________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अशेषमण्डलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ? ॥२५३।। पाइत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभौ । अप्राप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् ॥२५४॥ मोघीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्येकं कामशासनम् ॥२५५|| यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥२५६।। इति निश्चित्य चित्तेन निर्दिदेश सुराङ्गनाः । तद्विभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ॥२५७॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कन्दर्पनाटकनटी वसन्तश्रीरशोभत ॥२५८॥ मुखवासं सज्जयन्ती विकसन्नीपरेणुभिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत ॥२५९॥ राज्याभिषेककामस्य मङ्गल्यतिलकानिव । सर्वाङ्ग केतकव्याजात् कुर्वती प्रावृडाबभौ ॥२६०॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोद्दामां पश्यन्ती शुशुभे शरत् ॥२६१॥ जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीलिलेखेव प्रत्यग्रैः कुन्दकुड्मलैः ॥२६२॥ गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ॥२६३।। एवमुज्जृभ्भमाणेषु सममेवर्तुषु क्षणात् । मीनध्वजपताकिन्यः प्रादुरासन् सुराङ्गनाः ।।२६४|| सङ्गीतमविगीताङ्ग्यः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मन्त्रास्त्रमिव मान्मथम् ॥२६५।। तत्राऽविसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः ॥२६६।। क्रमव्युत्क्रमगैस्तानैर्व्यक्तैर्व्यञ्जनधातुभिः । प्रवीणाऽवादयद्वीणां काचित् सकल-निष्कलाम् ॥२६७|| स्फुटत्तकार-धोंकारप्रकारैर्मेघनिस्वनान् । काश्चिच्च वादयामासुम॒दङ्गास्त्रिविधानपि ॥२६८|| नभोभूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः ॥२६९।। दृढाङ्गहाराभिनयैः सद्यस्त्रुटितकञ्चका । बध्नन्ती श्रलथधम्मिल्लं दोर्मूलं काऽप्यदीदृशत् ॥२७०॥ दण्डपादाभिनयनच्छलात् काऽपि मुहुर्मुहुः । चारुगोरोचनागौरमूरुमूलमदर्शयत् ॥२७१।। श्रलथचण्डातकग्रन्थिदृढीकरणलीलया । काऽपि प्राकाशयद्वापीसनाभिं नाभिमण्डलम् ॥२७२।। व्यपदिश्येभदन्ताऽऽख्यहस्तकाभिनयं मुहुः । गाढमङ्गपरिष्वङ्गसंज्ञां काचिच्च निर्ममे ॥२७३।। संचारयन्त्युत्तरीयं नीवीनिबिडनच्छलात् । नितम्बबिम्बफलकं काचिदाविरभावयत् ॥२७४॥
अङ्गभङ्गापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्रचिरलोचना ॥२७५।। पायदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् ? । शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः? ॥२७६।। दयालुर्यदि वाऽसि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न त्रायसे कथम् ? ॥२७७।। उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किञ्चिन्मात्रं हि तद्युक्तं मरणान्तं न युज्यते ॥२७८।। स्वामिन् ! कठिनतां मुञ्च पूरयाऽस्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् ॥२७९।। एवं गीतातोद्यनृत्तैर्विकारैराङ्गिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगद्गुरुः ॥२८०॥ एवं विंशत्युपसर्गी तत्र रात्रौ सुराधमः । चक्रे संगमकः कायोत्सर्गस्थस्य जगद्गुरोः ॥२८१।।
१. कामदेवसम्बन्धि । २. शुद्धचेतसः मु. । ३. स्फुटन्नकार० मु० । ४. चार्यः नृत्यसम्बन्धिन्यो गतिविशेषाः । ५. करणान्यपि नृत्यसम्बन्धीन्येव भङ्गिप्रकाराः । ६. चण्डातक:-उत्तरीयम् । ७. ०सनाभिं खं. १-३-४ । ८. व्यपदे० मु. । ९. ०हस्तिका० खं. ३ । १०. ०न्त्यन्तरीयं नूतन मु. । ११. निबिडनं-दृढीकरणम् ।