________________
६
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । एवं रात्रावप्यपृच्छन्न कोऽप्याख्यत्तथैव च । प्रसुप्ता चन्दनाऽस्तीति चाऽज्ञासीदृजुधी: स तु ॥५५९॥ द्वितीयेऽप्यह्नि नाऽपश्यत्तृतीयेऽपि तथैव ताम् । शङ्काकोपाकुलः श्रेष्ठी प्रोचे परिजनं ततः ॥५६०।। पारे रे ! कथयत क्वाऽस्ति चन्दना मम नन्दना ? । नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि वस्तदा ॥५६१।। श्रुत्वेदं स्थविरा तत्र काचिच्चेटीत्यचिन्तयत् । जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्मम ॥५६२।। कथिते चन्दनोदन्ते किं मूला मे करिष्यति ? एवं विचिन्त्य तामाख्यन्मूला-चन्दनयोः कथाम् ॥५६३।। श्रेष्ठिनोऽदर्शयद् गत्वा चन्दनारोधवेश्म सा । द्वारं चोद्घाटयामास स्वयं श्रेष्ठी धनावहः ॥५६४|| पातत्र च क्षुत्पिपासा" दवस्पृष्टां लतामिव । निगडैर्यन्त्रितामढ्योर्नवात्तां करिणीमिव ॥५६५।। परिमुण्डितमुण्डां च भिक्षुकीमिव चन्दनाम् । अश्रुपूरितनेत्राब्जामीक्षाञ्चक्रे धनावहः ॥५६६॥ (युग्मम्) विश्वस्ता भव वत्से ! त्वमिति जल्पन्नुदश्रुदृक् । तद्भोज्यार्थं रसंवतीं ययौ श्रेष्ठी द्रुतद्रुतम् ॥५६७॥ विशिष्टं तत्र चाऽपश्यन् भोज्यं दैवाद्धनावहः । कुल्माषान् सूर्पकोणस्थांश्चन्दनायै समार्पयत् ॥५६८।। भुञ्जीथास्तावदेतांस्त्वं यावत्त्वन्निगडच्छिदे । कारमानयामीति जल्पित्वा श्रेष्ठ्यगाद् बहिः ॥५६९।। पाचन्दनोर्ध्वस्थिता चैवमचिन्तयदहो ! क्व मे । तस्मिन् राजकु ले जन्म ? क्व चावस्थेयमीदृशी ? ॥५७०।। भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथा भवेत् । स्वानुभूतमिदं मे हि किं संप्रति करोमि हा ! ? ॥५७१॥ षष्ठस्य पारणायाऽमी कुल्माषाः सन्ति संप्रति । यद्यायात्यतिथिस्तस्मै दत्त्वा भुञ्जेऽन्यथा न हि ॥५७२।। एवं विचिन्त्य सा द्वारे ददौ दृष्टिमितस्ततः । तदा चाऽऽगान्महावीरो भिक्षायै पर्यटन् प्रभुः ॥५७३।। अहो ! पात्रमहो ! पात्रमहो ! मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः ॥५७४।। चिन्तयित्वेति साऽचालीद् बाला कुल्माषसूर्पभृत् । एकमहिं न्यधादन्तदेहल्या अपरं बहिः ॥५७५।। निगडैदेहली सा तु समल्लङ्गितमक्षमा । तत्रस्थैवाऽऽर्द्रया भक्त्या भगवन्तमभाषत ॥५७६।। स्वामिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि । परोपकारैकरत ! गृहाणाऽनुगृहाण माम् ॥५७७।। पाद्रव्यादिभेदसंशुद्धं ज्ञात्वा पूर्णमभिग्रहम् । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयत् करम् ॥५७८।।
अहो धन्याऽहमेवेति ध्यायन्ती चन्दनापि हि । चिक्षेप सूर्पकोणेन कु ल्माषान् स्वामिनः करे ॥५७९॥ स्वाम्यभिग्रहसंपूर्त्या प्रीतास्तत्राऽऽययुः सुराः । वसुधाराप्रभृतीनि पञ्च दिव्यानि च व्यधुः ॥५८०।। तुत्रुटुर्निगडास्तस्यास्तत्पदे काञ्चनानि च । जज्ञिरे नूपुराण्यासीत् केशपाशश्च पूर्ववत् ॥५८१॥ सर्वाङ्गीणं च तत्कालं रत्नालङ्कारधारिणी । श्रीवीरभक्तैर्विदधे विबुधैरथ चन्दना ॥५८२।। उत्कृष्टनादं विदधू रोद:कुक्षिभरि सुराः । जगुश्च ननृतुश्चोच्चै रङ्गाचार्या इवोन्मुदः ॥५८३।। पामृगावती-शतानीको सुगुप्तो नन्दया सह । तत्रेयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् ॥५८४||
आययौ देवराजोऽपि शक्रो मुदितमानसः । सम्पूर्णाभिग्रहं नाथं नमस्कर्तुं द्रुतद्रुतम् ॥५८५।।
१. ०तां पद्भ्योर्न० खं. ४ । २. नवगृहीताम् । ३. पाकगृहम् । ४. द्रुतं द्रुतम् खं. १-२ । ५. न पश्यन् । नाऽपश्यत् खं. १-२ । ६. शूर्प० मु. नू. मु. । ७. लोहकारम् । ८. प्रत्यहं द्वे भोजने, एवं च दिनत्रयस्य षड् भोजनानि, तेषां तस्या अभाव: मूलाकृतः, तत्पारणायेत्याशयः । ९. १०. शूर्प० मु. नू. मु. । ११. तु खं. १ । १२. ०भरं खं. ३ । ०भरि: मु. । ०भरि नू. मु. । १३. तत्रैयुः मु. नू. मु. ।।