________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । जान्वंसव्यं भुवि न्यस्य सव्यं च न्यञ्च्य किञ्चन । शक्रस्तवेनाऽवन्दिष्ट भूतलन्यस्तमस्तकः ॥१७०॥ समुत्थाय च सर्वाङ्गोदञ्चद्रोमाञ्चकञ्चकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् ॥१७१।। पाभो भोः ! सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः ! । शृणुत श्रीमहावीरस्वामिनो महिमाऽद्भुतम् ॥१७२।। दधानः पञ्चसमितीर्गुप्तित्रयपवित्रितः । क्रोध-मान-माया-लोभानभिभूतो निराश्रवः ॥१७३।। द्रव्ये क्षेत्रे च काले च भावे चाऽप्रतिबद्धधीः । रूक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः ॥१७४।।
अमरैरसुरैर्यौ रक्षोभिरुरगैनरैः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि ॥१७५॥ पाइत्याकर्ण्य वचः शाक्रं शक्रसामानिकः सुरः । ललाटपट्टघटितभ्रुकुटीभङ्गभीषणः ॥१७६।। कम्पमानाधरः कोपालोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः संगमकोऽवदत् ॥१७७|| मर्त्यः श्रमणमात्रोऽयं यदेवं देव ! वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ॥१७८|| देवैरपि न चाल्योऽयं ध्यानादित्युभटं प्रभो ! । कथं धार्येत हृदये धृतं वा प्रोच्यते कथम् ? ॥१७९।। रुद्धान्तरिक्षः शिखरैर्मूलै रुद्धरसातलः । यैः किलोदस्यते दोष्णा सुमेरुर्लोष्टुलीलया ॥१८०॥ सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेष सुगण्डूषङ्करश्च मकराकरः ॥१८१।। अप्येकभुजदण्डेन प्रचण्डां छत्रलीलया । उद्धरन्ति सहाऽनेकभूधरां ये वसुन्धराम् ॥१८२।। तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पन्नसिद्धीनां मर्त्यमात्रं कियानयम् ? ॥१८३|| एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ॥१८४||
अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखण्डितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ॥१८५।। पाततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिर्दुरालोको भयापसरदप्सराः ॥१८६।। विकटोर:स्थलाघातपुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यत्राऽऽसीत् परमेश्वरः ॥१८७।। (युग्मम्) निष्कारणजगबन्धुं निराबाधं तथास्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥१८८॥ गीर्वाणपांसन: पांसुवृष्टिं दुष्टोऽतनिष्ट सः । अकाण्डघटितारिष्टामुपरिष्टाज्जगत्प्रभोः ॥१८९।। विधुविधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वाङ्गीणं जगत्प्रभोः (भुः ?) ॥१९०।। समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांसुभिः । यथा समभवत् स्वामी निःश्वासोच्छ्वासवर्जितः ॥१९१।। तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलचलति किं गजैः परिणतैरपि ? ॥१९२॥ अपनीय ततः पांशं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वांङ्गपीलिकाः ॥१९३।। प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डाग्रैः सूच्यो निवसनेष्विव ॥१९४|| निर्भाग्यस्येव वाञ्छासु मोघीभूतासु तास्वपि । स दंशान् रचयामास नाऽकृत्यान्तो दुरात्मनाम् ॥१९५।। तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः । क्षरद्भिरभवन्नाथः सनिर्झर इवाऽद्रिराट् ॥१९६।।
१. जानु सव्यं खं. ३-४ । २. ०भ्रकुटी० खं. १-२-३ । ३. लोहिते-आयते च लोचने यस्य । ४. मेषोऽपि गण्डूषं कर० मु.। ५. मर्त्यमात्रः खं. १-२ । ६. चतुर्भिः कलापकम् खं. ३ । ७. चलयि० खं. ३ । ८. वेगानलो० मु. ।