________________
चतुर्थः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
६
स्वामी कर्मध्वंसकत्वादुपसर्गेर्जहर्ष तैः । शल्यार्दित इव च्छेदैः शल्योद्धरणहेतुभिः ॥५७॥ कर्मक्षयसहायांस्तान्म्लेच्छान् बन्धूनिव प्रभुः । मेने ततोऽधिकान् वापि कर्मरोगभिषक् स्वयम् ॥५८॥ चकम्पे चाऽचलो मेरुर्यत्पादाङ्गुष्ठपीडनात् । कर्मभिः पीड्यमानः सोऽप्येवं वीरो व्यवर्तत ॥५९॥ शक्रेणापन्निषेधाय यः सिद्धार्थो न्ययुज्यत । गोशालोत्तरवेलायां जैजृम्भे सोऽपि नाऽन्यदा ।। ६०|| यत्पादाग्रे किंकरन्ति लुठन्ति च मुहुर्मुहुः । सुरेन्द्रास्तेऽपि हा ! सर्वे तत्पीडायामुदाते ॥ ६१ ॥ यन्नाममन्त्रमात्रेण द्रवन्ति दुरुपद्रवाः । सोऽप्युपद्रूयते क्षुद्रैः कस्य पूत्कुर्महे पुरः ? ||६२ || धिक् सुकृतानि जगतो यैः स्वामिप्रभवैरपि । कृतघ्नैर्विघ्ननिघ्नात्मा स्वामी त्रातो न दुर्विधेः ॥६३॥ जगात्त्राणक्षयसहं न स्वौजोऽप्याहत प्रभुः । स्वौज : फलं हि गृह्णन्ति संसारसुखगृध्नवः ॥ ६४ ॥ अनाप्नुवन् वसतिमप्युष्णशीतादिभाजनम् । धर्मजागरिकां जाग्रत् षण्मासान् स्वाम्यवास्थित ॥६५॥ नवमीं प्रावृषं तत्र धर्मध्यानपरायणः । शून्यागारे द्रुतले वा स्थितः स्वाम्यत्यवाहयत् ॥६६॥ [[सगोशालस्ततः स्वामी सिद्धार्थपुरमाययौ । ततोऽपि प्राचलद् ग्रामं कूर्मग्रामाभिधं प्रति ||६७|| मार्गे दृष्ट्वा तिलस्तम्बं गोशालः प्रभुमभ्यधात् । स्वामिन्नेष तिलस्तम्बः कच्चिन्निष्पत्स्यते न वा ? ॥६८॥ ततो भवितव्यताया वशेन भगवानपि । त्यक्त्वा मौनं स्वयमाख्यद् भद्र ! निष्पत्स्यते ह्यसौ ॥ ६९ ॥ सप्तापि पुष्पजीवास्तु परमस्मिन्नवस्थिताः । एकस्यामेव शम्बायां तावन्तो भाविनस्तिलाः ॥७०॥ तद्वचोऽश्रद्दधानेन गोशालेनोदखानि सः । तिलस्तम्बः समृत्पिण्डो मुमुचे चाऽन्यतः क्वचित् ॥७१॥ असत्या स्वामिवाङ् मा भूदित्यासन्नसुरैस्तदा । वारिवृष्टिर्विचक्रे द्राक् तिलस्तम्बोऽप्युदश्वसत् ॥७२॥ तत्प्रदेशेन गच्छन्त्या गोराक्रान्तः खुरेण सः । प्रविष्ट: क्लिन्नभूमध्ये सुप्रतिष्ठोऽभवत्ततः ॥७३॥ क्रमात् प्ररूढमूलोऽभूत् क्रमाच्चोद्भिन्नकन्दलः । प्रावर्तन्त तिलस्तम्बे तानि पुष्पाणि वर्धितुम् ॥७४॥ गोशालेनाऽन्वीयमानो दुर्धिया भक्तमानिना । कूर्मग्रामाभिधे ग्रामे जगाम भगवानपि ॥७५॥ [इतश्चास्ति धनापूर्णश्चम्पा–राजगृहान्तरे । नामतो गोबरंग्रामो महीमण्डलमण्डनम् ॥७६॥ कुटुम्बी तत्र गोशङ्खी नामाऽऽभीराधिपोऽभवत् । वन्ध्या बन्धुमती नाम भार्या तस्याऽतिवल्लभा ॥७७॥ ग्रामस्य तस्य चाऽऽसन्नो ग्रामः खेटकनामकः । हतो दस्युभिरभ्येत्य बन्दा जगृहिरेऽपि च ॥७८॥ तदा च वेशिका नाम तत्र स्त्री सुषुवे सुतम् । हते पत्यौ सुरूपेति दस्युभिश्चालिता चै सा ॥७९॥ सा तु प्रसवरोगार्ता बालपाणिः शशाक न । गन्तुं तैर्वेगिभिश्चौरैर्गौर्दुर्दान्तवृषैरिव ॥८०॥ अथ तामूचिरे चौरा यदि त्वं जीवितार्थिनी । तदेनं बालकं मुञ्च मूर्तं व्याधिमिवाऽऽत्मनः ॥८१॥ साऽर्भं तरुतले मुक्त्वा भीताऽगाद्दस्युभिः समम् । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियम् ॥८२॥ प्रभाते सह गोरूपैर्गोशङ्खी तत्र चाऽऽगतः । ईक्षाञ्चक्रे बालकं तं सुरूप इति चाऽग्रहीत् ॥८३॥ निजपल्याः सुतत्वेन स तं बालकमार्पयत् । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः ॥८४॥
४५
१. बन्धो० खं. ४ । २. गोशालोदन्त० खं. १ । ३. जिज़० खं. ४ । ४. यत्पादान्ते मु. । ५. विघ्नाधीनात्मा । ६. सर्वाणि सुकृतानि जगति स्वामि-प्रभवानि सन्ति । तान्यपि कृतघ्नानि संजातानीति मन्ये । यतः तैर्जगत्समस्तस्य सुकृतैरपि विघ्नाधीनः स्वामी दुर्दैवान्न त्रातः । ७. स्वबलम् । ८. शिम्बा० मु. । ९. गोर्वर० खं. १ - २ । १०. नामाभिरा० खं. ३ । नामा वीरा० खं. १ । ११. बन्धवती मु. । १२. तु खं. ४ । १३. बालः पाणौ यस्याः सा ।