________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे से दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः ॥१९७|| शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीव सहोत्थिता ॥१९८।। ततोऽप्यविचलच्चित्ते योगचित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानव्रश्चननिश्चयी ॥१९९।। प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणैः । तेऽभिन्दन् भगवद्देहं लाङ्गुलाङ्कुटकण्टकैः ॥२००|| तैरप्यनाकुले नाथे कूटसंकल्पसंकुलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ॥२०१॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् ॥२०२।। तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान् कोपात् प्रायुक्त पन्नगान् ॥२०३।। आशिरःपादमत्यर्थं महावीरं महोरगाः । अवेष्टन्त महावृक्षं कपिकच्छूलता इव ॥२०४|| प्रजह्नुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ॥२०५।। उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स्म वज्रदशनानाशु मूर्षिकानुदपीपदत् ॥२०६।। स्वाम्यङ्गं खनकाश्चख्नु खैर्दन्तैर्मुखैः करैः । मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निचिक्षिपुः ॥२०७|| तेष्वप्यकिञ्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुशलं हस्तिरूपं ससर्ज सः ॥२०८।। सोऽधावत् पादपातेन मेदिनीं नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्त्रोटयन्निव ॥२०९।। कराग्रेण गृहीत्वा च दुवरिण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले ॥२१०।। विशीर्य कणशो गच्छत्वसाविति दुराशयः । दन्तावुदस्य स व्योम्नः पतन्तं स्म प्रतीच्छति ॥२११।। पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात् समुत्तस्थुः स्फुलिङ्गकाः ॥२१२।। न शशाक वराकोऽसौ कर्तुं किञ्चिदपि द्विपः । यावत्तावत्सुश्चक्रे करिणीं वैरिणीमिव ॥२१३।। अखण्डसुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ॥२१४।। करेणो रेणुसाद्भूते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥२१५।। ज्वालाजालाकुलं व्यात्तव्यायतं वक्त्रकोटरम् । अभवद्भीषणं तस्य वह्निकुण्डमिव ज्वलत् ॥२१६।। यमौकस्तोरणस्तम्भाविव प्रोत्तम्भितौ भुजौ । अभूच्च तस्य जङ्घोरु तुङ्गतालद्रुमोपमम् ॥२१७।। स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलिकिलारवः । कृत्तिवासाः कर्तिकाभृद्भगवन्तमुपाद्रवत् ॥२१८|| तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररूपं क्रुधाऽऽघ्रातः शीघ्रं चक्रे स निघृणः ॥२१९॥ अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । बूत्कारप्रतिशब्दैश्च रोदसी रोदयन्निव ॥२२०।। दंष्टाभिर्वज्रसाराभिर्नखरैः शलसोदरैः । अव्यग्रं व्यापिपति स्म व्याघ्रो भवनभर्तरि ॥२२॥ तत्र विच्छायतां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजरूपं स विचक्रे विबुधाधमः ॥२२२।। किमेतद्भवता तात ! प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च माऽस्माकं प्रार्थनामवजीगणः ॥२२३॥ वार्धके मामशरणं त्यक्तवान्नन्दिवर्धनः । विकृता त्रिशलां चैवं विललाप मुहुर्मुहुः ॥२२४॥ (युग्मम्)
१. सुदुर्मतिः खं. १-२ । २. सहोत्थिताः खं. १-२-३-४ । ३. योगवित्ते खं. १-२, मु. । ४. वृश्चन० मु. । ध्यानभने कृतनिश्चयः । ५. ०न्यसातयन् मु. । ६. मूषका० खं. ४ । ७. निष्फलतां गतेषु । ८. अखण्डतुण्ड० मु. नूतन मु. । ९. तस्यासारे खं. १-२ । सारे-बले रेणुसाद्भूते-धूल्यां मिलिते । १०. व्यात्तं-विवृतं व्यायतं-दीर्घम् । ११. जवोस्युगं खं. १-२ । १२. फूत्कुर्वन् खं. १-२ । १३. ०किलकिला० खं. १-२ विना । १४. चर्मवस्त्रः । १५. कर्चिका० मु. नूतन मु. । १६. ध्मातः मु. नूतन मु.।