________________
६२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व भ्रष्टा पितृभ्यां प्राप्तेयं निघृणेनाऽमुनाऽधुना । यूथच्युता कुरङ्गीव लुब्धकेन दुरात्मना ॥५३२।। विक्रेतुं पलवच्चेह स्थापिताऽनेन मूल्यतः । हस्ते हीनस्य कस्यापि हा ! यास्यति वराक्यसौ ॥५३३।। दत्त्वाऽर्थं बहुमप्यस्य गृह्णाम्येतां कृपास्पदम् । पुत्रीमिव निजां हीमां न क्षमोऽहमुपेक्षितुम् ॥५३४|| विनाऽनर्थं मम गृहे तिष्ठन्त्याः क्रमयोगतः । अस्याः स्वजनवर्गेण भविता सङ्गमोऽपि हि ॥५३५।। धनावहो विमृश्यैवं दत्त्वा मूल्यं तदीप्सितम् । निन्ये वसुमती बालां सानुकम्पः स्ववेश्मनि ॥५३६।। पासोऽपृच्छत् स्वच्छधीस्तां च वत्से ! कस्याऽसि कन्यका ? । को वा स्वजनवर्गस्ते ? मा भैषीर्दुहिताऽसि मे ॥५३७।। महत्त्वेन समाख्यातुं स्वकुलं सापि चाऽक्षमा । न किञ्चिदूचेऽस्थात् सायं नलिनीव त्वधोमुखी ॥५३८॥ मूलां च श्रेष्ठिनीमूचे प्रियेऽसौ दुहिताऽऽवयोः । पाल्या लाल्या च तदियमतियत्नेन पुष्पवत् ॥५३९।। एवं श्रेष्ठिगिरा तत्र गेहेऽवात्सीत् स्वगेहवत् । बाला बालेन्दुलेखेव सा नेत्राऽऽनन्ददायिनी ॥५४०|| तस्या विनय-वाक-शीलै रञ्जितश्चन्दनोपमैः । चन्दनेत्यभिधां श्रेष्ठी ददौ परिजनैः सह ॥५४।। ईषच्च यौवनारम्भं करभोरू रवाप सा । राकारात्रिरिवाम्भोधेः श्रेष्ठिनो ददती मुदम् ॥५४२॥ पानिसर्गतो रू पवतीं यौवनेन विशेषतः । निरीक्ष्य चन्दनां मूला दध्यावेवं समत्सरा ॥५४३।। पुत्रीवत् प्रतिपद्याऽपि यद्येतां रूपमोहितः । श्रेष्ठी परिणयेत्तहि जीवन्त्यपि मृताऽस्मि हा ! ॥५४४|| एवं स्त्रैणसुलभेन तुच्छत्वेन दिवाऽनिशम् । तदाप्रभृति ताम्यन्ती तस्थौ मूला दुराशया ॥५४५।। पाग्रीष्मोष्मार्तोऽन्यदा श्रेष्ठी वेश्मन्यागमदापणात् । तदाऽह्रिक्षालको नाऽऽसीत् कोऽपि दैवात् पुरःसरः ॥५४६।। विनीता चन्दनोत्थाय श्रेष्ठिना वारिताऽपि हि । प्रावर्तत क्षालयितुं तत्पादौ पितृभक्तितः ॥५४७।। केशपाशस्तदा तस्याः स्निग्धश्यामलकोमलः । नि:सहाङ्ग्याः परिस्रस्तः क्ष्मातले जलपङ्किले ॥५४८॥ वत्सायाः केशपाशोऽयं मा भूद् भूपङ्कभागिति । लीलायष्ट्योद्दधे श्रेष्ठी तमबध्नाच्च सादरः ॥५४९।। तच्च मूला गवाक्षस्था निरीक्ष्यैवमचिन्तयत् । वितर्कः संवदति स यः पूर्वं कल्पितो मया ॥५५०॥ अस्याः स्वयं केशबन्धः पत्नीत्वस्य निबन्धनम् । प्रथमं श्रेष्ठिनो नूनं नेशी हि पितुः क्रिया ॥५५१।। उच्छेदनीया तदियं मूलाव्याधिरिवोत्थितः । इति निश्चित्य मूलाऽस्थाच्छाकिनीव दुराशया ॥५५२।। पाक्षणं श्रेष्ठ्यपि विश्रम्य पुनरेव बहिर्ययौ । अमुण्डयच्चन्दनां च मूलाऽप्याहूय नापितम् ॥५५३।। पादयोर्निगडान् क्षिप्त्वा चन्दनां बह्वताडयत् । मूला वल्लीमिव वशा विवशा क्रोधरक्षसा ॥५५४|| गृहैकदेशे दूरस्थे मूला न्यधित चन्दनाम् । कपाटसम्पुटं दत्त्वा परिवारमुवाच च ॥५५५।। श्रेष्ठिनः पृच्छतोऽप्येतत् कथनीयं न केनचित् । कथयिष्यति यः कोऽपि मत्कोपाग्नेः स आहुतिः ॥५५६।। एवं नियन्त्रणां कृत्वा मूला मूलगृहं ययौ । श्रेष्ठी च सायमायातोऽपृच्छत् क्व ननु चन्दना ? ॥५५७।। मूलाभयान्न कोऽप्याख्यच्छ्रेष्ठी चैवमबुध्यत । वत्सा मे रमते क्वापि यद्वाऽस्त्युपरि वेश्मनः ॥५५८||
१. मांसवत् । २. नलिनीवदधो० खं. १-२ । ३. समम् खं. ४ । ४. स्त्रैणं-स्त्री । ५. सेवकः । ६. अर्द्धावनतदेहायाः । ७. करिणी । ८. गृहमध्ये इत्याशयः । ९. वेश्मनि खं. ४ ।