________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पाप्रातः संगमकश्चैवमचिन्तयदहो ! अयम् । नेषदप्यचलद्ध्यानान्मर्यादाया इवाऽर्णवः ॥२८॥
तत्कि यामि दिवं ? भ्रष्टप्रतिज्ञो यामि वा कथम् ? । क्षोभयिष्याम्युपसर्गः स्थित्वाऽहं चिरमप्यमुम् ॥२८३।। पापथि सूर्यकरस्पृष्टे युगमात्रप्रदत्तदृक् । भगवान् वालुकाऽभिख्यं ग्रामं प्रत्यचलत्ततः ॥२८४||
सुराधमः संगमकः पञ्चचौरशती पथि । विचक्रे वालुकां चोच्चैर्वालुकार्णवसन्निभाम् ॥२८५।। मातुल ! मातुलेत्युच्चैर्जल्पन्तो दस्यवः प्रभुम् । तथा सस्वजिरे गाढं यथा गिरिरपि स्फुटेत् ॥२८६।। जगाम वालुकाग्रामं प्रशमामृतसागरः । जानुदघ्नं वालुकायां मज्जत्पादो जगद्गुरुः ॥२८७।। निसर्गक्रूरधीरित्थमुपसर्गान् सुराधमः । पुरे ग्रामे वनेऽन्यत्राऽप्यनुगच्छन् प्रभोळधात् ॥२८८|| पाउपसर्गकृतो जग्मुर्मासाः संगमकस्य षट् । अथाऽगाद् गोकुले स्वामी तदाऽऽसीत्तत्र चोत्सवः ॥२८९।। षडप्युपोषितो मासान् भगवानतिलय तान् । कर्तुकाम: पारणकं भिक्षार्थं गोकुलेऽविशत् ॥२९०।। यत्र यत्र गृहे स्वामी प्रययौ तत्र तत्र च । अनेषणां प्रविदधे पापधीः स सुराधमः ॥२९१।। दत्तोपयोगो ज्ञात्वा तमनिवृत्तं सुराधमम् । स्वामी निवृत्त्य भिक्षायास्तस्थौ प्रतिमया बहिः ॥२९२।। किं भग्नपरिणामोऽयमिति सोऽप्यवधेः सुरः । यावदैक्षिष्ट तावच्चाऽपश्यदक्षुभितं प्रभुम् ॥२९३।। स सुरोऽचिन्तयच्चैवं षण्मासी सन्ततैः कृतैः । नोपसगैः कम्पितोऽसौ सह्योऽर्णवजलैरिव ॥२९४|| दीर्घेणाऽप्येष कालेन ध्यानान्न हि चलिष्यति । वृथा मे प्रक्रमोऽत्राऽभूद् गजस्येवाऽद्रिभेदने ॥२९५।। स्वविलाससुखं हित्वा शापभ्रष्ट इवाऽवनिम् । कियच्चिरं हहाऽभ्राम्यं निजदुर्बुद्धिवञ्चितः ? ॥२९६।। पाएवं विचिन्त्य स सुरः प्रणम्य च जगद्गुरुम् । कृताञ्जलिम्बनमुखो ह्रीणश्चैवमभाषत ॥२९७।। यथा सभायां शक्रेण कीर्तितोऽसि तथा ह्यसि । तद्वचोऽश्रद्दधानेन मयाऽस्येवमुपद्रुतः ॥२९८।। सत्यप्रतिज्ञस्त्वं भ्रष्टप्रतिज्ञोऽहमसौ पुनः । न व्यधायि मया साधु तत्क्षमस्व क्षमानिधे ! ॥२९९॥ द्यां यास्याम्युपसन्नोऽहमुपसर्गपराङ्मुखः । व्रज त्वमपि निःशङ्को ग्रामाकरपुरादिषु ॥३००।। ग्रामेषु विश भिक्षायै भुंश्वाऽऽहारमदूषितम् । भिक्षादोषा अपि पुरा विहितास्ते मयैव हि ॥३०१॥ स्वाम्यवोचत नश्चिन्तां मुञ्च संगमकामर ! । कस्याऽप्यधीना न वयं विहरामो निजेच्छया ॥३०२।। इत्युक्तवन्तं श्रीवीरं प्रणम्य स सुराधमः । सानुतापः प्रचचाल पुरुहूतपुरी प्रति ॥३०३।। पाइतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा उद्विग्नाश्चाऽवतस्थिरे ॥३०४॥ शक्रोऽपि मुक्तनेपथ्याङ्गरागोऽत्यन्तदुःखितः । सङ्गीतकादिविमुखो मनस्येवमचिन्तयत् ॥३०५।। इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां कृतायां सोऽकुपत् सुरः ॥३०६॥ अत्रान्तरे संगमकः पापपङ्कमलीमसः । प्रनष्टकान्तिप्राग्भारोऽम्भारोऽम्भःस्पृष्ट इव दर्पणः ॥३०७।। भ्रष्टप्रतिज्ञो मन्दाक्षमन्दीभूताक्षिपङ्कजः । देवराजाधिष्ठितां तां सुधर्मामाययौ सभाम् ॥३०८।। (युग्मम्) पाशक्रः संगमकं दृष्ट्वा सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः ! सर्वेऽप्याकर्णयत मद्वचः ॥३०९।।
१. जानुदघ्न्यां नूतन मु. । जानुप्रमाणम् । २. नविलय खं. १ । ३. सह्याद्रिः । ४. खिन्नः शान्तो वा । ५. इन्द्रपुरीं । ६. प्रणष्ट० मु. नूतन मु. । ७. मन्दाक्षं-लज्जा ।