________________
४२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
पास्वामी जगाम वैशाल्यां शालां कर्मारसंश्रिताम् । अनुज्ञाय जनांस्तत्स्थांस्तस्थौ च प्रतिमाधरः ॥६०५।। कर्मारो रोगितश्चैकः षण्मास्या कल्यतां गतः । शुभेऽहनि स्वजनेन वृतः शालामियाय ताम् ॥६०६।। तत्राग्रे स्वामिनं दृष्ट्वा सोऽचिन्तयदहो इदम् । प्रथमेऽप्यह्नि पाखण्डिदर्शनाशकुनं मम ॥६०७|| इहैवाऽमङ्गलमिदं पातयामीत्ययोघनम् । उत्पाट्य स्वामिनं हन्तुं सोऽधावत दुराशयः ॥६०८॥ क्व स्वामीति तदा ज्ञातुं प्रायुक्त मघवाऽवधिम् । जिघांसुं तं च कर्मारमपश्यच्चाऽऽजगाम च ॥६०९।। तस्यैव तं घनं मूनि स्वशक्त्याऽपातयद्धरिः । कथञ्चिद्रोगमुक्तोऽपि जगाम स यमालयम् ||६१०|| प्रणम्य स्वामिनं शक्रः कल्पं सौधर्ममभ्यगात् । स्वामी च विहरन् प्राप ग्रामाकं सन्निवेशनम् ॥६११॥ बिभेलकाभिधानस्य तत्र यक्षस्य सद्मनि । बिभेलकोद्यानस्थेऽस्थात् कायोत्सर्गधरः प्रभुः ॥६१२॥
स यक्षः प्राग्भवस्पृष्टसम्यक्त्वोऽपूजयत् प्रभुम् । दिव्यैः पुष्पाङ्गरागाद्यैरनुरागाधिवासितः ॥६१३।। पाग्रामेऽथ शालिशीर्षेऽगात्तत्र च त्रिजगत्प्रभुः । उद्यानेऽस्थात् प्रतिमया माघमासस्तदा त्वभूत् ॥६१४|| वानमन्तरिका तत्र नामतः कटपूतना | त्रिपृष्टजन्मनि विभोः पत्नी विजयवत्यभूत् ॥६१५।। सम्यगप्रतिचरिता सामर्षा च सती मृता । भ्रान्त्वा भवान् सा मानुष्यं प्राप्य बालतपोऽकरोत् ॥६१६।। सा तत्र व्यन्तरीभूता स्वामिनः पूर्ववैरतः । तेजोऽसहिष्णुळकरोत्तापसीरूपमग्रतः ॥६१७|| जटाभृद्वल्कलधरा हिमशीतेन पाथसा । आर्द्रयित्वा वपुस्तस्थावुपरिष्टाज्जगत्प्रभोः ॥६१८|| ततो वातं विकृत्याऽङ्गान्यधुनोच्छल्लकीव सा । जिने पेतुः शलानीव दुःसहाश्चाऽम्बुबिन्दवः ॥६१९॥ जटाग्राद्वल्कलाग्राच्च पतन्तस्तोयबिन्दवः । चिक्लिशु थमन्यश्चेद्भवेन्नूनं स्फुटेत्तदा ॥६२०॥ भर्तुः शीतोपसर्गं तं सहमानस्य तां निशाम् । विशेषात् कर्मक्षपणं धर्मध्यानमदीप्यत ॥६२१॥ बभूव चाऽवधिज्ञानं श्रीवीरस्वामिनोऽधिकम् । अनुत्तरस्थितस्येव सर्वलोकावलोककम् ॥६२२।। सहजं त्ववधिज्ञानं यावद्देवभवेऽभवत् । एकादशाङ्गीसूत्रार्थभृत्त्वं च चरमार्हतः ॥६२३।। शान्ता निशान्ते सा सानुतापा च कटपूतना । पूजयित्वा प्रभुं भक्त्या निजं स्थानमुपाययौ ॥६२४।। पाअथ गत्वा भद्रिकायां पुर्यां तस्थौ तपःपरः । दीक्षायाः प्रावृष षष्ठीमतिवाहयितुं प्रभुः ॥६२५।। गोशालस्तत्र मिलितः षष्ठान्मासाज्जगद्गुरोः । सेवां कुर्वन् प्राग्वदस्थात् प्रत्यहं प्रीतमानसः ॥६२६।। विविधाभिग्रहपूर्वकं चतुर्मासक्षपणं तत्र च प्रभुः । कृत्वा वर्षारात्रनिर्गमे विदधे पारणकं पुरो बहिः ॥६२७||
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरप्रथमषड्वर्षछद्मस्थविहारवर्णनो नाम तृतीयः सर्गः ॥
-Kvk
१. विशाल्यां मु. । २. ग्रामा खं. १-२ । ३. बिभेलिका० खं. ४, मु. । ४. बिभेलिको० मु. । ५. बाणम० मु. । ६. असन्तोषिता । ७. सामर्थैव नूतन मु. । सामर्षे च खं. १-२-३-४ । ८. वारिणा । ९. 'शाहुडी' इति भाषायाम् । १०. शल्लकीशूलानि । ११. चिक्लिदु० खं. १-२ । १२. ०लोकनम् मु. । १३. षष्ठमासा० खं. १-२, मु. । १४. वर्षारात्रि० खं. १-२ । १५. सर्गः समाप्तः ॥६२८॥ खं. १ । ६०३ खं. २ । ६२७ खं. ३-४ ।