________________
४४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व तत्र गत्वा स्वयं मल्लिप्रतिमायाश्च वागुरः । त्रिसन्ध्यं विदधे पूजां गृहीताभिग्रह: सुधीः ॥२८॥ तं ज्ञात्वा जिनभक्तं तु तद्वेश्मनि समाययुः । विहर्तुं साधवः साध्व्यः सोऽप्यानर्च सदैव तान् ॥२९।। साधूनां नित्यसंसर्गाच्छ्रेष्ठिनौ श्रेष्ठबुद्धिकौ । श्रावकत्वं प्रपेदाते विधिज्ञौ च बभूवतुः ॥३०॥ पाइतश्च भगवान् वीरस्तस्थौ प्रतिमया स्थिरः । अन्तरे शकटमुखोद्यानस्य च पुरस्य च ॥३१॥ तत्र वन्दितुमायात ईशानेन्द्रो जिनेश्वरम् । ददर्श वागुरं यान्तं मल्लिबिम्बार्चनेच्छया ॥३२॥ ईशानो वागुरं चोचे किं प्रत्यक्षं जिनेश्वरम् । अतिक्रम्याऽग्रतो यासि तबिम्बार्चनहेतवे ? ॥३३|| अयं हि भगवान् वीरश्चरमस्तीर्थकृत् स्वयम् । छद्मस्थो विहरन्नत्र वर्तते प्रतिमास्थितः ॥३४॥ मिथ्यादुष्कृतमित्युक्त्वा त्रिश्च कृत्वा प्रदक्षिणाम् । स ववन्दे विभुं भक्त्या कूर्मवत् संकुचत्तनुः ॥३५॥ ईशानो वागुरवेशं नत्वा द्वावपि जग्मतुः । उष्णाकं सन्निवेशं च प्रत्यगाद्भगवानपि ॥३६॥ पागच्छतः स्वामिनोऽभूतां संमुखीनौ वधूवरौ । तत्कालजातवीवाही सर्वतो विकृताकृती ॥३७॥ प्रेक्ष्य गोशालकोऽवोचदहो ! द्वावपि तुन्दिलौ । दन्तुरौ दीर्घचिबुकग्रीवौ चिल्लौ कुनासिकौ ॥३८॥ अहो ! संयोजनौचित्यं विधातुर्यदिमावुभौ । कृतौ वधूवरत्वेन मन्ये सोऽपि कुतूहली ॥३९।। एवमग्रे तयोर्भूत्वा भूयो भूयो जगाद सः । अट्टहासं च विदधे वैहासिक इवाऽसकृत् ॥४०॥ वधूवरनराः क्रुद्धास्तं तस्करमिव द्रुतम् । बद्ध्वा मयूरबन्धेन चिक्षिपुर्वंशगह्वरे ॥४१॥ गोशालोऽवोचत स्वामिन् ! किं बद्धं मा मुपेक्षसे ? । कृपालुस्त्वं परजनेऽप्यसि किं न हि सेवके ? ॥४२॥ तं बभाषे च सिद्धार्थो नित्यसिद्धा विपद्धि ते । निजदुश्चरितैरेव चपलस्य करिव ॥४३|| स्वाम्यप्यदूरे गत्वाऽस्थात्तत्प्रतीक्षणकाम्यया । वधूवरनरा नाथं प्रेक्ष्य चैवं व्यचिन्तयन् ॥४४॥ पीठभृच्छत्रभृद्वाऽसौ यद्वाऽन्योऽप्यस्य सेवकः । देवार्यस्य तपोराशेर्यदेषोऽमुं प्रतीक्षते ॥४५॥
एवं विचिन्त्य तेऽमुञ्चन् गोशालं स्वाय॑पेक्षया । समं तेन व्रजन् स्वामी क्रमाद् गोभूमिमासदत् ॥४६॥ पागोशाल ऊचे गोपालाम्लेच्छा बीभत्समूर्तयः । व्रजशूरा ! व्रजत्येष क्व पन्थाः कथयन्तु भोः ! ॥४७|| प्रत्यूचिरे च गोपालाः किमस्मान् कारणं विना । आक्रोशस्येवमध्वन्य ! श्वशुर्यो नाऽसि नः खलु ॥४८॥ गोशालोऽप्यब्रवीद् भूयो दासेराः ! पशुपुत्रकाः ! । सहिष्यध्वे न चेयूयमाक्रोक्ष्याम्यधिकं तदा ॥४९॥ स्वभावाख्यानमेतद्वो नाक्रोशोऽयं मया कृतः । किं यूयं म्लेच्छबीभत्सा इत्यलीकं मयोदितम् ? ॥५०॥ ते कद्धाः कयित्वा तं बध्वा वंशवनेऽक्षिपन । अमोचयंश्च पथिकास्तमन्ये करुणापराः ॥५॥ स्वामी राजगृहे गत्वा वर्षारात्रमथाऽष्टमम् । चतुर्मासक्षपणभृद्विविधाभिग्रहोऽकरोत् ॥५२॥ पाचतुर्मासावसाने तु स्वामी बहिरपारयत् । निर्जार्यं कर्म मेऽद्यापि बह्वस्तीति व्यचिन्तयत् ॥५३॥
वज्रभूमि-शुद्धभूमि-लाढादिम्लेच्छभूमिषु । कर्मनिर्जरणायाऽगात् स्वामी गोशालकान्वितः ॥५४॥ स्वच्छन्दं तत्र च म्लेच्छाः परमाधार्मिकोपमाः । नानाविधैरुपसर्गः श्रीवीरमुपदुद्रुवुः ॥५५॥ जग : स्वामिनं केऽपि जहसुः केचिदुच्चकैः । सारमेयादिभिर्दुष्टसत्त्वैः केचिदवेष्टयन् ॥५६।।
१. ऐशानेन्द्रो खं. १-२-३ । २. ऐशानो खं. ३ । ३. क्लिन्ननेत्रौ । ४. विदूषकः । ५. किं मां बद्ध० मु., खं. १-२ । ६. स्वामिप्रेक्षया मु. । ७. ०मूर्छा बी० खं. १-२ । ८. व्रजे एव शूराः । ९. श्याल: । १०. ०दारकाः खं. ४ । ११. आमोच० खं. १-३ । १२. निर्जर्यं मु. । निर्जीर्यं खं. ३ । १३. लाटा० खं. २-४, मु. ।