________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । मद्विक्रमानभिज्ञाः स्थ तयूयं तं प्रशंसथ । एष वो दर्शयिष्यामि स्वबलं तस्य पातनात् ॥३९२।। उच्चस्थानस्थितो दैवात् प्रभु¥तावताऽप्ययम् । गजशारीनिविष्ट: किं कोकोलो रथिकीभवेत् ? ॥३९३।।
यत् स्थितस्तत् स्थितोऽसौ भो ! मयि क्रुद्ध त्वतः परम् । न स्थास्यत्युदिते ह्यर्के न तेजांसि तमांसि च ॥३९४|| पाअथ सामानिकाः प्रोचुरयं पूर्वभवार्जितैः । पुण्यैर्दिविषदीशोऽभूदधिकद्धिपराक्रमः ॥३९५।।
त्वं स्वपुण्यानुमानेन प्रभुरस्मादृशामभूः । पुण्याधीनो हि विभवस्तदीर्ष्यामिह मा कृथाः ॥३९६।। विक्रमोपक्रमो ह्यस्मिन् क्रियमाणस्त्वया भवेत् । उपहासाय पाताय शरभस्याऽम्बुदेष्विव ॥३९७|| तत् प्रशाम्य सुखं तिष्ठ भुक्ष्व भोगान् यथासुखम् । विनोदान् पश्य विविधान् सेव्यमानोऽस्मदादिभिः ॥३९८।। पाअथ तांश्चमरोऽवोचद्यूयं तद्भीरवो यदि । ननु तत्तिष्ठताऽत्रैव यास्याम्येकोऽपि तद्युधे ॥३९९॥
सुराणामसुराणां च स्यादिन्द्रः सोऽथवाऽप्यहम् । प्रेत्याकारे यदेकस्मिन् युगपन्न ह्यसिद्वयम् ॥४००।। इत्यूजितं स गर्जित्वा समुत्पिपतिषुर्दिवि । किञ्चिज्जातविवेकः सन् भूयोऽप्येवमचिन्तयत् ॥४०१।। अमी सामानिकाः शक्रं शक्तमाचक्षते यथा । भविष्यति तथा किञ्चिन्न खल्वेते ममाऽहिताः ॥४०२॥ कार्यगतिविषमा च दैवाच्चेन्मे पराजयः । तदा कं शरणं यास्याम्यमुष्मादधिकौजसः ॥४०३॥ एवं विचिन्त्य प्रायुङ्क्ताऽवधि सोऽथ ददर्श च । सुंसुमारपुरे वीरस्वामिनं प्रतिमास्थितम् ॥४०४|| पानिश्चित्य शरणीकार्यं श्रीवीरं चमरासुरः । उत्थायाऽगात् प्रहरणशाला तुम्बालयाह्वयाम् ॥४०५॥ जग्राह तत्र परिघं मृत्योर्भुजमिवाऽपरम् । द्विस्त्रिश्च चालयामास तिर्यगूज़ च स द्रुतम् ।।४०६।। वीर इत्यसुरस्त्रीभिर्वीक्ष्यमाणः सकामनम् । उत्साह्यमानो भवनपतिभिः कौतुकार्थिभिः ॥४०७|| उपेक्ष्यमाणोऽज्ञ इति निजैः सामानिकासुरैः । पुर्याश्चमरचञ्चाया निर्ययौ चमरासुरः ॥४०८॥ (युग्मम्) पाक्षणाच्छीवीरमासाद्य मक्त्वा परिघमायुधम् । स त्रिः प्रदक्षिणीकृत्य नत्वा चैवं व्यजिज्ञपत् ॥४०९॥ भगवंस्त्वत्प्रभावेण शक्रं जेष्यामि दुर्जयम् । सोऽत्यन्तं बाधते मां हि मन्मूलः उपरि स्थितः ॥४१०॥ इत्युक्त्वाऽऽदाय परिघमैशान्यामुपसृत्य च । सद्यो विचक्रे स्वं रूपं प्रमाणे लक्षयोजनम् ॥४११॥ मूर्तीभूतमिव व्योम श्यामच्छविमहातनुः । नन्दीश्वरमहाद्वीपाञ्जनादिरिव जङ्गमः ॥४१२।। दंष्ट्राक्रकचभीमास्यो विलोलश्यामकुन्तलः । वक्त्रकुण्डोच्छलज्ज्वालाजालपल्लविताम्बरः ॥४१३|| पृथुवक्षःस्थलाभोगस्थगितादित्यमण्डलः । दोर्दण्डप्रेङ्खणभ्रश्यद्ग्रहनक्षत्रतारकः ॥४१४|| नाभीमण्डलसंलीनफणिफूत्कारदारुणः । शैलचूलाग्रसंलग्नजानूज्जनितविस्मयः ॥४१५।। पादावष्टम्भविधुरीकृतभूमण्डलोऽथ सः । समत्पपात दर्पान्धः सौधर्माधिपतिं प्रति ॥४१६।। (पञ्चभिः कलकम) ऊजितैर्गजितैः सर्वं ब्रह्माण्डं स्फोटयन्निव । व्यन्तरान् भीषयमाणो भीष्मोऽन्तक इवाऽपरः ॥४१७|| ज्योतिष्कांस्त्रासयन्नुच्चैः कुरङ्गानिव केसरी । क्षणात् प्रापाऽतिसूर्येन्दुमण्डलः शक्रमण्डलम् ॥४१८।।
निलिल्यिरे किल्बिषिकास्तत्रसुश्चाऽभियोगिकाः । सेनान्योऽपि समं सैन्यैरकस्मादपि दुद्रुवुः ॥४१९।। १. गजस्य शारी-वर्म-कवचं, तत्र उपविष्टः । २. काकविशेषः । ३. यत्-इयन्तं कालं सः स्थितस्तत् कामं स्थितः । ४. तद्युधि नूतन मु. । ५. खड्गकोशे । ६. दिवे खं. १-२-४ । ७. कामनासहितम् । ८. भुवन० मु. नूतन मु. । ९. मन्मूलि खं. ४। १०. वक्त्रं-वदनं एव कुण्डं, तस्मादुच्छलन् यो ज्वालासमूहस्तेन पल्लवितं-व्याप्तं अम्बरं-गगनं येन सः । ११. स्थगितं-आवृतम् । १२. प्रेक्षणं-कम्पनं चलनं वा । १३. तस्य नाभिप्रदेशे संलीना:-फणिनः, तत्फूत्कारैर्भयङ्करः । १४. शैलो मेरु:, तच्चूलाग्रे संलग्नाभ्यां जानुभ्यां ऊर्ध्वलोके जनितो विस्मयो येन सः । १५. १६. १७. १८. देवजातिनामानि ।