________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व पादधिवाहनराजस्य संपुलो नाम कञ्चुकी । चम्पावस्कन्द आनीतो राज्ञा मुक्तस्तदैव हि ॥५८६॥ तत्राऽऽयातो वसुमती दृष्टवा तत्पादयोर्नतः । विमुक्तकण्ठमरुदत् सद्यस्तामपि रोदयन् ॥५८७|| किं रोदिषीति राज्ञोक्तः साश्रुः प्रोवाच कञ्चुकी । दधिवाहनराजस्य धारिण्याचेयमात्मजा ॥५८८।। तादृग्विभवविभ्रष्टा पितृभ्यां रहिता च हा ! । इयं वसत्यन्यगृहे दासीवत्तेन रोदिमि ।।५८९॥ राजाऽप्यूचे न शोच्येयं सम्पूर्णाभिग्रहो यया । जगत्त्रयत्राणवीरः श्रीवीरः प्रतिलाभितः ॥५९०॥ मृगावत्यप्यभाषिष्ट धारिणी भगिनी मम । इयं तदुहिता बाला ममापि दुहिता खलु ॥५९१।। पञ्चाहन्यूनषण्मासतप:पर्यन्तपारणम् । कृत्वा धनावहगृहान्निर्ययौ भगवानपि ॥५९२।। पावसुधारामथाऽऽदित्सुं लोभप्राबल्यतो नृपम् । व्याजहार शतानीकं सौधर्माधिपतिः स्वयम् ।।५९३|| नेह स्वस्वामिभावो यद्रत्नवृष्टिं जिघृक्षसि । यस्मै ददाति कन्येयं स एव लभते नृप ! ॥५९४।। गृह्णात्विमां क इत्युक्ता राज्ञा प्रोवाच चन्दना । अयं धनावहः श्रेष्ठी पिता हि मम पालनात् ॥५९५।। जग्राह वसुधारां तां ततः श्रेष्ठी धनावहः । भूयोऽप्याखण्डलोऽवोचच्छतानीकनरेश्वरम् ॥५९६।। बाला चरमदेहेयं भोगतृष्णापराङ्मुखी । भविष्यत्यादिमा शिष्योत्पन्ने वीरस्य केवले ॥५९७|| आस्वामिकेवलोत्पत्ति रक्षणीया त्वया ह्यसौ । इत्युक्त्वा मघवा नाथं नत्वा च त्रिदिवं ययौ ॥५९८|| कन्यकाऽन्तःपुरे निन्ये शतानीकेन चन्दना । सा स्वामिकेवलोत्पत्तिं तत्र ध्यायन्त्यवास्थित ॥५९९॥ अनर्थमूलं मूला च श्रेष्ठिना निरवास्यत । अपध्यानवती साऽथ विपद्य नरकं ययौ ॥६००। पानाथोऽपि विहरन् प्राप ग्रामं नाम्ना सुमङ्गलम् । तस्मिन् सनत्कु मारेन्द्रेणाऽभ्युपेत्याऽभ्यवन्धत ॥६०१।। ततो जगाम भगवान् सुक्षेत्रे सन्निवेशने । तस्मिन्माहेन्द्रकल्पेन्द्रेणैत्य भक्त्याऽनमस्यत ॥६०२॥ नाथोऽथ पालकग्रामे ययौ तत्र त्वदृश्यत । वणिजा भायलाख्येन यात्रायै चलता सता ॥६०३।। असावशकुनं भिक्षुः क्षिपाम्यस्यैव मूर्धनि । इति हन्तुं प्रभुं पापः स कृष्ट्वाऽसिमधावत ॥६०४|| सिद्धार्थव्यन्तरस्तस्य स्वयमेवाऽऽच्छिदच्छिरः । स्वामी च विहरन् प्राप चम्पां नाम महापुरीम् ॥६०५।। तत्राऽग्निहोत्रशालायां स्वातिदत्तद्विजन्मनः । तस्थौ वर्षाचतुर्मासी द्वादशी स्वाम्युपोषितः ॥६०६।। पापर्णभद्र-माणिभदौ यक्षौ तत्र महद्धिकौ । रात्रौ रात्रौ समभ्येत्य पर्यपूजयतां प्रभुम् ॥६०७॥ स्वातिदत्तोऽचिन्तयच्च किमसौ वेत्ति किञ्चन । देवार्यो यदमुं देवाः पूजयन्ति प्रतिक्षपम् ? ॥६०८।। एवं विचिन्त्य जिज्ञासुरेत्य पप्रच्छ स प्रभुम् । देहे शिर:प्रभृत्यङ्गपूर्णे जीवः क उच्यते ? ॥६०९।। स्वाम्यपि व्याहरज्जीवः स योऽहमिति मन्यते । स्वातिदत्तोऽप्युवाचैवं सोऽपि कपिछन्धि संशयम् ॥६१०।। भगवान् श्रीमहावीरः प्रत्यभाषिष्ट भो द्विज ! । शिर:करप्रभृतिभ्यो विभिन्नः स हि सूक्ष्मकः ॥६११॥ स्वातिदत्तद्विजोऽप्यूचे ब्रूहि सूक्ष्मोऽपि को नु सः ? । व्याजहार प्रभुरपि न गृह्येत य इन्द्रियैः ॥६१२।। प्रशनेनाऽनेन विप्रः स ज्ञात्वा तत्त्वविदं प्रभुम् । भक्त्याऽऽनर्च प्रभुणाऽपि स भव्य इति बोधितः ॥६१३।।
१. चम्पोपरि आक्रमणसमये । २. साश्रु मु. । ३. जिघृक्षति खं. ४ । ग्रहीतुमिच्छसि । ४. स्वामिनः केवलोत्पत्तिः कदा स्यादिति चिन्तयन्ती सा स्थिता इत्यर्थः । ५. सत्क्षेत्रे मु. । ६. वायला० नू. मू. । ७. कृष्टासिरधा० खं. ४ । ८. प्रतिक्षणम् खं. ३ ।