतं वा तस्य पापस्य कथयाऽप्यनया सखे ! । नाथस्य शल्योद्धाराय प्रयतस्व महामते ! ॥६३३|| स्वामिनः कर्णयोः शल्ये पीडा तु महती मम । विलम्बं न सहेऽत्रार्थे सर्वस्वमपि यातु मे ॥६३४॥ कर्णाभ्यां विश्वनाथस्योद्धृतयोरिह शल्ययोः । मन्ये भवमहाम्भोधेरावामेव समुद्धृतौ ॥६३५।। वैद्योऽप्युवाच नाथोऽयं विश्ववाणक्षयक्षमः । कर्मक्षयायोपैक्षिष्ट तं नाऽशक्त्याऽपकारिणम् ॥६३६।। कथं चिकित्सनीयोऽयं निरपेक्षो वपुष्यपि । यः कर्मनिर्जरालुब्धो वेदनां साधु मन्यते ? ॥६३७|| सिद्धार्थोऽप्यवदत् केयं वाचोयुक्तिस्तवाऽधुना ? । न कालो वचसामेषां चिकित्स्यो भगवान् खलु ॥६३८।। तयोर्बुवाणयोरेवं निरपेक्षः प्रभुर्ययौ । तस्थौ च बहिरुद्याने शुभध्यानपरायणः ॥६३९।। पासिद्धार्थ-खरको तौ च गृहीत्वा भेषजादिकम् । तत्रोद्याने त्वरावन्तौ भगवन्तमुपेयतुः ॥६४०॥ तैलद्रोण्यां विनिवेश्य तैलेनाऽभ्यज्य च प्रभुम् । संवाहकैर्बलीयोभिस्तावमर्दयतामथ ॥६४१।। श्रलथेषु मर्दनात् सन्धिष्वोजस्विपुरुषैः प्रभोः । संदंशाभ्यामकृष्येतां युगपत् कर्णकीलकौ ॥६४२॥
१. चतुर्मास्यत्यये मु. नू. मु. । २. श्रवः कर्णः । ३. कुत्सितमुने ! । ४. काशनामको घासः, तस्य शलाके । ५. कीलिका० खं. १ । ६. प्रणष्ट० मु., नू. मु. । ७. प्रतिशल्य० खं. ४ ।