________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
राजा लोकश्च तं गत्वा पप्रच्छ भगवन्निह । नगर्यां को महापुण्यसम्भारोपार्जको र्जनः ||३६५॥। जीर्णश्रेष्ठीति सोऽप्याख्यल्लोकोऽप्यूचे कथं ह्यसौ ? । न स्वामी पारितोऽनेनाऽभिनवेन हि पारितः ॥३६६|| वसुधाराऽप्यभिनवश्रेष्ठिनो मन्दिरेऽपतत् । स कथं न महापुण्यसम्भारोपार्जकः प्रभो !? ||३६७|| केवल्याख्यद्भावतोऽर्हञ्जिनदत्तेन पारितः । तथोपार्ज्यच्युते कल्पे जन्माऽनेन भवादितः ॥३६८॥ तादृग्भावस्तदाऽयं चेन्नाऽ श्रोष्यद् दुन्दुभिध्वनिम् । तदा ध्यानान्तरगतः प्राप्स्यत् केवलमुज्ज्वलम् ॥३६९॥ शुद्धभावविहीनेनाऽभिनवश्रेष्ठिना पुनः । प्राप्तमर्हत्पारणस्य वसुधारैहिकं फलम् ॥३७०॥ भक्त्यभक्तिविहीनं तदर्हत्पारणजं फलम् । आकर्ण्य विस्मितो लोकः स्थानं निजनिजं ययौ ॥ ३७१|| [इतश्च नगर-ग्रामा–ऽऽकर- द्रोणमुखादिषु । विहरन् भगवान् वीरः सुंसुमारपुरं ययौ ॥३७२|| तत्रोद्यानेऽशोकखण्डेऽधोऽशोकद्रोः शिलातले । कृताष्टमः प्रभुर्भेजे प्रतिमामेकैरात्रिकीम् ॥३७३॥ प[इतश्चात्रैव भरते विन्ध्यपादतलस्थिते । बेभेले सन्निवेशेऽभूद्धनवान् पूरणो गृही ॥ ३७४॥ निशीथे सोऽन्यदा दध्यौ नूनं पूर्वभवे मया । कृतं महत्तपो येन श्रीरियं मान्यता च मे || ३७५ || फलं प्राक्कर्मणामत्र प्राप्यते हि शुभाशुभम् । सेव्यसेवकभावेन तज्जनेष्वनुमीयते ||३७६|| गृहवासं परित्यज्य स्वजनान् प्रतिबोध्य च । एष्यद्भवे फलप्राप्त्यै चरिष्यामि तपो यतः ||३७७|| मासैरष्टभिरह्ना च पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण येनाऽन्ते सुखमेधते ॥३७८॥
एवं विचिन्त्य स प्रातर्भोजयित्वा स्वकाञ्जनान् । आपृच्छ्य च व्रतकृते स्वपदे तनयं न्यधात् ॥ ३७९॥ स्वयं तुं नाम्ना प्राणामं तापसव्रतमाददे । चतुःपुटं दारुमयं भिक्षापात्रमथाऽग्रहीत् ॥३८०॥ आरभ्य तद्दिनादेव सदा षष्ठानि सोऽकरोत् । आत्मानमातापनया क्रंशयामास चाऽन्वहम् ॥३८१|| प्राप्ते च पारणदिने भाजनं तच्चतुःपुटम् । गृहीत्वा प्रययौ भिक्षाकृते मध्यंदिनक्षणे ॥ ३८२॥ क्षिप्तामाद्ये पुटे भिक्षां पान्थादीनामदत्त सः । द्वितीयपुटभिक्षां च काकादिभ्यः पुनर्ददौ ||३८३ || मत्स्यादिजलचारिभ्यस्तृतीयपुटगामदात् । रागद्वेषौ विनाऽभुङ्क्त चतुर्थपुटगां स्वयम् ||३८४ ॥ एवं द्वादशवर्षाणि कृत्वा बालतपः स तु । वेभेलसन्निवेशस्यैशान्यामनशनं ललौ ॥३८५।। मासं सोऽनशनं कृत्वा मृत्वा बालतपोवशात् । अभूच्चमरचञ्चायां चमरेन्द्रोऽर्णवस्थितिः ॥३८६॥ [उत्पन्नमात्रो भुवनान्तराण्यवधिचक्षुषा । द्राक् पश्यन्नूर्ध्वमपि हि सौधर्मेन्द्रं ददर्श सः ||३८७|| स्थितं विमाने सौधर्मावतंसे वज्रधारिणम् । शक्रं महर्द्धि से प्रेक्ष्य क्रुद्धोऽवोचदिति स्वकान् ॥३८८॥ अप्रार्थितप्रार्थकोऽयं को नु मे शिरसि स्थितः । दुरात्मा विलसत्येवं निर्लज्जः सुरपांसनः ? ॥ ३८९ ॥ सामानिकाद्यास्ते मूर्ध्नि निबद्धाञ्जलयोऽवदन् । अयं सौधर्मकल्पेन्द्रो महौजाश्चण्डशासनः ॥३९०॥ तच्छ्रुत्वाऽभ्यधिकं क्रुद्धो भ्रुकुटीभीषणाननः । नौसासूत्कारपर्यस्तचार्मरैश्चमरोऽवदत् ॥३९१॥
१२
५६
[ दशमं पर्व
१. नरः खं. ४ । २. ०ष्टमप्रभु० मु. नूतन मु. । ३. ०मैक० खं. ३ । ४. बिभेले खं. २, मु. । ५. ० प्राप्तौ खं. ४ । ६. ० रह्नादि० मु. खं. २ । ७. च नूतन मु । ८. षष्ठं उपवासद्वयम् । ९. कृशं कर्तुमारेभे । १० दिने क्षणे खं. १ । ११. विभेल० मु. नूतनमु । १२. अर्णवः सागरोपमः, सागरोपमप्रमाणा आयुषः स्थितिर्यस्य सः । १३. सम्प्रेक्ष्य खं. १-२ । १४. भ्रकुटी० खं. १ । १५. नासिकायाः सूत्कारशब्देन पर्यस्तानि - प्रक्षिप्तानि चामराणि येन सः । १६. ०चमर० मु. |