________________
४८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व भर्त्सयित्वा नाविकांस्तान् भगवन्तममोचयत् । भक्त्या चाऽभ्यर्च्य परया चित्रो निजपुरं ययौ ॥१४२।। पाअथ वाणिजकै ग्रामं जगाम भगवानपि । बहिश्च धर्मध्यानस्थस्तत्राऽस्थात् प्रतिमाधरः ॥१४॥ तदा षष्ठतपास्तत्र नित्यमातापनापरः । आनन्दः श्रावको जातावधिः प्रभुमवदन्त ॥१४४|| स प्राञ्जलिर्बभाषे च भगवन्नतिदुस्सहान् । परीषहानसहिष्ठा उपसर्गांश्च दारुणान् ॥१४५॥ वज्रसारं शरीरं ते वज्रसारं च ते मनः । परीषहोपसगैरप्येभिर्यद्भज्यते न हि ॥१४६।। इदानीं केवलज्ञानमासन्नं वर्तते प्रभो ! इत्युदित्वा प्रभुं भूयो नत्वाऽऽनन्दो ययौ गृहम् ॥१४७|| पाकायोत्सर्ग पारयित्वा श्रावस्त्यां पर्युपेत्य च । दीक्षातो दशमं वर्षाकालं स्वाम्यत्यवाहयत् ॥१४८॥ पारयित्वा बहिस्तत्र ग्रामेऽगात् सानुयष्टिके । भद्रां च प्रतिमां तत्र भगवान् प्रत्यपद्यत ॥१४९।। तस्यां ह्यनशितः पूर्वं पूर्वाशाभिमुखः प्रभुः । एकपुद्गलविन्यस्तदृक् तस्थौ सकलं दिनम् ॥१५०॥ दक्षिणाभिमुखो रात्रिं पश्चिमाभिमुखो दिनम् । उत्तराभिमुखो रात्रिं षष्ठेन प्रतिमां व्यधात् ॥१५१॥ अपारितो महाभद्राप्रतिमां शिश्रिये प्रभुः । तस्थौ चतुरहोरात्रीं तत्र पूर्वादिदिक्क्रमात् ॥१५२।। दशमेन महाभद्रां कृत्वैवं प्रतिमां प्रभुः । प्रपेदे सर्वतोभद्रां द्वाविंशतितमेन सः ॥१५३।। प्रत्येकमप्यहोरात्रं तस्थौ दिक्षु दशस्वपि । किं तु न्यध्यायदूर्ध्वाधोद्रव्याण्यूर्ध्वाधराशयोः ॥१५४|| तिस्रोऽपि प्रतिमाः कृत्वा पारणाय जगद्गुरुः । आनन्दनाम्नो गृहिणः प्रविवेश निकेतनम् ॥१५५।। भाण्डानि क्षालयन्त्यासीद् बहुली तत्र चेटिका । त्यक्तुकामोषित भक्तमपश्यत् प्रभुमागतम् ॥१५६।। किं तुभ्यं कल्पत ? इति सा स्वामिनमभाषत । पाणिं प्रासारयत् स्वामी भक्त्याऽन्नं साऽपि तद्ददौ ॥१५७|| स्वामिपारणकप्रीतैः पञ्च दिव्यानि नाकिभिः । चक्रिरे तत्र सदने मुमुदे च जनोऽखिलः ॥१५८।। तदैव बहुली राज्ञा दासीभावादमोच्यत । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः ॥१५९।। पापारयित्वा प्रभुस्तत्र विहरन् पृथिवीमिमाम् । दृढभूमिमनुप्राप बहुम्लेच्छकुलाऽऽकुलाम् ॥१६०।। पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतप:कर्मा पोलासं चैत्यमाविशत् ॥१६१।। जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलम्बितभुजो दरावनतविग्रहः ॥१६२।। स्थिरचेता निर्निमेषो रूक्षकद्रव्यदत्तदृक् । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः ॥१६३|| पातदा शक्रः सुधर्मायां सभायां परिवारितः । सहस्रैश्चतुरशीत्या सामानिकदिवौकसाम् ॥१६४॥ त्रयस्त्रिंशत्रायस्त्रिशैः पर्षद्भिस्तिसृभिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतैः प्रकीर्णकैः ॥१६५।। प्रत्येकं चतुरशीत्या सहस्रैरङ्गरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥१६६।। सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवीगणैराभियोग्यैः किल्बिषिकादिभिः ॥१६७।। तूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकार्धं शक्र सिंहासने स्थितः ॥१६८।। अवधिज्ञानतो ज्ञात्वा भगवन्तं तथा स्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासङ्गं विधाय च ॥१६९॥
१. वाणिजकं खं. १ । २. धर्म्य० खं. १ । ३. आनन्दश्रा० खं. २, मु. । ४. पूर्वस्याभि० खं. २-३, मु. । ५. ०भद्रां प्रतिमां नूतन मु. । ६. उपवासचतुष्केन । ७. उपवासदशकेन । ८. न्यधायद्० मु. । न्यधाद् यदू० खं. १-३-४ । ९. ऊर्ध्वा च अधरा (अध:) च आशा-ऊर्ध्वाधराशा, तयोः । १०. १२. बहुला खं. २, मु. । ११. पुराणभक्तं । १३. पोलाशं खं. १-३ । पालासं मु. । १४. ईषद् नतशरीरः । १५. सेनावेष्टितैः ।