________________
चतुर्थः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
४७ पातं चाऽवलोक्य गोशालः स्वामिपाशर्वादुपेत्य च । ऊचे जानासि किं तत्त्वं? यूकाशय्यातरोऽसि वा ? ॥११४|| योषिद्वा पुरुषो वाऽसि ? सम्यग्विज्ञायसे न हि । इत्युक्तोऽपि तपस्वी स क्षमी नोवाच किञ्चन ॥११५॥ भूयो भूयोऽपि गोशालस्तथैव तमभाषत । यन्त्रेऽपि बहुशः क्षिप्तं श्वपुच्छं ने ऋजूभवेत् ॥११६।। तापसः स चकोपाऽथ तेजोलेश्यां ममोच च । अत्यन्तघष्टाहहनश्चन्दनादपि जायते ॥११७|| तस्या ज्वालाकरालाया भीतो गोशालको ययौ । अभि प्रभुं दवत्रस्तोऽभिनदीव वनद्विपः ॥११८॥ त्रातुं गोशालकं स्वामी शीतलेश्यामथाऽमुचत् । तेजोलेश्या तयाऽशामि वारिणेव हुताशनः ॥११९॥ तामृद्धिं स्वामिनः प्रेक्ष्य विस्मितो वैशिकायनः । समुपेत्य महावीरं सप्रश्रयमदोऽवदत् ॥१२०।। न ज्ञातो भवतामेष भगवन्नन्तिषज्जनः । तत्सहध्वमिहेदृक्षं प्रतीपाचरणं मम ॥१२१।। पाएवमुक्त्वा गते तस्मिन् प्रभुं गोशालकोऽवदत् । तेजोलेश्यालब्धिरियं जायते भगवन् ! कथम् ? ॥१२२।। स्वाम्याख्यत् सर्वदा षष्ठं विदध्याद्यश्च पारयेत् । यमी सनखकुल्माषमुष्ट्याऽम्बुचुलुकेन च ॥१२३॥ तस्य षण्मासपर्यन्ते तेजोलेश्या गरीयसी । उत्पद्येताऽस्खलनीया प्रतिपक्षभयङ्करा ॥१२४|| पाकूर्मग्रामाच्च गोशालेनाऽन्वितः परमेश्वरः । प्रतस्थे प्रतिसिद्धार्थपुराख्यं नगरोत्तमम् ॥१२५।। संप्राप्ते तत्तिलस्तम्बदेशे गोशालकोऽवदत् । न निष्पन्नस्तिलस्तम्बो यः स्वामिभिरुदीरितः ॥१२६। स्वाम्याचख्यौ तिलस्तम्बो निष्पन्नः सोऽत्र विद्यते । गोशालोऽश्रद्दधत्तत्र तिलशिम्बां व्यदारयत् ॥१२७|| तत्र सप्ततिलान् पश्यन्नेवं गोशालकोऽवदत् । जायन्तेऽङ्गे परावृत्त्य पुनस्तत्रैव जन्तवः ॥१२८|| पातेजोलेश्यां स्वाम्याख्यातां स साधयितुमन्यदा । स्वामिपादान् परित्यज्य श्रावस्ती नगरी ययौ ॥१२९।। स कुम्भकारशालायां स्थितः पाण्मासिकं तपः । अन्वतिष्ठद्यथाख्यातं तेजोलेश्या सिषेध च ॥१३०॥ तेजोलेश्यापरीक्षार्थं स गत्वा कूपकण्ठके । स्वस्य कोपकृते दास्याः कर्करेणाऽभिनद् घटम् ॥१३१।। सा तमाक्रोष्टुमारेभे तेनापि मुमुचे क्षणात् । तेजोलेश्या तडिदिव च्युता दासी ददाह सा ॥१३२।। संजातप्रत्ययश्चैवं कौतुकालोकनप्रियः । गोशालको वृतो लोकैविहर्तुमुपचक्रमे ॥१३३॥ श्रीपाश्रर्वशिष्या अष्टाङ्गनिमित्तज्ञानपण्डिताः । गोशालकस्य मिलिताः षडमी प्रोज्झितव्रताः ॥१३४|| नाम्ना शोणः कलिन्दोऽन्यः कर्णिकारोऽपरः पुनः । अच्छिद्रोऽथाऽग्निवेशानोऽथाऽर्जुनः पञ्चमोत्तरः ॥१३५।। तेऽप्याख्युरष्टाङ्गमहानिमित्तं तस्य सौहृदात् । पुंसां समानशीलानां सद्यो भवति सौहृदम् ॥१३६॥ तेजोलेश्याऽष्टाङ्गमहानिमित्तज्ञानगर्वितः । 'अहं जिनोऽस्मी'ति वदन् वसुधां विजहार सः ॥१३७॥ पानाथोऽपि सिद्धार्थपुराद्वैशाली नगरी ययौ । शङ्खः पितृसुहृत्तत्राऽभ्यानर्च गणराट् प्रभुम् ॥१३८॥ ततः प्रतस्थे भगवान् ग्रामं वाणिजकं प्रति । मार्गे गण्डकिका नाम नदी नावोत्ततार च ॥१३९।। उत्तीर्णमात्रो भगवान् सैकते तप्तवालुके । अधारि नाविकैद्युत्तारणद्रविणार्थिभिः ॥१४०॥ तदा च शङ्खगणराड्जामेयश्चित्रनामकः । नौसेन्येनाऽऽगतो दूतो निवृत्तः प्रभुमैक्षत ॥१४१॥
१. श्वपुच्छमनृजू० खं. २ - ४, मु. । २. विरुद्धाचरणं । ३. नियमवान् । ४. तुषयुक्त-कुल्माषमुष्ट्या । ५. शम्बां खं. १-४ । ६. सा तं क्रोष्टुमथाऽऽ खं. ४ । ७. क्रुधा नूतन मु. । ८. षष्ठः । ९. मण्डिकिकां मु. । १०. भगिनीपुत्रः । ११. दौत्ये खं. ३ । दूत्य-खं. १ ।