________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अज्ञानादमुचं वज्रं पश्चाच्चाऽवधिनाऽबुधम् । अमुं त्वत्पादसलीनं सहस्वाऽऽग इदं मम ॥४४८।। इत्युक्त्वा शक्र ऐशान्यां स्थित्वा वामांह्रिणा भुवम् । रोषनाशाय भित्त्वा त्रिशचमरेन्द्रमदोऽवदत् ॥४४९।। भो भोः ! साधु त्वया चक्रे यद्विश्वाभयदः प्रभुः । शिश्रिये शरणायाऽयं गुरुः सर्वगरीयसाम् ॥४५०|| मया वैरं समुत्सृज्य मुक्तोऽसि चमरासुर ! । गत्वा चमरचञ्चायां स्वऋद्धिसुखभाग्भव ॥४५१।। एवं चमरमाश्वास्य भूयोऽपि परमेश्वरम् । नमस्कृत्य प्रतिययौ निजं स्थानं पुरन्दरः ॥४५२॥ पागते शक्रे चमरेन्द्रः प्रभोः पादद्वयाऽन्तरात् । निरगादस्तमितेऽर्के गुहाया इव कौशिकः ॥४५३।। स प्रणम्य जगन्नाथमित्यूचे रचिताञ्जलिः । अशेषजीवजीवातो ! त्वमेव मम जीवदः ॥४५४|| अनेकदुःखनिलयाद्विमुच्यन्ते भवादपि । त्वत्पादौ शरणं प्राप्ताः किं पुनः कुलिशादहम् ? ॥४५५।। अहं पूर्वभवेऽप्यज्ञोऽकार्षं बालतपः प्रभो ! । अज्ञतासहितं प्रापमासुरेन्द्रयं च तत्फलम् ॥४५६।। मया स्वयमनर्थोऽयमज्ञानादात्मनः कृतः । इदमेव कृतं सुष्ठु यत्त्वं शरणमाश्रितः ॥४५७।। शरणं प्राग्भवेऽपि त्वामकरिष्यमहं यदि । प्राप्स्यमप्यच्युतेन्द्रत्वमहमिन्द्रत्वमप्यथ ॥४५८॥ यदि वा कृतमिन्द्रत्वैः सर्वं प्राप्तं मया प्रभो ! । जगत्रितयनाथ ! त्वं नाथः प्राप्तोऽधुनापि यत् ॥४५९।। सश्रद्धमभिधायैवं नत्वा च परमेश्वरम् । पुर्यां चमरचञ्चायां जगाम चमरासुर : ॥४६०॥ पातत्र सिंहासनाऽऽसीनश्चमरेन्द्रस्त्रपानतः । अवोचत स्वागतिकान्निजान् सामानिकादिकान् ॥४६१।। यथा हि मध्यस्थतया शक्रो युष्माभिरौच्यत । स तथैव परं मोहादज्ञायि न मया तथा ॥४६२॥ तत्सभामगमं सिंहकन्दरामिव जम्बुकः । उपेक्ष्यमाणस्तल्लोकै : कौतुकस्य दिदृक्षया ॥४६३।। शक्रनिर्मुक्तकुलिशात् कृच्छ्रान्मुक्तो गतोऽस्म्यहम् । शरणं वीरचरणौ सुरासुरनमस्कृतौ ॥४६४|| श्रीवीरचरणस्थोऽहं जीवन्मुक्तो बिडौजसा । इहाऽऽगच्छं चलत भो ! गत्वा वन्दामहे जिनम् ॥४६५॥ इत्युक्त्वा सपरीवारश्चमरः प्रभुमाययौ । नत्वा चक्रे च सङ्गीतं जगाम स्वां पुरी ततः ॥४६६।। पाप्रात थोऽपि संहृत्य प्रतिमामैकरात्रिकीम् । क्रमेण विहरन प्राप पुरं भोगपुराभिधम् ॥४६७|| माहेन्द्रः क्षत्रियस्तत्र जिनेन्द्रं प्रेक्ष्य दुर्मतिः । खजूरीयष्टिमुद्यम्य प्रजिहीर्घरधावत ॥४६८॥ चिरदर्शनसोत्कण्ठो द्रष्टुं च स्वामिनं तदा । आगात् सनत्कुमारेन्द्रस्तत्राऽपश्यच्च तं शठम् ॥४६९।। निर्भय॑ च क्षत्रियं तमिन्द्रः प्रभुमवन्दत । भक्त्या सुखविहारं चाऽपृच्छत् स्वं च पदं ययौ ॥४७०॥ पानन्दिग्रामं ययौ ग्राम विहरन् भगवानपि । नन्दिना पितृमित्रेण भक्तितस्तत्र चाऽर्च्यत ॥४७१।। ग्रामेऽथ मेण्ढकग्रामे भगवान् विहरन् ययौ । दधावे तत्र हन्तुं च गोपालो वालरज्जुभृत् ॥४७२।। कर्मारग्रामवत्तत्र घ्नतमेत्य पुरन्दरः । गोपं निवारयामास ववन्दे च जगद्गुरुम् ॥४७३।। पाततो निष्क्रम्य भगवान् कौशाम्बी नगरी ययौ । राजा तस्यां शतानीकः परानीकभयङ्करः ॥४७४।।
१. निज० खं. ४ । २. निरागा० मु. । ३. घूकः । ४. 'जीवनौषधिः' - खं. ३. टि. । जीवातुस्त्व. खं. १-२ । ५. निचया० खं. ४ । ६. ०मासुरेन्द्रं खं. ४ । ७. नाथस्त्वं खं. ४ । ८. शृगालः । ९. शरण० मु. नूतन मु., खं. १-२ । १०. इन्द्रेण । ११. ०मेक० मु. नूतन मु. । १२. माहेन्द्रक्ष० मु. नूतन मु. । १३. पुरं खं. ३ । १४. चाऽर्चितः खं. ४ । १५. मेढक० मु. । १६. कूर्मार० मु. । 'कूर्मार' खं. ३ मध्ये टि. ।।