________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । इति ब्रुवाणास्ते पौरा विस्मयाऽऽनन्दधारिणः । महिमानं प्रभोश्चक्रुः कौशाम्बी च ययौ प्रभुः ॥३३८|| तत्राऽर्केन्दू सविमानौ जिनेन्द्रं प्रतिमास्थितम् । भक्त्याऽभ्येत्य ववन्दाते सुयात्राप्रशनपूर्वकम् ॥३३९॥ क्रमाच्च विहरन् स्वामी ययौ वाराणसी पुरीम् । अभ्येत्य तत्र शक्रेण ववन्दे मुदितात्मना ॥३४०|| ततो राजगृहे गत्वा स्थितं प्रतिमया प्रभुम् । ईशानेन्द्रोऽनमद्भक्त्या सुयात्राप्रश्नपूर्वकम् ॥३४१॥ गतोऽथ मिथिलापुर्यां स्वामी जनकभूभुजा । धरणेन्द्रेण चाऽपूजि प्रियप्रशनविधायिना ॥३४२।। पाततो विहरमाणोऽगाद्वैशाली नगरी प्रभुः । तत्र चैकादशो वर्षाकालो व्रतदिनादभूत् ॥३४३।। तस्यां च समरोद्याने बलदेवनिकेतने । चतुर्मासक्षपणभृत्तस्थौ प्रतिमया प्रभुः ॥३४४॥
भूतानन्दो नागराजस्तचैत्याऽवन्दत प्रभुम् । आसन्नं केवलज्ञानं समाख्याय जगाम च ॥३४५।। वापरमश्रावकस्तत्र जिनदत्ताभिधोऽऽवसत् । दयावान् विश्रुतो जीर्णश्रेष्ठीति विभवक्षयात् ॥३४६।। तत्रोद्याने बलदेवायतने स गतस्तदा । जिनदत्तो जिनपतिं ददर्श प्रतिमास्थितम् ॥३४७।। छद्मस्थ एष सर्वज्ञोऽस्तीति निश्चित्य स प्रभुम् । भक्त्या ववन्दे परया चित्ते चैवमचिन्तयत् ॥३४८|| उपोषितोऽसौ भगवानद्यास्ति प्रतिमाधरः । श्वः कर्ता पारणं चेन्मे मन्दिरे सुन्दरं तदा ॥३४९।। नित्यमित्याशया नाथं चतुर्मासीमसेवत । तदन्त्याहे निमन्त्र्येशं स ययौ निजवेश्मनि ॥३५०॥ पूर्वसंसाधितान्यात्मनिमित्तं स महामनाः । प्रासुकान्येषणीयानि वरभोज्यान्यचिन्तयत् ॥३५१।। पाजिनदत्तो जिनमार्गे दत्तदृक् प्राङ्गणे स्थितः । दध्यावेतानि भोज्यानि दास्यामि स्वामिने खलु ॥३५२॥ धन्योऽस्मि खलु यस्यौकस्यर्हन् स्वयमिहैष्यति । करिष्यति पारणं च संसारार्णवतारणम् ॥३५३।। आगच्छतश्च नाथस्य गमिष्याम्येष संमुखम् । त्रिश्च प्रदक्षिणीकृत्य वन्दिष्ये तत्पदाम्बुजे ॥३५४|| अपुनर्जन्मने जन्म मम चेदं भविष्यति । मोक्षाय दर्शनमपि किं पुनः पारणं प्रभोः ? ॥३५५।। पाएवं च चिन्तयन् यावत् स तस्थौ शुचिमानसः । तावज्जगामाऽभिनवश्रेष्ठिनो धामनि प्रभुः ॥३५६।।
स श्रेष्ठी श्रीमदोदग्रीवश्चेटी मिथ्यागादिशत । दत्त्वा भिक्षामसौ भिक्षमक्ष भद्रे ! विसज्यताम ||३५७|| दारुहस्तकहस्ता सा कुल्माषान् समुपानयत् । चिक्षेप च जगद्भर्तुः पाणिपात्रे प्रसारिते ॥३५८।। ताडितो दुन्दुभिर्देवैश्चेलोत्क्षेपश्च निर्ममे । वसुधारा पुष्पगन्धाम्भसां वृष्टिश्च तत्क्षणात् ॥३५९।। लोकैश्च पृष्टोऽभिनवश्रेष्ठी माय्येवमब्रवीत् । स्वयं मया पायसेन पारणं कारितः प्रभुः ॥३६०॥ अहो दानं सुदानं चेत्याकर्ण्य दिविषद्ध्वनिम् । लोको राजा चाऽभिनवश्रेष्ठिनं तुष्टुवुर्मुहुः ॥३६१।। स्वाम्यागमनचिन्तावाञ्जीर्णश्रेष्ठी तथा स्थितः । दिविषदुन्दुभिध्वानमाकण्यैवं व्यचिन्तयत् ॥३६२।। धिगहो ! मन्दभाग्योऽस्मि मुधा मम मनोरथः । यदतिक्रम्य मद्वेश्माऽन्यत्र प्रभुरपारयत् ॥३६३॥ qापारयित्वा प्रभुरपि विहरन्नन्यतो ययौ । तत्रोद्याने पार्श्वशिष्यः केवल्यथ समाययौ ॥३६४||
१. द्विशाली मु. । २. केवलं खं. १ । ३. प्रतिमाधरम् खं. ३ । ४. चेन्मन्मन्दिरे मु. । ५. पूर्वं खं. ३-४ । ६. प्राशुका० खं. १-२ । ७. जिनमार्ग० खं. ३. विना । ८. काष्ठनिमितो हस्तको हस्ये यस्याः सा । हस्तकः 'कडछो' इति भाषायाम् । ९. यथा खं ३ ।