________________
६०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व चेटकोर्वीशदुहिता तद्राज्ञी च मृगावती । श्राविका तीर्थकृत्पादपूजानिष्ठा सदैव हि ॥४७५।। राज्ञस्तस्य च सचिवः सुगुप्तो नाम तत्प्रिया । नन्दा नाम श्राविकेति मृगावत्याः परी सखी ॥४७६॥ श्रेष्ठी धनावहो नाम्ना तत्र चाऽऽसीन्महाधनः । मूलाऽभिधाना तस्यापि गृहिणी गृहकर्मठा ॥४७७।। तत्र स्वामी पौषमासबहुलप्रतिपद्दिने । दुराचरं दुर्ग्रहं च जग्राहैवमभिंग्रहम् ॥४७८॥ अयोनिगडबद्धांहिर्मुण्डिताऽनशिता सती । रुदती मन्युना राजकन्याऽपि प्रेष्यतां गता ॥४७९।। देहल्यन्त:स्थितैकांहिर्बहिःक्षिप्ताऽपरांहिका । गृहात् प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु च ॥४८०॥ यदि मे शूर्पकोणेन कुल्माषान् संप्रदास्यति । चिरेणापि तदैवाऽहं पारयिष्यामि नान्यथा ॥४८१।। (त्रिभिर्विशेषकम्) गृहीत्वाऽलक्ष्यमाणाभिग्रहं प्रतिदिनं प्रभुः । उच्चावचेषु गेहेषु भ्रमति स्म यथाक्षणम् ॥४८२।। अभिग्रहवशाद्भिक्षां दीयमानामगृह्णति । स्वामिनि प्रत्यहं पौरास्ताम्यन्ति स्माऽऽत्मनिन्दिनः ॥४८३।।
अनात्तभिक्षः स्वाम्येवं द्वाविंशतिपरीषहीम् । सहमानोऽनयन्मासांश्चतुरः प्रहरानिव ॥४८४|| पाभिक्षार्थमन्यदा स्वामी सुगुप्तामात्यवेश्मनि । प्रविवेश ददृशे च दूरादपि च नन्दया ॥४८५।। अयमर्हन्महावीरो दिष्ट्या मद्गृहमागतः । इति ब्रुवाणाऽभ्युत्तस्थौ नन्दाऽऽनन्देन पूरिता ॥४८६।। कल्पनीयानि भोज्यानि साऽभिज्ञा समुपानयत् । स्वाम्यप्यभिग्रहवशात्तान्यनादाय निर्ययौ ॥४८७|| धिगहं मन्दभाग्याऽस्मि न पूर्णो मे मनोरथः । इति खेदं दधारौच्चैर्नन्दा मन्दमनाः सती ॥४८८।। तां सखेदां च दास्यूचे देवार्योऽयं दिने दिने । अनात्तभिक्षो नियति न खल्वद्यैव निर्गतः ॥४८९॥ एवमाकर्ण्य नन्दाऽपि बुबुधे यदभिग्रहः । विशिष्टः कोऽपि तन्नोपादत्तेऽसौ प्रासुकान्यपि ॥४९०।। स्वामिनोऽभिग्रहो ज्ञेयः कथं न्विति विचिन्तया । निरानन्दैव नन्दाऽस्थात् सुगुप्तस्तां ददर्श च ॥४९१॥ सुगुप्तस्तामुवाचैवं किमुद्विग्नेव लक्ष्यसे ? । खण्डिताज्ञाऽसि किं केनाऽप्यपराद्धं मयाऽथवा ? ॥४९२।। साऽप्यूचे खण्डिता नाऽऽज्ञा नाऽपराधस्तवापि च । न पारयामि श्रीवीरमिति खेदाय किन्तु मे ॥४९३|| भिक्षार्थी भगवान् वीरो नित्यमायाति याति च । अनात्तभिक्ष एवाऽयमभिग्रहविशेषतः ॥४९४॥ जानीह्यभिग्रहं भर्तुर्न चेज्जानासि तन्मुधा । बुद्धिस्तव महामात्य ! परचित्तोपलक्षिणी ॥४९५।। सुगुप्तोऽपि जगादैवं जगद्भर्तुरभिग्रहः । यथा विज्ञास्यते प्रातः प्रयतिष्ये तथा प्रिये ! ॥४९६|| पातदैवाऽऽगान्मृगावत्या वेत्रिणी विजयाह्वया । तयोः श्रुत्वा तमालापं गत्वा देव्याः शशंस च ॥४९७।। तथैव खेदं विदधे मृगावत्यपि तत्क्षणम् । संभ्रान्तश्च शतानीकोऽपृच्छत्तां खेदकारणम् ॥४९८।। किञ्चिदुन्नमितभ्रूका व्याजहार मृगावती । अन्तर्विषादया बाष्पोद्गारच्छुरितया गिरा ॥४९९।। चराचरं जगदिदं चरैर्जानन्ति भूभुजः । त्वं तु स्वपत्तनमपि न वेत्सि ब्रूमहेऽत्र किम् ? ||५००। त्रैलोक्यपूज्यो भगवान् वीरश्चरमतीर्थकृत् । वसत्यत्रेति किं वेत्सि राज्यसौख्यप्रमद्वरः ? ॥५०१।। वेश्म वेश्माऽनुप्रवेशं भिक्षामपरिगृह्य सः । कुतोऽप्यभिग्रहाद्यातीत्येतज्जानासि किं ननु ? ॥५०२।।
१. प्रिया खं. ४ । २. दुराचारं खं. १ । ३. अभिग्रह:-प्रतिज्ञा । ४. दासताम् । ५. सूर्प० खं. १-३-४ । ६. गृहीताऽलक्ष्य० खं. १-३-४ । ७. परीषहा उपद्रवाः, ते च द्वाविंशतिः । ८. वा खं. ३ । ९. ०लक्षणी खं. ३ । १०. ०विषादकालुष्योद्गार० खं. १ विना सर्वप्रतिषु, मु., नू. मु. । ११. प्रमादी ।।