________________
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । नक्तं चतुष्के ते तस्थुर्नन्दिषेणमहर्षयः । कायोत्सर्गभृतो धर्मध्यानेन स्थाणुवत्स्थिराः ॥५७८॥
आरक्षेण च दृष्टास्ते चौरभ्रान्त्या च जघ्निरे । सद्यो जातावधिज्ञाना मृत्वा दिवमुपासदन् ॥५७९॥ प्रेक्ष्य गोशालकस्तेषां महिमानं कृतं सुरैः । तच्छिष्याणामुपेत्याऽख्यदुच्चैर्भर्त्सनपूर्वकम् ॥५८०॥ पाअथाऽगाद्विहरन् वीर: कूपिकं सन्निवेशनम् । तत्राऽऽरक्षैः सगोशालः स्पशभ्रान्त्या कदर्थितः ॥५८१।।
देवार्यो रूपवान् शान्तो युवाऽऽरक्षैः स्पशभ्रमात् । निरागास्ताड्यमानोऽस्तीत्युल्लापोऽभूज्जनेऽखिले ॥५८२।। पार्श्वशिष्ये च प्रगल्भा-विजये प्रोज्झितव्रते । निर्वाहाय परिव्राट्त्वं प्रपन्ने तत्र तिष्ठतः ॥५८३।। वार्तामाकर्ण्य तां मा भूद्वीरोऽर्हन्निति शङ्कया । तत्रेयतुस्तथास्थं च भगवन्तमपश्यताम् ॥५८४॥ (युग्मम्) ते स्वामिनं ववन्दाते आरक्षांश्चैवमूचतुः । रे मूर्खा ! किं न जानीथ वीरं सिद्धार्थनन्दनम् ? ||५८५।। शीघ्रं मुञ्चत चेज्ज्ञाता शक्रो व्यतिकरं ह्यमुम् । पातयिष्यति वो मूनि वज्रं प्राणहरं तदा ॥५८६।। प[अथ तैश्चकितैर्मुक्तः क्षमितश्च प्रभुः पुरीम् । वैशाली प्रति चचाल द्वौ मार्गों स्तस्तदन्तरे ॥५८७।। तत्राऽवोचत गोशालो नाऽऽयास्यामि त्वया समम् । मां हन्यमानमपि यत्त्वं तटस्थ इवेक्षसे ॥५८८।। अन्यत्तवोपसर्गः स्युरुपसर्गा ममापि हि । यदग्निः शुष्कसम्पर्कादहत्यार्द्रमपि क्षणात् ।।५८९।। अन्यच्च लोको मामादौ निहन्ति त्वां ततः खलु । क्लेशाद्भोजनवृत्तिश्च जायते वा न वा मम ॥५९०।। ग्रावखण्डे च रत्ने चाऽरण्ये च नगरेऽपि च । आतपे मण्डपे चापि वह्नौ च सलिलेऽपि च ॥५९१॥ जिघांसौ सेवके चापि निविशेषस्य ते ननु । सेवां को नाम कुर्वीत न योऽहमिव मूढधीः ॥५९२।। (युग्मम्) त्वत्सेवा तालसेवेव मया भ्रान्तेन या कृता । सा स्मर्तव्याऽतः परं तां करिष्यामि न खल्वहम् ॥५९३॥ सिद्धार्थोऽथाऽवदत्तुभ्यं रोचते यत् कुरुष्व तत् । इयमेव हि नः शैली सा भवेज्जातु नाऽन्यथा ॥५९४|| ततो जगाम भगवान् वैशालीगामिनाऽध्वना । प्रचचाल च गोशाल एको राजगृहाध्वना ॥५९५।। पागोशालो यान्महारण्यं चौरपञ्चशतान्वितम् । विवेश मूषक इव सर्पाकीर्णं महाबिलम् ॥५९६।। वृक्षारूढश्चौरपुमान् गृध्रवद् दूरतोऽपि तम् । ददर्शाऽऽख्यच्च चौराणां नग्नः कोऽप्येत्यकिञ्चनः ॥५९७।। तेऽप्यूचिरे तथाप्येष न मोच्यः स्याच्चरोऽप्ययम् । किं चैष नः पराभूय यातीदमपि नोचितम् ।।५९८।। एवं चाऽभ्यर्णमायातं गोशालं मातुलैहि भोः ! । वदन्तः पृथगिति तेऽध्यारुह्य तमवाहयन् ॥५९९।। पृथक् पृथग्वाहनया तेषां गोशालकोऽभवत् । श्वासशेषवपुस्ते च चौराः प्रययुरन्यतः ॥६००। अचिन्तयच्च गोशालो विपत् प्रथमतोऽप्यसौ । शुनेव स्वामिहीनेन मया लब्धाऽद्य दु:सहा ॥६०१॥ भर्तुश्च विपदं नन्ति देवाः शक्रादयोऽपि हि । तत्पादशरणस्थस्य ममापि विपदोऽत्यगुः ॥६०२।। क्षमं स्वयमपि त्रातुमुदासीनं तु कारणात् । मन्दभाग्यो निधिमिव तं प्राप्स्यामि कथं पुनः ? ॥६०३।। अन्वेष्यामि तमेवेति निश्चित्याऽतीत्य तद्वनम् । गोशालोऽ श्रान्तमभ्राम्यत् प्रभुपाददिदृक्षया ॥६०४।।
१. ०ध्यानस्था: खं. ४ विना । २. कूपिकां मु., खं. ४ । ३. निरपराधः । ४. त्यक्तचारित्रे । ५. संसर्गा० नूतन मु. । ६. तनयोऽह० मु. । यथाऽहमिव खं. ३ । ७. तालवृक्षस्य सेवा इव, निष्फला कष्टमयी चेत्यर्थः । ८. विशाली० मु. । ९. ०लोऽयान्महा० मु. । १०. ०मायान्तं खं. १-२ । ११. मातुलो हि मु. । मातुलेहि खं. १-२, नूतन मु. ।