________________
५४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
अयं हि कर्मचण्डालः पापः संगमकामरः । दृश्यमानोऽपि पापाय तद् द्रष्टुं नैष युज्यते ॥ ३१० ॥ बह्वनेनाऽपराद्धं हि यत्स्वामी नः कदर्थितः । नोऽस्मभ्यमपि किं भीतो भवाद्भीतो न यद्ययम् ? ॥३११॥ अर्हन्तो नाऽन्यसाहाय्यात्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि नाऽमुं पापमशिक्षयम् ॥३१२॥ अतः परमिह तिष्ठन्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ कल्पादस्मात् सुराधमः || ३१३॥ इत्युदित्वा वज्रपाणिर्वज्रेणेव शिलोच्चयम् । जघान वामपादेन सुराधमममर्षणः ||३१४|| पर्यस्यमानो विविधायुधैर्माघवनैर्भटैः । आकुश्यमानस्त्रिदिवस्त्रीभिर्मोटितपाणिभिः ||३१५॥ सामानिकैर्हस्यमानो यानकाख्यविमानगः । स शिष्टैकार्णवायुष्को मेरुचूलां सुरो ययौ ||३१६|| (युग्मम्) महिष्यः संगमकस्य शक्रमेवं व्यजिज्ञपन् । स्वनाथमनुगच्छामस्त्वदादेशो भवेद्यदि ॥३१७॥ अनुगन्तुं संगमकं दीनास्या अन्वमंस्त ताः । अवारयत् परीवारमशेषमपि वासवः ॥३१८॥ पाद्वैतीयीकेऽथ दिवसे तत्र गोचरचर्यया । प्राविशद् गोकुलवरे पारणेच्छुर्जगद्गुरुः ||३१९ || तत्रैका भक्तितो वत्सपालकस्थविरा प्रभुम् । कल्पेन परमान्नेनोषितेन प्रत्यलाभयत् ॥३२०॥ चिराज्जातेन भगवत्पारणेन प्रमोदिनः । चक्रिरे पञ्च दिव्यानि तत्र सन्निहिताः सुराः || ३२१|| [[ततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तस्थौ प्रतिमया तत्राऽऽलेख्यस्थ इव सुस्थिरः ॥३२२॥ तत्र विद्युत्कुमारेन्द्रो नाम्ना हरिरिति प्रभुम् । एत्य प्रदक्षिणीकृत्य प्रणम्यैवमवोचत || ३२३|| उपसर्गास्त्वया नाथ ! ते सोढा यैः श्रुतैरपि । अस्मादृशा विदीर्यन्ते वज्रादप्यतिरिच्यसे ॥३२४|| स्तोकेनाप्युपसर्गेण घातिकर्मचतुष्टयम् । हनिष्यस्यचिरादेव केवलं चाऽर्जयिष्यसि ॥३२५।। इत्युदित्वा भगवन्तं नमस्कृत्य च भक्तितः । हरिर्विद्युत्कुमारेन्द्रो ययौ निजनिकेतनम् ॥३२६|| भगवानपि निर्गत्य नगरीं श्वेतवीं ययौ । विद्युदिन्द्रो हरिसहस्तत्रैत्याऽवन्दत प्रभुम् ॥३२७|| आख्याय सोऽपि हरिवज्जगाम निजमाश्रयम् । नाथोऽपि गत्वा श्रावस्त्यां तस्थौ प्रतिमया स्थिरः || ३२८|| [[तस्यां पुर्यां दिने तस्मिन्महाविच्छर्दपूर्वकम् । प्रारब्धोऽभूज्जनैः स्कन्दरथयात्रामहोत्सवः ॥३२९॥ प्रतिमास्थमतिक्रम्य भगवन्तं पुरीजनाः । स्कन्दं प्रति ययुश्चैत्यपूजापर्टलिकाभृतः ॥३३०|| स्नैपयित्वा पूजयित्वा स्कन्दस्य प्रतिमां जनाः । रथमध्यारोपयितुमसज्जन्त यथाविधि ॥३३१॥ तदा चाऽचिन्तयच्छक्रः कथं विहरति प्रभुः । ददर्श चावधेर्वीरं तथास्थं तांश्च नागरान् ||३३२|| कथं नाथमतिक्रम्य निर्विवेको जनो ह्ययम् । स्कन्दपूजां करोतीति सेर्ष्यस्तत्राऽऽययौ हरिः ||३३३|| शक्रेणाधिष्ठिता स्कन्दप्रतिमा प्रतिमास्थितम् । भगवन्तं प्रत्यचालीद्यन्त्रपाञ्चालिकेव सा ||३३४|| अहो स्कन्दकुमारोऽयं रथमारोक्ष्यति स्वयम् । इत्यूचुर्नागरा यावत्तावत् सा स्वामिनं ययौ ॥३३५|| सौ त्रिः प्रदक्षिणीकृत्य भगवन्तं ननाम च । उपासितुं च प्रारेभे निषण्णी पृथिवीतले ॥३३६॥ अयमस्याऽपि देवस्य पूज्यः कोऽपीति सर्वथा । चक्रे न युक्तमस्माभिर्यदस्याऽतिक्रमः कृतः ||३३७॥
१. अस्मत्तोऽपि न किं भीतो खं. १-२ । (किं न भीतो - खं. २) । २. अवशिष्टं एकसागरोपमप्रमाणं आयुर्यस्य सः । ३. द्वैतीयिके० मु. द्वैतीयके० खं. ३-४ । ४. प्रमोदतः मु. । ५. ० चतुष्टयीम् खं १-२ । ६. ०निकेतने खं ३ । ७. महाडम्बरपूर्वकम् । ८. ययुश्चित्र० खं. १-२-४ । ९. ०पाटलिका० खं. १-२ । १०. स्नाप० खं. ४ । ११. स त्रिः खं. ४ । १२. निषण्णः खं ३-४ ।