________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व छागं निहत्य रक्तेन मिश्रं चक्रे स बालकम् । पन्या च सूतिनेपथ्यं ग्राहयामास बुद्धिमान् ॥८५।। मद्भार्या गूढगर्भाऽऽसीत् सा सुतं सुषुवेऽधुना । प्रावादीदिति लोके स चकार च महोत्सवम् ॥८६।। पातन्माता वेशिका चौरेश्चम्पापुर्यां चतुष्पथे । अथाऽस्थाप्यत विक्रेतुं क्रीता योग्येति वेश्यया ॥८७|| गणिकाव्यवहारं सा शिक्षिता वेश्यया तया । प्रसिद्धगणिका जज्ञे रूपावगणिताप्सराः ॥८८॥ क्रमेण तरुणीभूतो गोशङ्खिकसुतोऽपि हि । विक्रेतुं घृतशकटं चम्पायां ससुहृद्ययौ ॥८९।। पौरान् विलसतस्तत्र विदग्धरमणीवृतान् । सोऽपि दृष्ट्वा रन्तुमिच्छुर्गणिकापाटकं ययौ ॥१०॥ ददर्श वेशिकां वेश्यामध्यस्थां स स्वमातरम् । तामेवैच्छद्रमयितुमज्ञा हि पशुवज्जनाः ॥११॥ अदापयद् ग्रहणकं तस्या एव तदैव सः । निशि स्नातविलिप्ताङ्गस्तद्गृहाय चचाल च ॥९२।। पादः शकति निर्मग्नो गच्छतस्तस्य वर्त्मनि । न सोऽज्ञासीत् क्वचिन्मग्न इति स्मरविमोहितः ॥९३।। तं प्रबोधयितुं सद्यस्तदीया कुलदेवता । विकृत्य गां च वत्सं चाऽन्तरा तस्थौ तदध्वनः ॥९४|| वत्से घर्षितुमारेभे यावत् सोऽहि पुरीषिणम् । वत्सः स तावन्मानुष्या वाचा गामित्यवोचत ।।९५।। मातः ! पश्याऽयमहीकः पुंस्पशुधर्मवर्जितः । शहल्लिप्तं निजं पादं मयि घर्षति निघृणः ॥९६।। गौरप्युवाच मा ताम्य नाऽकृत्यं किञ्चिदस्य हि । निजां यो जननी रन्तुं त्वरते कामगर्दभः ॥१७॥ तच्छ्रुत्वाऽचिन्तयत् सोऽपि गावो नरगिरा कथम् । वदन्त्यमुष्या वेश्यायाः सूनुरस्मि कथं नु वा ? ||१८|| प्रक्ष्यामि वेश्यां तामेवेत्यालोच्याऽगात्तदोकसि । अभ्युत्थानादिना तस्य प्रतिपत्तिं व्यधाच्च सा ॥१९॥ निरुद्धकामव्यापारः साशङ्को गोगिराऽथ सः । स्थित्वा क्षणमवोचत्तां पारम्पर्यं निजं वद ॥१००।। साऽनाक र्णितकं कृत्वा हावभावानदर्शयत् । इदं हि पण्यनारीणां मुख्यं मन्मथशासनम् ॥१०१।। पासोऽप्यवोचत दास्यामि जल्पितद्विगुणं धनम् । स्वकीयं ब्रूहि सद्भावं स्वपित्रोः शपथश्च ते ॥१०२।।
एवं मुहुर्मुहुस्तेन पृष्टा साऽऽख्यद्यथातथम् । साशङ्कः सोऽपि चोत्थाय जगाम ग्राममात्मनः ॥१०३|| सोऽपृच्छत् पितरौ तत्र युवयोरङ्गजोऽस्मि किम् ? । लब्धः क्रीतोऽथवाऽन्यो वा? कथ्यतां मे यथातथम् ॥१०४|| आवयोरङ्गजोऽसीति यदा तौ हि जजल्पतुः । तदा सोऽनशितस्तस्थावयथाख्यानपीडितः ॥१०५।। यथातथमथाऽऽख्यातां तत्प्राप्ति पितरावपि । अज्ञासीद् वेशिकां वेश्यां सोऽपि मातरमात्मनः ॥१०६।। गत्वा चम्पां वेशिकायाः स्ववृत्तान्तं शशंस सः । साऽपि तं स्वसुतं ज्ञात्वा रुरोद न्यग्मुखी ह्रिया ॥१०७॥
अमोचयच्च कट्रिन्या द्रव्यं दत्वा स्वमातरम् । ग्रामे नीत्वा निजेऽमञ्चद्धर्ये चाऽस्थापयत पथि ॥१०८।। पावेशिकासूनुरित्यासीत् स नाम्ना वैशिकायनः । तदैव विषयोद्विग्नश्चाऽऽददे तापसव्रतम् ॥१०९।।
स्वशास्त्राध्ययनपर: स्वधर्मकुशलः क्रमात् । कूर्मग्रामे स आगच्छच्छीवीरागमनाग्रतः ॥११०॥ तद्बहिश्चोर्ध्वदोर्दण्ड: सूर्यमण्डलदत्तदृक् । लम्बमानजटाभारो न्यग्रोधद्रुरिव स्थिरः ॥१११॥ निसर्गतो विनीतात्मा दयादाक्षिण्यवान् शमी । आतापनां स मध्याह्ने धर्मध्यानस्थितोऽकरोत् ॥११२।। आदित्यकरतापेन यूका निपतिता भुवि । ग्राहं ग्राहं स चिक्षेप भूयो मूनि कृपानिधिः ॥११३।।
१. ०दिति च लोके खं. १ । २. अवास्था० खं. ४ विना, मु. । ३. मूल्यम् । ४. विष्ठायाम् । ५. सोऽघ्रिं खं. २-४, मु.। ६. प्रेक्षामि मु. । ७. कुलपरम्पराम् । ८. अश्रुतमिव । ९. ग्रामं खं. ३ । १०. निजं खं. ३ । ११. ०द्धर्मे मु. । १२. द्विग्न आददे मु. । १३. धर्म्य० खं. १-२ ।