________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । धिङ् मां धिक् त्वाममात्यान् धिग् यदत्र परमेश्वरः । अज्ञाताऽभिग्रहोऽनात्तभिक्षस्तस्थावियच्चिरम् ॥५०३।। प्रत्यभाषिष्ट भूपोऽपि साधु साधु शुभाशये ! । प्रमादी शिक्षितोऽस्म्येष स्थाने धर्मविचक्षणे ! ॥५०४॥ विज्ञायाऽभिग्रहं प्रातः कारयिष्यामि पारणम् । विश्वस्वामिनमित्युक्त्वा राज्ञा(जा) सचिवमाह्वत ॥५०५।। पाअमात्यमूचे नृपतिर्मत्पुर्यां त्रिजगद्गुरुः । अनात्तभिक्षश्चतुरो मासांस्तस्थौ धिगत्र नः ॥५०६।। ज्ञातव्योऽभिग्रहो भर्तुः संपूर्याऽभिग्रहं यथा । कारयामि पारणकं जगन्नाथं स्वशुद्धये ॥५०७॥
अमात्योऽप्यब्रवीद् भर्तुर्ज्ञायतेऽभिग्रहो न हि । इति खिद्येऽहमप्युच्चैरुपायः कोऽपि सूत्र्यताम् ॥५०८।। q[अथ राजा समाह्वाय्य नामतस्तथ्यवादिनम् । उपाध्यायं धर्मशास्त्रविचक्षणमवोचत ॥५०९||
आचाराः सर्वधर्माणां शास्त्रे तव महामते ! । कीर्त्यन्ते तत् समाख्याहि जिनभर्तुरभिग्रहम् ॥५१०॥ उपाध्यायोऽप्यभाषिष्ट बहवोऽभिग्रहाः खलु । महर्षीणां द्रव्य-क्षेत्र-काल-भावविभेदतः ॥५११॥ अभिग्रहो भगवता गृहीतोऽयमिति ध्रुवम् । विना विशिष्टज्ञानेन ज्ञायते न हि जातुचित् ॥५१२॥ राजाऽथाऽऽघोषयत् पुर्यां यदभिग्रहिणः प्रभोः । अनेकधोपनेतव्या भिक्षा भिक्षार्थमेयुषः ॥५१३।। राजाऽऽज्ञया श्रद्धया च तथा चक्रे जनोऽखिलः । अपूर्णाभिग्रह: स्वामी भिक्षां जग्राह न क्वचित् ॥५१४|| अम्लानाङ्गस्तथाप्यस्थाद्विशुद्धज्ञानभाक् प्रभुः । व्रीडा-खेदाकुलैः पौरैर्वीक्ष्यमाणो दिने दिने ॥५१५।। पाइतश्च पूर्वं नौसैन्यैः शतानीको निशैकया । गत्वाऽरुणत् पुरीं चम्पां शम्पासमसमागमः ॥५१६।।
चम्पापतिः पलायिष्ट ततश्च दधिवाहनः । बलीयसाऽवरुद्धानां त्राणं नान्यत् पलायनात् ॥५१७।। यद्ग्रहो घोषितस्तत्र शतानीकेन भूभुजा । तदनीकभटाश्चम्पां स्वेच्छया मुमुषुस्ततः ॥५१८।। दधिवाहनराजस्य धारिणी नामतः प्रियाम् । वसुमत्या समं पुत्र्या तत्र कोऽप्यौष्ट्रिकोऽग्रहीत् ॥५१९॥ कृतकृत्यः शतानीकोऽप्यनीकैः परिवारितः । समाजगाम कौशाम्बी वैरिकै खभास्करः ॥५२०|| पाऔष्ट्रिकः सोऽपि धारिण्या देव्या रू पेण मोहितः । व्रजञ्जगाद पुरतो जनानामिदमुच्चकैः ॥५२१॥ प्रौढा रूपवती चेयं मम भार्या भविष्यति । विक्रेष्ये कन्यकां त्वेतां नीत्वा पुर्याश्चतुष्पथे ॥५२२।। तच्छ्रुत्वा धारिणी देवी मनस्येवमधारयत् । जाता महति वंशेऽहं शशाङ्कादपि निर्मले ॥५२३।। महावंशप्रसूतस्य दधिवाहनभूपतेः । पत्नी चाऽस्मि परिणतजैनधर्माऽऽदितोऽपि हि ॥५२४।। श्रुत्वैतान्यप्यक्षराणि धिग्जीवाम्यघभाजनम् । स्वभावलोल रे जीव ! किमद्याऽप्यवतिष्ठसे ॥५२५|| न चेत् स्वयं निःसरसि तथापि हि बलान्मया । निस्सार्यसे सद्य एव नीडादिव विहङ्गमः ॥५२६।। इति तद्भर्त्सनोद्विग्ना इव प्राणाः क्षणादपि । तस्या मन्युप्रस्फुटितहृदयाया विनिर्ययुः ॥५२७||
औष्ट्रिकस्तां मृतां प्रेक्ष्य दध्यावेतां सती प्रति । धिग्धिङ्मयैतदुदितं यन्मे पत्नी भविष्यति ॥५२८॥ अङ्गलीदर्शनेनेव कूष्माण्डं दुर्गिरा मम । विपन्नेयं यथा तद्वत् कन्याप्येषा विपत्स्यते ॥५२९॥ एवं विमृश्य साम्ना तामालपन्ननयत् पुरि । कौशाम्ब्यां सोऽथ निदधे विक्रेतुं राजवर्त्मनि ॥५३०॥ पादैवात्तत्राऽऽगतः श्रेष्ठी तामपश्यद्धनावहः । दध्यौ चेत्यनया मूर्त्या न हि सामान्यपुत्र्यसौ ॥५३१।।
१. झम्पा० मु. । शम्पा-विद्युत् । २. यद् ग्रहीतव्यम् तद् गृह्णातु इति । ३. अङ्गलीदर्शनेन यथा कूष्माण्डं विपद्यते तथा मम दुर्गिरा इयं विपन्ना, एवमर्थः कल्प्यते । यथार्थोऽर्थस्तु सुज्ञजनैरेव ज्ञायते । ४. साम-शान्तिः । सान्त्वनवचनैरिति यावत् ।