________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । ततस्तयोविलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् ॥२२५।। तत्राऽनासाद्य दृषदं सूदः सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थाली न्यवेशयत् ।।२२६।। तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्तुगिरेरिव दवानलः ॥२२७|| तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्वणं दारुणक्वणम् ॥२२८।। पक्वणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्घयोश्च क्षुद्रपक्षिपञ्जराणि व्यलम्बयत् ।।२२९॥ खगैश्चञ्चनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा छिद्रशताकीर्णा तत्पञ्जरनिभाऽभवत् ॥२३०॥ तत्राप्यसारतां प्राप्ते पक्वणे पक्वपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ॥२३१।। अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्राव-कर्करान् ॥२३२।। सर्वतो रोदसीगर्भं भस्त्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयत् ॥२३३॥ (युग्मम्) तेनापि खरवातेनाऽपूर्णकामो विनिर्ममे । द्युसत्कुलकलङ्कोऽसौ द्राक् कलंकलिकाऽनिलम् ॥२३४।। भूभृतोऽपि भ्रमयितुमलङ्कर्मीणविक्रमः । भ्रमयामास चक्रस्थमृत्पिण्डमिव स प्रभुम् ॥२३५।। भ्रम्यमाणोऽर्णवावर्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जहौ प्रभुः ॥२३६।। वज्रसारमनस्कोऽयं बहधाऽपि कदर्थितः । न क्षभ्यति कथमहं भग्नाग्र्यामि तां सभाम् ? ॥२३७।। तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥२३८|| अह्नाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥२३९।। पथिवीं संपटीकर्त कतं मन्ये पटान्तरम । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः ॥२४०।। ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयत् । तत् पपात जगद्भर्तयॊर्वानल इवाऽर्णवे ॥२४१।। कुलक्षितिधरक्षोदक्षमस्याऽस्य प्रहारतः । ममज्जाऽऽजानु भगवानन्तर्वसुमतीतलम् ।।२४२॥ एवंभतेऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ॥२४३॥
कालचक्र हतोऽप्येष प्रपेदे पञ्चतां न यत् । अगोचरस्तदस्त्राणामुपाय: क इहाऽपरः ? ॥२४४|| पाअनुकूलैरुपसर्गः क्षुभ्येद्यदि कथञ्चन । इति बुद्ध्या → सुरश्चक्रे तानाशु त्रिजगद्गुरोः ॥२४५।। सद्यः प्रकाशमानाशं क्रोशत्खगकुलाकुलम् । प्रात:कालमकालेऽपि दर्शयामास दुष्टधीः ॥२४६।। तां च दैवीमसौ मायां मन्यमानो महामनाः । न मुमोच विभुानमभिग्रहकृताग्रहः ॥२४७|| ताडङ्क-हार-केयूर-किरीटद्योतिताम्बरः । तत् संहृत्य - विमानस्थः स पुरोऽस्थादुवाच च ॥२४८॥ महर्षे ! तव तुष्टोऽस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनाऽऽरब्धनिर्वहणेन च ॥२४९।। पर्याप्तं तपसाऽनेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शङ्कां यच्छामि किं तव ? ॥२५०।। इच्छामात्रेण पूर्यन्ते यत्र नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ? ॥२५१।। अनादिभवसंरूढकर्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ? ॥२५२।।
१. दृषदः मु. । पाषाणखण्डम् । २. न्यवेद० मु. नूतन मु. । ३. चाण्डालं भयङ्करशब्दम् । ४. तत्पञ्जरमिवा० मु. । ५. भग्नगु० मु. । 'भग्ना गौः-वाग् यस्य सः' इति तत्र टिप्पणी । भग्ना आगू:-प्रतिज्ञा यस्य सः । ६. उत्पाट्य मु. । ७. उत्पपात खं. १ । ८. →- एतदन्तर्गतः पाठः खं. १-२-४ प्रतिषु न दृश्यते । ९. तत् खं. ४ ।।