________________
चतुर्थः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
॥ अथ चतुर्थः सर्गः ॥ अथ स्वामी महावीरो गोशालेनाऽनुसेवितः । मासानष्टाऽनुपसर्ग व्याहार्षीन्मगधावनौ ॥१॥ पुरीमालभिकां गत्वा सप्तमी प्रावृषं प्रभुः । चतुर्मासक्षपणभृद्वीरस्वाम्यत्यवाहयत् ॥२॥ चतुर्मासावसाने च पारयित्वा बहिः प्रभुः । गोशालसंयुतोऽगच्छत् कुंण्डाके सन्निवेशने ॥३॥ तत्र स्वामी वासुदेवायतनस्यैककोणके । तस्थौ प्रतिमया रत्नप्रतिमेव निवेशिता ||४|| निहीं: प्रकृत्या गोशालश्चिरसंलीनताऽऽतुरः । न्यस्य विष्णुप्रतिमाऽऽस्येऽधिष्ठानं समवस्थितः ॥५॥ आयातश्चाऽर्चको दृष्ट्वा तं तथास्थमचिन्तयत् । पिशाचः कोऽप्यसौ नूनं ग्रहात्तः कोऽपि वा भवेत् ॥६।। एवं विचिन्त्याऽऽयतने प्रविष्टस्तं निरीक्ष्य सः । नग्नत्वाच्छ्रमणो मन्ये कोऽप्यसावित्यलक्षयत् ॥७॥ एवं च दध्यौ यद्येनं हनिष्यामि तदा जनः । वदिष्यत्यमुना दुष्टेनाऽदोषो धार्मिको हतः ॥८॥ करोतु ग्राम एवास्योचितमाख्यामि तत्पुरः । इति गत्वा समानैषीद् ग्रामं तद्दर्शनाय सः ॥९॥ (युग्मम्) चपेटाभिर्मुष्टिभिश्च स जघ्ने ग्राम्यदारकैः । हत्वाऽमुं ग्रहिलमलमिति वृद्धैरमोच्यत ॥१०॥ पाकर्मारिमर्दनः स्वामी मर्दनाख्ये निवेशने । गत्वा चाऽस्थात् प्रतिमया बलदेवनिकेतने ॥११॥
लिङ्गं बलमुखे दत्त्वा गोशालोऽस्थाच्च पूर्ववत् । पूर्ववत् कुट्टितो ग्राम्यैः पूर्ववच्च विमोचितः ॥१२॥ पाग्रामेऽगाद् बहुशालाख्ये तप:शाली जगद्गुरुः । तत्र शालवनोद्याने तस्थौ च प्रतिमाधरः ॥१३|| शालार्या नामतस्तत्र व्यन्तरी कारणं विना । क्रुद्धोपसर्गानकरोत् स्वामिनः कर्मघातकान् ॥१४|| सा श्रान्ता नाथमानर्च नाथोऽपि विहरन् ययौ । पुरं लोहार्गलं राज्ञाऽधिष्ठितं जितशत्रुणा ॥१५।। तस्य राज्ञोऽन्येन राज्ञा विरोधः समभूत्तदा । आयान् स्वामी सगोशालस्तत्पुम्भिश्च पथीक्षितः ॥१६|| नोचे किञ्चिद्यदा स्वामी पृष्टस्तै राजपूरुषैः । तदानीं हेरिक इति जितशत्रोः समर्पितः ॥१७॥ पूर्वायातोऽस्थिकग्रामादुत्पलो नाथमैक्षत । ववन्दे च यथावस्थं जितशत्रोः शशंस च ॥१८॥ राज्ञाऽपि वन्दितो भक्त्या विहरन् भगवान् ययौ । पुरे पुरिमतालाख्ये तत्र चेदं पुराऽभवत् ॥१९॥ पातत्राऽऽसीद्वागुरः श्रेष्ठी धनी भद्रा च तत्प्रिया । वन्ध्या श्रान्ता सुतकृते दत्तैर्देवोपयाचितैः ॥२०॥ श्रेष्ठिनौ शकटमुखोद्याने तावन्यदा गतौ । चिरं चिक्रीडतुर्देवाविव पुष्पोच्चयादिना ॥२१॥ भ्रमन्तौ क्रीडया तत्र जीर्णमायतनं महत् । दृष्ट्वा कौतूहलान्मध्येऽविशतां तावुभावपि ॥२२॥ प्रतिमा मल्लिनाथस्य सुधावर्तिनिभां दृशोः । अपश्यतां दम्पती तौ श्रद्धापूर्वं च नेमतुः ॥२३|| तावूचतुर्देव ! यदि त्वत्प्रसादाद्भविष्यति । सुतः सुता वा तच्चैत्यमुद्धरिष्यावहे तव ॥२४॥ त्वद्भक्तौ च भविष्यावस्ततः प्रभृति सर्वदा । इत्युदित्वा जग्मतुस्तौ श्रेष्ठिनौ निजमन्दिरम् ॥२५॥ तत्राऽऽसन्नार्हतव्यन्तर्यनुभावेन चाऽभवत् । भद्राया उदरे गर्भः श्रेष्ठिनः प्रत्ययप्रदः ॥२६।। गर्भाहादपि चारभ्य प्रारेभे वागुरो मुदा । तद्देवकुलमुद्धर्तुमात्मानमिव दुर्गतेः ॥२७॥
१. उपसर्गरहितत्वेन । २. पुनः खं. ४ । ३. ०स्वाम्यतिवाह० खं. १-२ । ४. कुंडके मु. । ५. निहीः खं. १-४ । ६. पुरुषचिह्नम् । ७. समवास्थित मु. । ८. नग्नत्वात् क्षमणो खं. १ । ९. ग्राम्यांस्त० मु. । १०. साला० खं. १-२-३ । शालाया मु., खं. १-२ । ११. दृष्ट० खं. १-२ । १२. श्रेष्ठी च श्रेष्ठिनी च इत्येक शेषः ।