________________
५८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व पलायन्ते स्म दिक्पालाः सोम-वैश्रवणादयः । वेगेनाऽऽपततस्तस्माद्भयङ्करमहातनोः ॥४२०॥ आत्मरक्षरस्खलितो वेत्रिणाऽप्यनिवारितः । किमेतदिति संभ्रान्तैस्त्रायस्त्रिशैनिरीक्षितः ॥४२१॥ सकोपविस्मयैदृष्टः सोऽथ सामानिकैय॑धात् । एकं क्रमं पद्मवेद्यां सुधर्मायामथाऽपरम् ॥४२२॥ (युग्मम्) परिघेणेन्द्रकीलं त्रिस्ताडयित्वा स दुर्मदः । उत्कटां भ्रकु टिं बिभ्रच्छक्रमेवमवोचत ॥४२३।। पाएवंविधानां वृन्देन षिड्गानामिव नाकिनाम् । ओजसा किं बिडोजस्त्वं ममोपर्यवतिष्ठसे ? ॥४२४|| अधुना पातयामि त्वामधस्तादात्मनोऽपि हि । मुधा चिरं स्थितोऽसीह शैलाग्र इव मौकलिः ॥४२५।। पुर्याश्चमरचञ्चायाः स्वामिनं चमरासुरम् । किं मामपि न जानासि विश्वासह्यपराक्रमम् ? ॥४२६।। पाकेसरीव व्याधहक्कां तादृक्षं परुषं वचः । अनार्कणितपूर्वीन्द्रः सिष्मियेऽथ विसिष्मिये ॥४२७॥ ज्ञात्वाऽवधेस्तं चमरं रे रे ! नश्येत्यथ ब्रुवन् । भृकुटीमिव दुर्दर्श शक्रो दम्भोलिमुद्दधे ॥४२८।। सारं कल्पानलस्येव विद्युतामिव संचयम् । वृन्दीभूतमिवौर्वाग्नि ज्वालेद्धं सोऽमुचत् पविम् ॥४२९॥ तडत्तडिति कुर्वाणं त्रस्तगीर्वाणवीक्षितम् । गीर्वाणपतिमुक्तं तच्चमरं प्रत्यधावत ॥४३०|| अर्कतेज इवोलूको द्रष्टुमप्यक्षमः पविम् । वल्गुलीवोर्ध्वपादोऽधोमौलिर्बभ्रंश सोऽसुरः ॥४३१।। भगवन्तं महावीरं प्रपित्सुः शरणं ततः । द्राक् पलायिष्ट चमस्चमरश्चित्रकादिव ॥४३२॥ महाहेरिव मण्डूक उरभ्र इव दन्तिनः । कुञ्जरः शरभस्येव गरुडस्येव पन्नगः ॥४३३।। अनात्मज्ञः कथमरे ! युयुत्सुरसुराधमः । शक्रस्याऽऽस्फलित ? इति स नश्यञ्जहसेऽमरैः ॥४३४।। (युग्मम्) योऽभूत्तादृग्महादेहो लघुदेहः क्षणेन सः । वाताहत इवाऽम्भोदस्त्वरितत्वरितं ययौ ॥४३५।। तस्याऽणूकृतरूपस्य गोधाया इव पृष्ठतः । समापतन्नशोभिष्ट ज्वालाजालाकुलोऽशनिः ॥४३६।। पाइतश्च वजे निर्मुक्तमात्रे वज्रीत्यचिन्तयत् । नाऽसुराणामिहाऽऽगन्तुं शक्तिः सम्भवति स्वतः ॥४३७||
अर्हन्तमर्हच्चैत्यं वा महर्षि कञ्चनाऽथ वा । मन्ये मनसिकृत्याऽसौ जातशक्तिरिहाऽऽययौ ॥४३८|| विचिन्त्येत्यवधेः शक्रोऽज्ञासीत् स्वामिप्रभावतः । तत्राऽऽयातं चमरेन्द्रं यान्तं च स्वामिनं प्रति ॥४३९।। हा हा हतोऽस्मीति वदन्निन्द्रः कुलिशवर्त्मना । द्रुतद्रुतमधाविष्ट त्रुटद्धारादिभूषणः ॥४४०॥ अधस्तान्निजभूमित्वाच्चमरस्तत्र चाऽग्रतः । तत्पृष्ठतोऽगाद्दम्भोलिर्वज्री तत्पृष्ठतः पुनः ॥४४१॥ पश्चात् प्रचलितोऽपीन्द्रो निजशक्त्याऽतिवेगवान् । करीव प्रतिकारस्य तयोनिकटवर्त्यभूत् ॥४४२।। आसन्नप्रायकुलिशः कथञ्चित् प्राप सोऽसुरः । प्रतिमास्थं महावीरं दवार्तद्विपवन्नदीम् ॥४४३॥ शरणं शरणमिति ब्रुवाणः स्वामिपादयोः । अन्तरे सूक्ष्मकीभूय कुन्थुवच्चमरोऽविशत् ॥४४४||
चतुरगुङ्गुलमप्राप्तं स्वामिपादारविन्दयोः । वज्रं मुष्ट्याऽग्रहीद्वज्री सर्प गारुडिको यथा ॥४४५॥ पाप्रभुं प्रदक्षिणीकृत्य वन्दित्वा च पुरन्दरः । कृताञ्जलिरुवाचैवं भक्तिनिर्भरया गिरा ॥४४६।।
नाऽज्ञासिषं यथा स्वामिपादपद्मप्रभावतः । आगमच्चमरेन्द्रो मामुपद्रोतुं समुद्धतः ॥४४७।। १. आत्मरक्षका इन्द्रस्य देवाः । २. देवप्रकारः । ३. इन्द्रसमानाः देवाः । ४. जारपुरुषाणामिव । ५. मोकुलि: मु. । काकः । ६. अनाकणितं-अश्रुतं पूर्वं येन सः । ७. भ्रकुटी० खं. १-२ । ८.०मादधे खं. ३ । ९.०र्वाग्निज्वा० मु.। और्वाग्निर्वडवानलः । १०. चर्मपक्षी, 'वडवागळां' इति भाषायाम् । ११. चमरमृगः द्वीपिन इव । १२. शत्रोः । १३. ०न्नदी खं. १ ।